चरकसंहिता
चिकित्सास्थानम् ।
सप्तविंशोऽध्याय: ।
अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
श्रिया परमया ब्राह्मया परया च तप:श्रिया ।
अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम् ॥३॥
धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम् ।
अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ॥४॥
भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा ।
निर्द्दिष्टान्यामयानां हि सर्वेषामेव भेषजम् ॥५॥
दोषजोऽस्त्यामय: कश्चिद्यस्य तानि भिषग्वर! ।
न स्यु: शक्तानि शमने साध्यस्य क्रियया सत: ॥६॥
अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम् ।
सलिङ्गभेषजं भूय: पृष्टस्तेनाब्रवीद्गुरु: ॥७॥
स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नत: ।
द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषै: ॥८॥
पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरै: ।
लङ्घनाध्यशनायासभयवेगविधारणै: ॥९॥
स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह ।
रुद्ध्वाऽऽशु गौरवादूरू यात्यधोगै: सिरादिभि: ॥१०॥
पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कट: ।
अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम् ॥११॥
महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा ।
तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगत: कफ: ॥१२॥
गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनै: ।
भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् ॥१३॥
ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु ।
स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु स: ॥१४॥
प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वरा: ।
लोमहर्षश्च छर्दिश्च जङ्घोर्वो: सदनं तथा ॥१५॥
वाताशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुन: ।
पादयो: सदनं सुप्ति: कृच्छ्रादुद्धरणं तथा ॥१६॥
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना ।
पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥१७॥
संस्थाने पीडने गत्यां चालने चाप्यनीश्वर: ।
अन्यनेयौ हि संभग्नावूरू पादौ च मन्यते ॥१८॥
यदा दाहार्तितोदार्तो वेपन: पुरुषो भवेत् ।
ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम् ॥१९॥
तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम् ।
न चैव वमनं यस्मात्तन्निबोधत कारणम् ॥२०॥
वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च ।
तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम् ॥२१॥
कफं कफस्थानगतं पित्तं च वमनात् सुखम् ।
हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि ॥२२॥
पक्वाशयस्था: सर्वेऽपि बस्तिभिर्मूलनिर्जयात् ।
शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिता: ॥२३॥
वातस्थाने हि तच्छैत्याद्द्वयो: स्तम्भाच्च तद्गता: ।
न शक्या: सुखमुद्धर्तुं जलं निम्नादिव स्थलात् ॥२४॥
तस्य संशमनं नित्यं क्षपणं शोषणं तथा ।
युक्त्यपेक्षी भिषक् कुर्यादधिकत्वात्कफामयो: ॥२५॥
सदा रूक्षोपचाराय यवश्यामाककोद्रवान् ।
शाकैरलवणैर्दद्याज्जलतैलोपसाधितै: ॥२६॥
सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवै: ।
वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभि: ॥२७॥
क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च ।
मधूदकस्य पिप्पल्या ऊरूस्तम्भविनाशना: ॥२८॥
समङ्गां शाल्मलीं बिल्वं मधुना सह ना पिबेत् ।
तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि ॥२९॥
चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा ।
मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम् ॥३०॥
देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम् ।
पिप्पलीं पिप्पलीमूलं सरलं देवदारु च ॥३१॥
चव्यं चित्रकमूलानि देवदारु हरीतकीम् ।
भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत् ॥३२॥
सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान् ।
शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् ॥३३॥
मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा ।
पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणाऽऽप्लुतम् ॥३४॥
सक्षौद्रं दधिमण्डैर्वाऽप्यूरुस्तम्भविनाशनम् ।
मूर्वामतिविषां कुष्ठं चित्रकं कटुकरोहिणीम् ॥३५॥
पूर्ववुद्गुग्गुलुं मूत्रे रात्रिस्थितमथापि वा ।
स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम् ॥३६॥
सुराह्वं चित्रकं कुष्ठं पाठां कटुरोहिणीम् ।
लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम् ॥३७॥
फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम् ।
त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम् ॥३८॥
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नर: ।
अपतर्पणजश्चेत् स्याद्दोष: संतर्पयेद्धि तम् ॥३९॥
युक्त्या जाङ्गलजैर्मांसै: पुराणैश्चैव शालिभि: ।
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वक: ॥४०॥
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापह: ।
पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा ॥४१॥
सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत् ।
सक्षौद्रं प्रसृतं तस्मादञ्जलिं वाऽपि ना पिबेत् ॥४२॥
कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम् ।
अजगन्धाऽश्वगन्धा च तैलं तै: सार्षपं पचेत् ॥४३॥
सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दित: पिबेत् ।
(रौक्ष्यान्मुक्त ऊरुस्तम्भात्ततश्च स विमुच्यते ॥४४॥)
द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् ।
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके ॥४५॥
आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम् ।
गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत् ॥४६॥
पलाभ्यां पिप्पलीमूलनागरादष्टकट्वर: ।
तैलप्रस्थ: समो दध्ना गृध्रस्यूरुग्रहापह: ॥४७॥
इत्यष्टकट्वरतैलम् ।
इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् ।
श्लेष्मणा: क्षपणं त्वन्यद्बाह्यं शृणु चिकित्सितम् ॥४८॥
वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम् ।
इष्टकानां ततश्चूर्णै: कुर्यादुत्सादनं भृशम् ॥ ४९॥
मूलैर्वाऽप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् ।
पिचुमर्दस्य वा मूलैरथवा देवदारुण: ॥५०॥
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् ।
गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम् ॥५१॥
दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान् ।
तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजै: ॥५२॥
पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम् ।
पिष्टं तु सर्षपं मूत्रेऽध्युषितं स्यात् प्रलेपनम् ॥५३॥
वत्सक: सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ ।
हिंस्रार्कमूलवल्मीकमृत्तिका: सकुठेरका: ॥५४॥
दधिसैन्धवसंयुक्तं कार्यमेतै: प्रलेपनम् ।
(ऊरुस्तम्भविनाशाय भिषजा जानता क्रमम् ॥५५॥)
श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ ।
शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान् ॥५६॥
अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत् ।
प्रलेपो मूत्रपिष्टैर्वाऽप्यूरुस्तम्भनिवारण: ॥५७॥
कफक्षयार्थं शक्येषु व्यायामेष्वनुयोजयेत् ।
स्थलान्याक्रामयेत् कल्यं शर्करा: सिकतास्तथा ॥५८॥
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम् ।
सरश्च विमलं शीतं स्थिरतोयं पुन: पुन: ॥५९॥
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् ।
श्लेष्मण: क्षपणं यत् स्यान्न च मारुतमावहेत् ॥६०॥
तत् सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् ।
शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया ॥६१॥
तत्र श्लोका:–
हेतु: प्राग्रूपलिङ्गानि कर्मायोग्यत्वकारणम् ।
द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते ॥६२॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम
सप्तविंशोऽध्याय: ॥२७॥
Last updated on June 30th, 2021 at 11:50 am