Skip to content

02. Dinacharyaa – Sootra – AH”

अष्टाङ्गहृदयस्य(सूत्रस्थानम्‌) दिनचर्या

द्वितीयोऽध्यायः।

अथातो दिनचर्याऽध्यायं व्याख्यास्यामः

इति ह स्माहुरात्रेयादयो महर्षयः।

ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः।

शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः॥१॥

अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्‌।

प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्‌॥२॥

कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम्‌।

भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्‌॥३॥

नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती।

तृष्णास्यपाकहृन्नेत्रशिरः कर्णामयी च तत्‌॥४॥

सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्‌।

चक्षुस्तेजोमयं तस्य विशेषात्‌ श्लेष्मतो भयम्‌॥५॥

योजयेत्सप्तरात्रेऽस्मात्स्रावणार्थं रसाञ्जनम्‌।

ततो नावनगण्डूषधूमताम्बूलभाग्भवेत॥६॥

ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्‌।

विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि॥७॥

अभ्यङ्गमाचरेन्नित्यं, सजराश्रमवातहा।

दृष्टिप्रसादपुष्ट्यायुःस्वप्नसुत्वक्त्वदार्ढ्यकृत्‌॥८॥

शिरःश्रवणपादेषु तं विशेषेण शीलयेत्‌।

वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः॥९॥

लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः।

विभक्तघनगात्रत्वं व्यायामादुपजायते॥१०॥

वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्‌।

अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः॥११॥

शीतकाले वसन्ते च, मन्दमेव ततोऽन्यदा।

तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः॥१२॥

तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः।

अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते॥१३॥

व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसम्‌।

गजं सिंह इवाकर्षन्‌ भजन्नति विनश्यति॥१४॥

उद्वर्तनं कफहरं मेदसः प्रविलायनम्‌।

स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्‌॥१५॥

दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्‌।

कण्डूमलश्रमस्वेदतन्द्रातृड्‌दाहपाप्मजित्‌॥१६॥

उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः।

तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम्‌॥१७॥

स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु।

आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्‌॥१८॥

जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात्‌।

न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्‌॥१९॥

सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः।

सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्‌॥२०॥

भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः।

हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृते॥२१॥

सम्भिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम्‌।

पापं कर्मेति दशधा कायवाङ्‌मानसैस्त्यजेत्‌॥२२॥

अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः।

आत्मवत्सततं पश्येदपि कीटपिपीलिकम्‌॥२३॥

अर्चयेद्देवगोविप्रवृद्धवैद्यनृपातिथीन्‌।

विमुखान्नार्थिनःकुर्यान्नावमन्येत नाक्षिपेत्‌॥२४॥

उपकारप्रधानः स्यादपकारपरेऽप्यरौ।

सम्पद्विपत्स्वेकमना, हेतावीर्ष्येत्फले न तु॥२५॥

काले हितं मितं ब्रूयादविसंवादि पेशलम्‌।

पूर्वाभिभाषी, सुमुखः सुशीलः करुणामृदुः॥२६॥

नैकः सुखी, न सर्वत्र विश्रब्धो, न च शङ्कितः।

न किञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्‌॥२७॥

प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः।

जनस्याशयमालक्ष्य यो यथा परितुष्यति॥२८॥

तं तथैवानुवर्तेत पराराधनपण्डितः।

न पीडयेदिन्द्रियाणि न चैतान्यति लालयेत्‌॥२९॥

त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्‌।

अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्‌॥३०॥

नीचरोमनखश्मश्रुर्निर्मलाङि्‌घ्रमलायनः।

स्नानशीलः सुसुरभिः सुवेषोऽनुल्बणोज्ज्वलः॥३१॥

धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः।

सातपत्रपदत्राणो विचरेद्युगमात्रदृक्‌॥३२॥

निशि चात्ययिके कार्ये दण्डी मौली सहायवान्‌।

चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन्‌॥३३॥

नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च।

नदीं तरेन्न बाहुभ्यां, नाग्निस्कन्धमभिव्रजेत्‌॥३४॥

सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानवत्‌।

नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम्‌॥३५॥

नासिकां न विकुष्णीयान्नाकस्माद्विलिखेद्भुवम्‌।

नाङ्गैश्चेष्टेत विगुणं, नासीतोत्कटकश्चिरम्‌॥३६॥

देहवाक्चेतसां चेष्टाः प्राक्‌ श्रमाद्विनिवर्तयेत्‌।

नोर्ध्वजानुश्चिरं तिष्ठेत्‌ नक्तं सेवेत न द्रुमम्‌॥३७॥

तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्‌।

सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न॥३८॥

सर्वथेक्षेत नादित्यं, न भारं शिरसा वहेत्‌।

नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च॥३९॥

मद्यविक्रयसन्धानदानादानानि नाचरेत्‌।

पुरोवातातपरजस्तुषारपरुषानिलान्‌॥४०॥

अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्‌।

कूलछायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः॥४१॥

हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः।

सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्‌॥४२॥

शत्रुसत्रगणाकीर्णगणिकापणिकाशनम्‌।

गात्रवक्त्रनखैर्वाद्यंहस्तकेशावधूननम्‌॥४३॥

तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्‌।

मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत्‌॥४४॥

आचार्यः सर्वचेष्टासु लोक एव हि धीमतः।

अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः॥४५॥

आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः।

स्वार्थबुद्धिः परार्थेषु पर्याप्तिमिति सद्‌व्रतम्‌॥४६॥

नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रतिः।

दुःखभाङ्ग भवत्येवं नित्यं सन्निहितस्मृतिः॥४७॥

इत्याचारः समासेन, यं प्राप्नोति समाचरन्‌।

आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्‌॥४८॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय संहितायां सूत्रस्थाने दिनचर्या नाम द्वितीयोऽध्यायः॥२॥

Last updated on August 5th, 2021 at 08:45 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English