चरकसंहिता
इन्द्रियस्थानम् ।
दशमोऽध्याय: ।
अथात: सद्योमरणीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
सद्यस्तितिक्षत: प्राणाँल्लक्षणानि पृथक् पृथक् ।
अग्निवेश ! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति ॥३॥
वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि ।
तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम् ॥४॥
पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम् ।
वायु: शरीरे विचरन् सद्यो मुष्णाति जीवितम् ॥५॥
भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुण: ।
तस्य हिक्काकरो रोग: सद्यो मुष्णाति जीवितम् ॥६॥
क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन् ।
उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम् ॥७॥
अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिल: ।
कृशस्य वंक्षणौ गृह्णन् सद्यो मुष्णाति जीवितम् ॥८॥
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुत: ।
स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम् ॥९॥
हृदयं च गुदं चोभे गृहीत्वा मारुतो बली ।
दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम् ॥१०॥
वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली ।
श्वासं संजनयञ्जन्तो: सद्यो मुष्णाति जीवितम् ॥११॥
नाभिं मूत्रं बस्तिशीर्षं पुरीषं चापि मारुत: ।
प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम् ॥१२॥
भिद्येते वंक्षणौ यस्य वातशूलै: समन्तत: ।
भिन्नं पुरीषं तृष्णा च सद्य: प्राणाञ्जहाति स: ॥१३॥
आप्लुतं मारुतेनेह शरीरं यस्य केवलम् ।
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम् ॥१४॥
शरीर शोफितं यस्य वातशोफेन देहिन: ।
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम् ॥१५॥
आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका ।
भिन्नं पुरीषं तृष्णा च सद्य: प्राणाञ्जहाति स: ॥१६॥
पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका ।
तृष्णा गुदग्रहश्चोग्र: सद्यो जह्यात् स जीवितम् ॥१७॥
पक्वाशयमधिष्ठाय हत्वा संज्ञां च मारुत: ।
कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम् ॥१८॥
दन्ता: कर्दमदिग्धाभा मुखं चूर्णकसन्निभम् ।
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यत: ॥१९॥
तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनै: ।
स्पृष्ट: प्राणाञ्जहात्याशु शकृद्भेदेन चातुर: ॥२०॥
तत्र श्लोक:–
एतानि खलु लिङ्गानि य: सम्यगवबुध्यते ।
स जीवितं च मर्त्यानां मरणं चावबुध्यते ॥२१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम
दशमोऽध्याय: ॥१०॥
Last updated on June 11th, 2021 at 11:22 am