Skip to content

06. Dravya Kalpa – Kalpa Siddhi – AH”

अष्टाङ्गहृदये कल्पसिद्धस्थानम्‌

द्रव्यकल्पं षष्ठोऽध्यायः।

अथातो द्रव्यकल्पं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ।

श्मशानचैत्यायतनश्वभ्रवल्मीकवर्जिते॥१॥

मृदौ प्रदक्षिणजले कुशरोहिषसंस्तृते।

अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः॥२॥

शस्यते भेषजं जातं, युक्तं वर्णरसादिभिः।

जन्त्वजग्धं दवादग्धमविदग्धं च वैकृतैः॥३॥

भूतैश्छायातपाम्ब्वाद्यैर्यथाकालं च सेवितम्‌।

अवगाढमहामूलमुदीचीं दिशमाश्रितम्‌॥४॥

(महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि।

तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै॥१॥

मन्त्रेणानेन मतिमान्‌ सर्वमप्यौषधं नयेत्‌।)

अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः।

गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत्‌॥५॥

सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम्‌।

ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः॥६॥

पयो बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्‌।

वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्‌॥७॥

कषाययोनयः पञ्च रसा लवणवर्जिताः।

रसः कल्कः शृतः शीतः फाण्टोति प्रकल्पना॥८॥

पञ्चधैव कषायाणां पूर्वं पूर्वं बलाधिका।

सद्यः समुद्धृतात्‌ क्षुण्णाद्यः स्रवेत्पटपीडितात्‌॥९॥

स्वरसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः।

चूर्णोऽप्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः॥१०॥

सद्योऽभिषुतपूतस्तु फाण्टः तन्मानकल्पने।

युञ्ज्याद्व्याध्यादिबलतस्तथा च वचनं मुनेः॥११॥

मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः।

आलोच्य देशकालौ च योज्या तद्वच्च कल्पना॥१२॥

मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुष्पलम्‌।

पेष्यस्य कर्षमालोड्यं तद्‌ द्रवस्य पलत्रये॥१३॥

क्वाथं द्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम्‌।

शीतं पले पलैः षड्भिः चतुर्भिस्तु ततोऽपरम्‌॥१४॥

स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्‌।

कल्कस्नेहद्रवं योज्यम्‌ अधीते शौनकः पुनः॥१५॥

स्नेहे सिद्ध्यति शुद्धाम्बु निःक्वाथस्वरसैः क्रमात्‌।

कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्‌॥१६॥

पृथक्‌ स्नेहसमं दद्यात्पञ्चप्रभृति तु द्रवम्‌।

नाङ्गुलिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता॥१७॥

वर्णादिसम्पच्च यदा तदैनं शीघ्रमाहरेत्‌।

घृतस्य फेनोपशमस्तैलस्य तु तदुद्‌भवः॥१८॥

लेहस्य तन्तुमत्ताऽप्सु मज्जनं सरणं न च।

पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः॥१९॥

मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे।

कञ्चित्सीदति कृष्णे च वर्त्य(र्ति)माने च पश्चिमः॥२०॥

दग्धोऽत ऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत।

मृदुर्नस्ये, खरोऽभ्यङ्गे, पाने बस्तौ च चिक्कणः॥२१॥

शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम्‌।

द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम्‌॥२२॥

द्विगुणं योजयेदार्द्रं कुडवादि तथा द्रवम्‌।

पेषणालोडने वारि स्नेहपाके च निर्द्रवे॥२३॥

कल्पयेत्सदृशान्‌ भागान्‌ प्रमाणं यत्र नोदितम्‌।

कल्कीकुर्याच्च भैषज्यमनिरूपितकल्पनम्‌॥२४॥

अङ्गानुक्तौ तु मूलं स्यादप्रसिद्धौ तदेव तु।

(षड्‌वंश्यस्तु मरीची स्यात्‌, षण्मरीच्यस्तु सर्पषः)

तण्डुलः सर्षषास्त्वष्टौ, धान्यमाषस्तु तौ, यवः॥१॥

तावण्डिका चतुर्भिस्तैर्माषकः शाणकस्तथा।)

द्वौ शाणौ वटकः कोलं बदरं द्रंक्षणश्च, तौ॥२५॥

अक्षं पिचुः पाणितलं सुवर्णं कवलग्रहः।

कर्षो बिडालपदकं तिन्दुकः पाणिमानिका॥२६॥

शब्दान्यत्वमभिन्नेऽर्थे शुक्तिरष्टमिका पिचू।

पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका॥२७॥

द्वे पले प्रसृतस्तौ द्वावञ्जलिस्तौ तु मानिका।

आढकं भाजनं कंसो, द्रोणः कुम्भो घटोऽर्मणम्‌॥२८॥

तुला पलशतं, तानि विंशतिर्भार उच्यते।

हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा॥२९॥

सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम्‌॥२९.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने द्रव्यकल्पो नाम  षष्ठोऽध्यायः॥६॥

Last updated on August 27th, 2021 at 11:29 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English