Skip to content

06. अन्नस्वरूप विज्ञानीय – सूत्र – अ.हृ.

अष्टाङ्गहृदयस्य(सूत्रस्थाने)अन्नस्वरूपविज्ञानीय

षष्ठोऽध्यायः।

अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

अथ शूकधान्यवर्गः।

 रक्तो महान्‌ सकलमस्तूर्णकः शकुनाहृतः।

सारामुखो दीर्घशूको रोध्रशूकः सुगन्धिकः॥१॥

पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ।

काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः॥२॥

लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः।

पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः॥३॥

स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः।

कषायानुरसाः पथ्या लघवो मूत्रला हिमाः॥४॥

शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहाः।

महांस्तमनु कलमस्तं चाप्यनु ततः परे॥५॥

यावका हायनाः पांसुबाष्पनैषधकादयः।

स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाःश्लेष्मपित्तलाः॥६॥

सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः।

स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः॥७॥

षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः।

ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतू मुखाः॥८॥

कुक्कुटाण्डकलावाख्यपारावतकशूकराः।

वरकोद्दालकोज्ज्वालचीनशारददर्दुराः॥९॥

गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः।

स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरोगुरुः॥१०॥

बहुमूत्रपुरीषोष्मा, त्रिदोषस्त्वेव पाटलः।

कङ्गुकोद्रवनीवारश्यामाकादि हिमं लघु॥११॥

तृणधान्यं पवनकृल्लेखनं कफपित्तहृत्‌।

भग्नसन्धानकृत्तत्र प्रियङ्गुर्बृंहणी गुरुः॥१२॥

कोरदूषः परं ग्राही स्पर्शे शीतो विषापहः।

रूक्षः शीतो गुरुः स्वादुः सरो विड्‌वातकृद्यवः॥१३॥

वृष्यः स्थैर्यकरो मूत्रमेदः पित्तकफान्‌ जयेत्‌।

पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्‌॥१४॥

न्यूनो यवादनुयवः रूक्षोष्णो वंशजो यवः।

वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा॥१५॥

सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः।

पथ्या नन्दीमुखी शीता कषायमधुरा लघुः॥१६॥

इति शूकधान्यवर्गः।

अथ शिम्बीधान्यवर्गः।

मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्‌।

कषायं स्वादु सङग्राहि कटुपाकं हिमं लघु॥१७॥

मेदःश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः।

वरोऽत्र मुद्नोऽल्पचलः, कलायस्त्वतिवातलः॥१८॥

राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः।

उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान्‌॥१९॥

कासार्शः कफवातांश्च घ्नन्ति पित्तास्रदाः परम्‌।

निष्पावो वातपित्तास्रस्तन्यमूत्रकरो गुरुः॥२०॥

सरो विदाही दृक्शुक्रकफशोफविषापहः।

माषः स्रिग्धो बलश्लेष्ममलपित्तकरः सरः॥२१॥

गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्‌।

फलानि माषवद्विद्यात्काकाण्डोलात्मगुप्तयोः॥२२॥

उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः।

अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत्‌॥२३॥

स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः।

दृक्शुक्रहृत्कटुः पाके, तद्वद्बीजं कुसुम्भजम्‌॥२४॥

माषोऽत्र सर्वेष्ववरो, यवकः शूकजेषु च।

नवं धान्यमभिष्यन्दि, लघु संवत्सरोषितम्‌॥२५॥

शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्‌।

इति शिम्बीधान्यवर्गः।

अथ कृतान्न (पक्कान्न) वर्गः।

मण्डपेयाविलेपीनामोदनस्य च लाघवम्‌॥२६॥

यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः।

तृड्‌ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्‌॥२७॥

स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्‌।

क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा॥२८॥

मलानुलोमनी पथ्या पेया दीपनपाचनी।

विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता॥२९॥

व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्‌।

सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः॥३०॥

यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः।

विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः॥३१॥

इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत्‌।

बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः॥३२॥

मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्‌।

वातानुलोमी कौलत्थो गुल्मतूनीप्रतूनिजित्‌॥३३॥

तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्‌।

शाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु॥३४॥

रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा।

श्रमक्षुत्तृट्‌क्लमहरं पानकं प्रीणनं गुरु॥३५॥

विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्‌।

लाजास्तृट्‌छर्द्यतीसारमेहमेदः कफच्छिदः॥३६॥

कासपित्तोपशमना दीपना लघवो हिमाः।

पृथुका गुरवो बल्याः कफविष्टम्भकारिणः॥३७॥

धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः।

सक्तवो लघवः क्षुत्तृट्‌श्रमनेत्रामयव्रणान्‌॥३८॥

घ्नन्ति सन्तर्पणाः पानात्सद्य एव बलप्रदाः।

नोदकान्तरितान्न द्विर्न निशायां न केवलान्‌॥३९॥

न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून्‌।

पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः॥४०॥

वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः।

मुद्गादिजास्तु गुरवो यथाद्रव्यगुणानुगाः॥४१॥

कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान्‌।

एकयोनींल्लघून्विद्यादपूपानुत्तरोत्तरम्‌॥४२॥

इति कृतान्न (पक्वान्न) वर्गः।

अथ मांसवर्गः।

हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः।

शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः॥४३॥

लाववार्तीकवर्तीररक्तवर्त्मककुक्कुभाः।

कपिञ्जलोपचक्राख्यचकोरकुरुबाहवः॥४४॥

वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी।

ताम्रचूडाख्यबकरगोनर्दगिरिवर्तिकाः॥४५॥

तथा शारपदेन्द्राभवरटाद्याश्च विष्किराः।

जीवञ्जीवकदात्यूहभृङ्गाह्वशुकसारिकाः॥४६॥

लट्वाकोकिलहारीतकपोतचटकादयः।

प्रतुदाः भेकगोधाहिश्वाविदाद्या बिलेशयाः॥४७॥

गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः।

मार्जारमूषकव्याघ्रवृकबभ्रुतरक्षवः॥४८॥

लोपाकजम्बुकश्येनचाषवान्तादवायसाः।

शशघ्नीभासकुररगृध्रोलूककुलिङ्गकाः॥४९॥

धूमिका मधुहा चेति प्रसहा मृगपक्षिणः।

वराहमहिषन्यङ्कुरुरुरोहितवारणाः॥५०॥

सृमरश्चमरः खड्‌गो गवयश्च महामृगाः।

हंससारसकादम्बबककारण्डवप्लवाः॥५१॥

बलाकोत्क्रोशचक्राह्वमद्गुक्रौञ्चादयोऽप्चराः।

मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः॥५२॥

शुक्तिशङ्खोद्रशम्बूकशफरीवर्मिचन्द्रिकाः।

चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः॥५३॥

राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा।

(मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्‌।

प्रासहं च महामृग्यमप्चरं मात्स्यमष्टधा॥१॥)

योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते॥।५४॥

आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ।

तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः॥५५॥

पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे।

दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः॥५६॥

ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः।

तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्‌॥५७॥

ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्‌।

नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्‌॥५८॥

तद्वच्च कुक्कुटो वृष्यः ग्राम्यस्तु श्लेष्मलो गुरुः।

मेधाऽनलकरा हृद्याः क्रकराः सोपचक्रकाः॥५९॥

गुरुः सलवणः काणकपोतः सर्वदोषकृत्‌।

चटकाः श्लेष्मलाः स्निग्धा वातघ्ना: शुक्रलाः परम्‌॥६०॥

गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्‌।

मूत्रशुक्रकृतो बल्या वातघ्ना: कफपित्तलाः॥६१॥

शीता महामृगास्तेषु, क्रव्यादप्रसहाः पुनः।

लवणानुरसाः पाके कटुका मांस वर्धनाः॥६२॥

जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः।

नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्‌॥६३॥

शरीरधातुसामान्यादनभिष्यन्दि बृंहणम्‌।

विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्‌॥६४॥

शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्‌।

कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति॥६५॥

उष्णो गरीयान्महिषः स्वप्नदाढर्यबृहत्त्वकृत्‌।

तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः॥६६॥

मत्स्याः परं कफकराः चिलिचीमस्त्रिदोषकृत्‌।

लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम्‌॥६७॥

मांसं सद्यो हतं शुद्धं वयःस्थं च भजेत्‌ – त्यजेत्।

मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम्‌॥६८॥

पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी, गर्भिणी गुरुः।

लघुर्योषिच्चतुष्पात्सु, विहङ्गेषु पुनः पुमान्‌॥६९॥

 शिरःस्कन्धोरुपृष्ठस्य कट्याः सक्थनोश्च गौरवम्‌।

तथाऽऽमपक्वाशययोर्यथापूर्वं विनिर्दिशेत्‌॥७०॥

शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्‌।

मांसाद्गरीयो वृषमेढ्रवृक्कयकृद्गुदम्‌॥७१॥

इति मांसवर्गः।

अथ शाकवर्गः।

शाकं पाठाशठीसूषासुनिषण्णसतीनजम्‌।

त्रिदोषघ्नं लघु ग्राही सराजक्षववास्तुकम्‌॥७२॥

सुनिषण्णोऽग्निकृद्वृष्यस्तेषु राजक्षवः परम्‌।

ग्रहण्यर्शोविकारघ्नः वर्चोभेदि तु वास्तुकम्‌॥७३॥

हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी।

काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी॥७४॥

ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः।

पटोलसप्तलारिष्टशार्ङ्गेष्टावल्गुजाऽमृताः॥७५॥

वेत्राग्रबृहतीवासाकुतिलीतिलपर्णिकाः।

मण्डूकपर्णीकर्कोटकारवेल्लकपर्पटाः॥७६॥

नाडीकलायगोजिह्वावार्ताकं वनतिक्तकम्‌।

करीरं कुलकं नन्दी कुचैला शकुलादनी॥७७॥

कटिल्लं केम्बुकं शीतं सकोशातककर्कशम्‌।

तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्‌॥७८॥

हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्‌।

पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्‌॥७९॥

वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्‌।

कारवेल्लं सकटुकं दीपनं कफजित्परम्‌॥८०॥

वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्‌।

सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्‌॥८१॥

करीरमाध्मानकरं कषायं स्वादु तिक्तकम्‌।

कोशातकावल्गुजकौ भेदिनावग्निदीपनौ॥८२॥

तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः।

मदपित्तविषास्रघ्नः मुञ्जातं वातपित्तजित्‌॥८३॥

स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्‌।

गुर्वी सरा तु पालङ्क्या मदघ्नी चाप्यु पोदका॥८४॥

पालङ्क्यावत्स्मृतश्चञ्चुः स तु सङ्‌ग्रहणात्मकः।

विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला॥८५॥

जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्‌।

चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा॥८६॥

कूष्माण्डतुम्बकालिङ्गकर्कार्वेर्वारुतिण्डिशम्‌।

तथा त्रपुसचीनाकचिर्भटं कफवातकृत्‌॥८७॥

भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु।

वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्‌॥८८॥

बस्तिशुद्धिकरं वृष्यम्‌ त्रपुसं त्वतिमूत्रलम्‌।

तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम्‌॥८९॥

बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा।

शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्‌॥९०॥

रोचनं दीपनं हृद्यमष्ठीलाऽऽनाहनुल्लघु।

मृणालबिसशालूककुमुदोत्पलकन्दकम्‌॥९१॥

नन्दीमाषककेलूटशृङ्गाटककसेरुकम्‌।

क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु॥९२॥

कलम्बनालिकामार्षकुटिञ्जरकुतुम्बकम्‌।

चिल्लीलट्वाकलोणीकाकुरूटकगवेधुकम्‌॥९३॥

जीवन्तझुञ्झ्वेडगजयवशाकसुवर्चलाः।

आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम्‌॥९४॥

स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु।

शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति॥९५॥

स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्‌।

लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता॥९६॥

तर्कारीवरुणं स्वादु सतिक्तं कफवातजित्‌।

वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्‌॥९७॥

दीपनं भेदनं हन्ति गरशोफकफानिलान्‌।

दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः॥९८॥

शतावर्यङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः।

रूक्षो वंशकरीरस्तु विदाही वातपित्तलः॥९९॥

पत्तूरो दीपनस्तिक्तः प्लीहार्शः कफवातजित्‌।

कृमिकासकफोत्क्लेदान्‌ कासमर्दो जयेत्सरः॥१००॥

रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्‌।

गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत्‌॥१०१॥

यद्वालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्‌।

तन्मूलकं दोषहरं लघु सोष्णं नियच्छति॥१०२॥

गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्‌।

स्वराग्निसादोदावर्तपीनसांश्च महत्पुनः॥१०३॥

रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत्‌।

गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्‌॥१०४॥

वातश्लेष्महरं शुष्कं सर्वम्‌ आमं तु दोषलम्‌।

कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः॥१०५॥

कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणम्‌।

फणिज्जार्जकजम्बीरप्रभृति ग्राहि शालनम्‌॥१०६॥

विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्‌।

दृक्शुक्रकृमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु॥१०७॥

हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा।

सुरसः सुमुखो नातिविदाही गरशोफहा॥१०८॥

आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्‌।

लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः॥१०९॥

 हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः।

भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः॥११०॥

किलासकुष्ठगुल्मार्शोमेहक्रिमिकफानिलान्‌।

सहिध्मापीनसश्वासकासान्‌ हन्ति रसायनम्‌॥१११॥

पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः।

कफवातार्शसां पथ्यः स्वेदोऽभ्यवहृतौ तथा॥११२॥

तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हितकृन्न सः।

दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः॥११३॥

विशेषादर्शसां पथ्यः भूकन्दस्त्वतिदोषलः।

पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्‌॥११४॥

वराशाकेषु जीवन्ती सार्षपं त्ववरं परम्‌।

इति शाकवर्गः।

अथ फलवर्गः।

द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्‌॥११५॥

स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः।

निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान्‌॥११६॥

तृष्णाकासश्रमश्वासस्वरभेदक्षतक्षयान्‌।

उद्रिक्तपित्ताञ्जयति त्रीन्दोषान्स्वादु दाडिमम्‌॥११७॥

पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्‌।

सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्‌॥११८॥

मोचखर्जूरपनसनारिकेलपरूषकम्‌।

आम्राततालकाश्मर्यराजादनमधूकजम्‌॥११९॥

सौवीरबदराङ्काेल्लफल्गुश्लेष्मातकोद्भवम्‌।

वातामाभिषुकाक्षोडमुकूलकनिकोचकम्‌॥१२०॥

उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्‌।

दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्‌॥१२१॥

स्वादुपाकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्‌।

फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्‌॥१२२॥

शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्‌।

वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्‌॥१२३॥

परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्‌।

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः॥१२४॥

कोलमज्जा गुणैस्तद्वत्तृट्‌छर्दिःकासजिच्च सः।

पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम्‌॥१२५॥

दीपनं कफवातघ्नं बालं, ग्राह्युभयं च तत्‌।

कपित्थमामं कण्ठघ्नं दोषलं, दोषघाति तु॥१२६॥

पक्वं हिध्मावमथुजित्‌, सर्वं ग्राहि विषापहम्‌।

जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम्‌॥१२७॥

सङ्‌ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्‌।

वातपित्तास्रकृद्वालं, बद्धास्थि कफपित्तकृत्‌॥१२८॥

गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्‌।

वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु॥१२९॥

शम्या गुरूष्णं केशघ्नं रूक्षम्‌ पीलु तु पित्तलम्‌।

कफवातहरं भेदि प्लीहार्शः कृमिगुल्मनुत्‌॥१३०॥

सतिक्तं स्वादु यत्पीलु नात्युष्णं तत्‌ त्रिदोषजित्‌।

त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्‌॥१३१॥

बृंहणं मधुरं मांसं वातपित्तहरं गुरु।

लघु तत्केसरं कासश्वासहिध्मामदात्ययान्‌॥१३२॥

आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्‌।

गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत्‌॥१३३॥

भल्लातकस्य त्वङ्‌मासं बृंहणं स्वादु शीतलम्‌।

तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्‌॥१३४॥

स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु।

रुच्यमत्यग्निशमनम्‌ रुच्यं मधुरमारुकम्‌।१३४॥

पक्वमाशु जरां याति नात्युष्णगुरुदोषलम्‌।

द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम्‌॥१३६॥

गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्‌।

तथाऽम्लं कोलकर्कन्धुलकुचाम्रातकारुकम्‌॥१३७॥

ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम्‌।

नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्‌॥१३८॥

दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम्‌।

तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥१३९॥

फलानामवरं तत्र लकुचं सर्वदोषकृत्‌।

हिमानलोष्णदुर्वातव्याललालादिदूषितम्‌॥१४०॥

जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्‌।

अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च॥१४१॥

धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्‌।

असञ्जातरसं तद्वच्छुष्कं चान्यत्रमूलकात्‌॥१४२॥

प्रायेण फलमप्येवं तथाऽऽमं बिल्ववर्जितम्‌।

इति फलवर्गः।

अथौषधवर्गः।

विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदु॥१४३॥

वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्‌।

सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्‌॥१४४॥

लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्‌।

लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्‌॥१४५॥

कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्‌।

ऊर्ध्वाधःकफवातानुलोमनं दीपनं बिडम्‌॥१४६॥

विबन्धानाहविष्टम्भशूलगौरवनाशनम्‌।

विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्‌॥१४७॥

सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्‌।

कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः॥१४८॥

रोमकं लघु, पांसूत्थं सक्षारं श्लेष्मलं गुरु।

लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत्‌॥१४९॥

गुल्महृद्‌ग्रहणीपाण्डुप्लीहानाहगलामयान्‌।

श्वासार्शः कफकासांश्च शमयेद्यवशूकजः॥१५०॥

क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः।

पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः॥१५१॥

अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुषाम्‌।

हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्‌॥१५२॥

कटुपाकरसं रुच्यं दीपनं पाचनं लघु।

कषाया मधुरा पाके रूक्षा विलवणा लघुः॥१५३॥

दीपनी पाचनी मेध्या वयसः स्थापनी परम्‌।

उष्णवीर्या सराऽऽयुष्या बुद्धीन्द्रियबलप्रदा॥१५४॥

कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्‌।

शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्‌॥१५५॥

सशोषशोफातीसारमेदमोहवमिक्रिमीन्‌।

श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम्‌॥१५६॥

विबन्धं स्रोतसां गुल्ममुरुस्तम्भमरोचकम्‌।

हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान्‌॥१५७॥

तद्वदामलकं शीतमम्लं पित्तकफापहम्‌।

कटुपाके हिमं केश्यमक्षमीषच्च तद्गुणम्‌॥१५८॥

इयं रसायनवरा त्रिफलाऽक्ष्यामयापहा।

रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्‌॥१५९॥

सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्‌।

पित्तप्रकोपितीक्ष्णोष्णं रूक्षं रोचनदीपनम्‌॥१६०॥

रसे पाके च कटुकं कफघ्नं मरिचं लघु।

श्लेष्मला स्वादुशीताऽऽर्द्रागुर्वीस्निग्धा च पिप्पली॥१६१॥

सा शुष्का विपरीताऽतः स्निग्धा वृष्या रसे कटुः।

स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा॥१६२॥

न तामत्युपयुञ्जीत रसायनविधिं विना।

नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्‌॥१६३॥

रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्‌।

तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्‌॥१६४॥

स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्‌।

चविकापिप्पलीमूलं मरिचाल्पान्तरं गुणैः॥१६५॥

चित्रकोऽग्निसमः पाके शोफार्शः कृमिकुष्ठहा।

पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्‌॥१६६॥

गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्‌।

बिल्वकाश्मर्यतर्कारीपाटलाटिण्टुकैर्महत्‌॥१६७॥

जयेत्कषायतिक्तोष्णं पञ्चमूलं कफानिलौ।

ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्‌॥१६८॥

स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्‌।

बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन तु॥१६९॥

मध्यमं कफवातघ्नं नातिपित्तकरं सरम्‌।

अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्‌॥१७०॥

जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्‌।

तृणाख्यं पित्तजिद्दर्भकासेक्षुशरशालिभिः॥१७१॥

इत्यौषधवर्गः।

शूकशिम्बीजपक्वान्नमांसशाकफलौषधैः।

वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः॥१७२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नस्वरूपविज्ञानीयो नाम षष्ठोऽध्यायः॥६॥

Last updated on August 6th, 2021 at 09:58 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English