Skip to content

31. Kshudraroga Vidnynaneeya – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

क्षुद्ररोगविज्ञानीयं एकत्रिंशोऽध्यायः।

अथातः क्षुद्ररोगविज्ञानीयं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा।

पिटिका कफवाताभ्यां बालानामजगल्लिका॥१॥

यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना।

अवक्त्रा चालजी वृत्ता स्तोकपूया घनोन्नता॥२॥

ग्रन्थयः पञ्च वा षड्‌वा कच्छपी कच्छपोन्नताः।

कर्णस्योर्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक्‌॥३॥

शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः।

हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः॥४॥

शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः।

मेदोगर्भा मुखे यूनां ताभ्यां च मुखदूषिकाः॥५॥

ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः।

चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः॥६॥

पित्तेन पिटिका वृत्ता पक्वोदुम्बरसन्निभा।

महादाहज्वरकरी विवृता विवृतानना॥७॥

गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः।

मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः॥८॥

ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः।

या पद्मकर्णिकाकारा पिटिका पिटिकाचिता॥९॥

सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी।

मण्डला विपुलोत्सन्नां सरागपिटिकाचिता॥१०॥

कक्षेति कक्षासन्नेषु प्रायो देशेषु साऽनिलात्‌।

पित्ताद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः॥११॥

तादृशी महती त्वेका गन्धनामेति कीर्तिता।

घर्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः॥१२॥

राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः।

दोषैः पित्तोल्बणैर्मन्दैर्विसर्पति विसर्पवत्‌॥१३॥

शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः।

मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः॥१४॥

कक्षाभागेषु जायन्ते येऽग्नन्याभाः साऽग्निरोहिणी।

पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्ति जीवितम्‌॥१५॥

त्रिलिङ्गा पिटिका वृत्ता जत्रूर्ध्वमिरिवेल्लिका।

विदारीकन्दकठिना विदारी कक्षवङ्‌क्षणे॥१६॥

मेदोनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः।

भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्बणोऽनिलः॥१७॥

मांसं विशोष्य ग्रथितां शर्करामुपपादयेत्‌।

दुर्गन्धं रुदिरं क्लिन्नं नानावर्णं ततो मलाः॥१८॥

तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्‌।

पाणिपादतलै सन्धौ जत्रूर्ध्वं वोपचीयते॥१९॥

वल्मीकवच्छनैर्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः।

रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोऽसौ समस्तजः॥२०॥

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः।

ग्रन्थिः कीलवदुत्सन्नो जायते कदरं तु तत्‌॥२१॥

वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम्‌।

अणूकरोति बाह्यान्तर्मार्गमस्य ततः शकृत्‌॥२२॥

कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः।

कुर्यात्पित्तानिलं पाकं नखमांसे सरुग्ज्वरम्‌॥२३॥

चिप्यमक्षतरोगं च विद्यादुपनखं च तम्‌।

कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः॥२४॥

दुष्टकर्दमसंस्पर्शात्‌ कण्डूक्लेदान्वितान्तराः।

अङ्गुल्योऽलसमित्याहुस्तिलाभांस्तिलकालकान्‌॥२५॥

कृष्णानवेदनांस्त्वक्स्थान्‌ मषांस्तानेव चोन्नतान्‌।

मषेभ्यस्तून्नततरांश्चर्मकीलान्‌ सितासितान्‌॥२६॥

तथाविधो जतुमणिः सहजो लोहितस्तु सः।

कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम्‌॥२७॥

शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु।

श्यामलं मण्डलं व्यङ्गं, वक्त्रादन्यत्र नीलिका॥२८॥

परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्‌।

पित्तात्ताम्रान्तमानीलं, श्वेतान्तं कण्डुमत्कफात्‌॥२९॥

रक्ताद्रक्तान्तमाताम्रं सौषं चिमिचिमायते।

वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति॥३०॥

तत्स्त्वग्जायते पाण्डुः क्रमेण च विचेतना।

अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः॥३१॥

असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः।

मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च॥३२॥

उत्कोठः सोऽनुबद्धस्तु कोठ इत्यभिधीयते।

प्रोक्ताः षट्त्रिंशदित्येते क्षुद्ररोगा विभागशः॥३३॥

(यानविज्ञाय मुह्येत चिकित्सायां चिकित्सकः।)

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्ररोगविज्ञानीयो नाम एकत्रिंशोऽध्यायः॥३१॥

Last updated on September 13th, 2021 at 11:07 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English