Skip to content

27. सिराव्यध विधि – सूत्र – अ.हृ.”

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) सिराव्यधविधिः

सप्तविंशोऽध्यायः॥

अथातः सिराव्यधविधिमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

मधुरं लवणं किञ्जिदशीतोष्णमसंहतम्‌।

पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्‌॥१॥

लोहितं प्रभवः शुद्धं, तनोस्तेनैव च स्थितिः।

तत्पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः॥२॥

विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्‌।

मुखनेत्रशिरोरोगमदतृड्‌लवणास्यताः॥३॥

कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्‌।

शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः॥४॥

सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः।

तेषु स्रावयितुं रक्तमुद्रिक्तं व्यधयेत्सिराम्‌॥५॥

न तूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्‌।

अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्‌॥६॥

गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्‌।

अतीसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्‌॥७॥

स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु।

नायन्त्रितां सिरां विध्येन्न तिर्यङ्गाप्यनुत्थिताम्‌॥८॥

नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात्‌।

शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम्‌।९॥

अपाङ्ग्यामुपनास्यां वा कर्णरोगेषु कर्णजाम्‌।

नासारोगेषु नासाग्रे स्थिताम्‌ नासाललाटयोः॥१०॥

पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः।

जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरःश्रिताः॥११॥

उरोपाङ्गललाटस्था उन्मादेऽपस्मृतौ पुनः।

हनुसन्धौ समस्ते वा शिरां भ्रूमध्यगामिनीम्‌॥१२॥

विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे।

तृतीयकेंऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके॥१३॥

प्रवाहिकायां शूलिन्यां श्रोणितो द्व्यङ्गुले स्थिताम्‌।

शुक्रमेढ्रामये मेढ्रे ऊरुगां गलगण्डयोः॥१४॥

गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले।

इन्द्रबस्तेरधोऽपच्यां ङ्गुले चतुरङ्गुले॥१५॥

ऊर्ध्वं गुल्फस्यसक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके।

पाददाहे खुडे हर्षे विपाद्यां वातकण्टके॥१६॥

चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः।

गृध्रस्यामिव विश्वाच्याम्‌ यथोक्तानामदर्शने॥१७॥

मर्महीने यथासन्ने देशेऽन्यां व्यधयेत्‌ सिराम्‌।

अथ स्निग्धतनुः सज्जसर्वोपकरणो बली॥१८॥

कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः।

अग्नितापातपस्विन्नो जानुच्चासनसंस्थितः॥१९॥

मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः।

मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्‌॥२०॥

दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्‌।

पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः॥२१॥

कन्धरायां परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्‌।

एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः॥२२॥

ततो मध्यमयाऽङ्गुल्या वैद्यौऽङ्गुष्ठविमुक्तया।

ताडयेत्‌ उत्थितां ज्ञात्वा स्पर्शाद्वाऽङ्गुष्ठपीडनैः॥२३॥

कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया।

फलोद्देशे सुनिष्कम्पं सिरां, तद्वच्च मोक्षयेत्‌॥२४॥

ताडयन्‌ पीडयंश्चैनां विध्येद्‌व्रीहिमुखेन तु।

अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम्‌॥२५॥

अभ्युन्नतविदष्टाग्रजिह्वस्याधस्तदाश्रयाम्‌।

यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे॥२६॥

पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे।

कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके॥२७॥

विध्येद्धस्तशिरां बाहावनाकुञ्चितकूर्परे।

बध्द्‌वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगर्भिणम्‌॥२८॥

ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले।

विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्‌॥२९॥

प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते।

पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते॥३०॥

गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि।

द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः॥३१॥

बद्‌ध्वा विध्येत्सिराम्‌ इत्थमनुक्तेष्वपि कल्पयेत्‌।

तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्‌॥३२॥

मांसले निक्षिपेद्देशे व्रीह्यास्यं व्रीहिमात्रकम्‌।

यवार्धमस्थ्नामुपरि सिरां विध्यन्‌ कुठारिकाम्‌॥३३॥

सम्यग्विद्धा स्रवेद्धारां यन्त्रे मुक्ते तु न स्रवेत्‌।

अल्पकालं वहत्यल्पं, दुर्विद्धा तैलचूर्णनैः॥३४॥

सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते।

भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः॥३५॥

क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः।

असम्यगस्रे स्रवति वेल्लव्योषनिशानतैः॥३६॥

सागारधूमलवणतैलैर्दिह्याच्छिरामुखम्‌।

सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च॥३७॥

अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका।

सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत्‌॥३८॥

यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः।

स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा॥३९॥

वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्‌।

पित्तात्‌ पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम्‌॥४०॥

कफात्‌ स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्‌।

संसृष्टलिङ्गं संसर्गात्‌ त्रिदोषं मलिनाविलम्‌॥४१॥

अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्‌।

अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः॥४२॥

तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम्‌।

स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना॥४३॥

प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्‌।

अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा॥४४॥

स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्‌।

किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते॥४५॥

सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्‌।

हरेच्छृङ्गादिभिः शेषम्‌ प्रसादमथवा नयेत्‌॥४६॥

शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः।

दुष्टं रक्तमनुद्रिक्तमेवमेव प्रसादयेत्‌॥४७॥

रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्‌।

रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः॥४८॥

मृतकपालाञ्जनक्षौममषीक्षीरित्वगङ्कुरैः।

विचूर्णयेद्‌व्रणमुखं पद्मकादिहिमं पिबेत्‌॥४९॥

तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्‌।

सिरामुखं वा त्वरितं दहेत्तप्तशलाकया॥५०॥

उन्मार्गगा यन्त्रनिपीडनेन

स्वस्थानमायन्ति पुनर्न यावत्‌।

दोषाः प्रदुष्टा रुधिरं प्रपन्ना-

स्तावद्धिताहारविहारभाक्‌ स्यात्‌॥५१॥

नात्युष्णशीतं लघु दीपनीयं

रक्तेऽपनीते हितमन्नपानम्‌।

तदा शरीरं ह्यनवस्थितासृ-

गग्निर्विशेषादिति रक्षितव्यः॥५२॥

प्रसन्नवर्णेन्द्रियमिन्द्रियार्था-

निच्छन्तमव्याहतपक्तृवेगम्‌।

सुखान्वितं पुष्टिबलोपपन्नं

विशुद्धरक्तं पुरुषं वदन्ति॥५३॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यधविधिर्नाम सप्तविंशोऽध्यायः॥२७॥

Last updated on August 11th, 2021 at 06:07 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English