सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
षड्विंशतितमोऽध्यायः ।
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कल्यस्योदग्रवयसो वाजीकरणसेविनः |
सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः ||३||
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम् |
योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम् ||४||
विलासिनामर्थवतां रूपयौवनशालिनाम् |
नृणां च बहुभार्याणां योगा वाजीकरा हिताः ||५||
सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान् |
नारीस्तर्पयते तेन वाजीकरणमुच्यते ||६||
भोजनानि विचित्राणि पानानि विविधानि च |
वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ||७||
यामिनी सेन्दुतिलका कामिनी नवयौवना |
गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ||८||
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च |
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् |
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ||९||
द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् |
कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ||१०||
सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम् |
अतिव्यवायशीलो यो न च वाजीक्रियारतः ||११||
ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम् |
महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः ||१२||
क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम् |
जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम् ||१३||
बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः |
षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम् ||१४||
असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् |
साध्यानामितरेषां तु कार्यो हेतुविपर्ययः ||१५||
विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम् |
तिलमाषविदारीणां शालीनां चूर्णमेव वा ||१६||
पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम् |
वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत् ||१७||
तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम् |
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ||१८||
शिशुमारवसापक्वाः शष्कुल्यस्तिस्तैलैः कृताः |
यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् ||१९||
पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि |
साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् ||२०||
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा |
चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत् ||२१||
तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः |
नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम् ||२२||
विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम् |
सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति ||२३||
एवमामलकं चूर्णं स्वरसेनैव भावितम् |
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ||२४||
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति |
पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते ||२५||
शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम् |
कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् ||२६||
महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः |
अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः ||२७||
पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति |
विदारिमूलकल्कं तु शृतेन पयसा नरः ||२८||
उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते |
माषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा ||२९||
अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः |
क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह ||३०||
शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत् |
नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् ||३१||
पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत् |
यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम् ||३२||
स्वयङ्गुप्तेक्षुरकयोः फलचूर्णं सशर्करम् |
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ||३३||
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते |
शतावर्युच्चटाचूर्णं पेयमेवं बलार्थिना |
स्वयङ्गुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः ||३४||
गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य |
खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम् ||३५||
माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् |
पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ||३६||
गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम् |
यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु ||३७||
क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः |
वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् ||३८||
एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः |
सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया ||३९||
इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं नाम षड्विंशोऽध्यायः ||२६||
Last updated on July 8th, 2021 at 09:50 am