Skip to content

08. Vartmaroga Vidnyaaneeya – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

वर्त्मरोगविज्ञानीयं अष्टमोऽध्यायः।

अथातो वर्त्मरोगविज्ञानीयमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः।

अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः॥१॥

शिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः।

वर्त्मसन्धिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा॥२॥

रोगान्‌ कुर्युः चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः।

सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम्‌॥३॥

पांशुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च।

विमर्दनात्‌ स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तत्‌॥।४॥

चालयन्‌ वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः।

करोत्यरुङ्‌ निमेषोऽसौ वर्त्म यत्तु निमील्यते॥५॥

विमुक्तसन्धि निश्चेष्टं हीनं वातहतं हि तत्‌।

कृष्णाः पित्तेन बह्व्योऽन्तर्वर्त्म कुम्भीकबीजवत्‌॥६॥

आध्मायन्ते पुनर्भिन्नाः पिटिकाः कुम्भिसंज्ञिताः।

सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम्‌॥७॥

पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत्‌।

करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमास्थितम्‌॥८॥

पक्ष्मणां शातनं चानु पक्ष्मशातं वदन्ति तम्‌।

पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात्‌॥९॥

शोफोपदेहरुक्कण्डूपिच्छिलाश्रुसमन्विताः।

कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत्‌॥१०॥

ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान्‌ कठिनः कफात्‌।

कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथ वा॥११॥

रक्ता रक्तेन पिटिका तत्तुल्यपिटिकाचिता।

उत्सङ्गाख्या तथोत्क्लिष्टं राजिमत्स्पर्शनाक्षमम्‌।१२॥

अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्‌।

रक्तं रक्तेन तत्स्रावि छिन्नं छिन्नं च वर्धते॥१३॥

मध्ये वा वर्त्मनोऽन्ते वा कण्डूषारुग्वती स्थिरा।

मुद्गमात्राऽसृजा ताम्रा पिटिकाऽञ्जननामिका॥१४॥

दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम्‌।

सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत्‌॥।१५॥

यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्‌।

रक्तदोषत्रयोत्क्लेशाद्भवत्युत्क्लिष्टवर्त्म तत्‌॥१६॥

श्याववर्त्म मलैः सास्रैः सास्रैः श्यावं रुक्क्लेदशोफवत्‌।

श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी॥१७॥

वर्त्मनोऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः।

सिकतावर्त्म कृष्णं तु कर्दमं कर्दमोपमम्‌॥१८॥

बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः।

कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः॥१९॥

स्यात्तेनशिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः।

सवर्त्मशूलपैच्छिल्यः कर्णनासाक्षिमर्दनः॥२०॥

पक्ष्मोपरोधे सङ्कोचो वर्त्मनां जायते तथा।

खरताऽन्तर्मुखत्वं च रोम्णामन्यानि वा पुनः॥२१॥

कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते।

उष्यते चानिलादिद्विडल्पाहः शान्तिरुद्धृतैः॥२२॥

कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः।

ताम्रः पक्वोऽस्रपूयस्रुदलज्याध्मायते मुहुः॥२३॥

वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः।

सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः॥२४॥

चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः।

आद्योऽत्र भेषजैः साध्यो द्वौ ततोऽर्शश्च वर्जयेत्‌॥२५॥

पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्रेण साधयेत्‌।

कुट्टयेत्पक्ष्मसदनं छिन्द्यात्तेष्वपि चार्बुदम्‌॥२६॥

भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः।

पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम्‌॥२७॥

सकर्दमं सबहलं विलिखेत्सकुकूणकम्‌॥२७.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने वर्त्मरोगविज्ञानीयमध्यायो नाम अष्टमोऽध्यायः॥८॥

Last updated on September 1st, 2021 at 11:01 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English