सुश्रुतसंहिता ।
अथ शारीरस्थानं
षष्ठोऽध्यायः ।
अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
सप्तोत्तरं मर्मशतम् |
तानि मर्माणि पञ्चात्मकानि भवन्ति; तद्यथा- मांसमर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि, सन्धिमर्माणि चेति |
न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति, यस्मान्नोपलभ्यन्ते ||३||
तत्रैकादश मांसमर्माणि, एकचत्वारिंशत् सिरामर्माणि, सप्तविंशतिः स्नायुमर्माणि, अष्टावस्थिमर्माणि, विंशतिः सन्धिमर्माणि चेति |
तदेतत् सप्तोत्तरं मर्मशतम् ||४||
तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ||५||
तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्रबस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं चेति, एतेनेतरत्सक्थि व्याख्यातम् |
उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति |
पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति |
बाहुमर्माणि तु शिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रबस्तिकूर्पराण्युर्वीलोहिताक्षाणि कक्षधरं चेति; एतेनेतरो बाहुर्व्याख्यातः |
जत्रुण ऊर्ध्वं चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वे फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ||६||
तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिरामर्माणि, आणी(णि)विटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि, कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्माणि, जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि ||७||
तान्येतानि पञ्चविकल्पानि भवन्ति; तद्यथा- सद्यःप्राणहराणि, कालान्तरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणि चेति |
तत्र सद्यःप्राणहराण्येकोनविंशतिः, कालान्तरप्राणहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिंशद्वैकल्यकराणि, अष्टौ रुजाकराणीति ||८||
भवन्ति चात्र-
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम् |
हृदयं बस्तिनाभ्यौ(भी) च घ्नन्ति सद्यो हतानि तु ||९||
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रबस्तयः |
कटीकतरुणे सन्धी पार्श्वजौ बृहती च या ||१०||
नितम्बाविति चैतानि कालान्तरहराणि तु |
उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ||११||
लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः |
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ||१२||
अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा |
वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च ||१३||
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च |
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् |
क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च ||१४||
मर्माणि मांससिरास्नाय्वस्थिसन्धिसन्निपाताः; तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति; तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते ||१५||
तत्र सद्यःप्राणहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति; कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति; विशल्यप्राणहराणि वायव्यानि, शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति, उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते (पाकात्पतितशल्यो वा जीवति); वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति; रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेषतश्च तौ रुजाकरौ; पाञ्चभौतिकीं च रुजामाहुरेके ||१६||
केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां समवायात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा कालान्तरप्राणहराणि, द्विहीनानां विशल्यप्राणहराणि, त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति |
नैवं, यतोऽस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति ||१७||
चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः |
स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतियापयन्ति ||१८||
ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति |
विवर्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये ||१९||
रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य सञ्ज्ञा |
अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् ||२०||
एतेन शेषं व्याख्यातम् ||२१||
एतेनेति रुगादिरूपेण वायोर्लक्षणेन, शेषमिति दाहादि स्रोतोनिरोधादि च पित्तश्लेष्मणोर्लक्षणं व्याख्यातमेवेत्यर्थः||२१||
तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति, विशल्यघ्नं वैकल्यकरं च भवति, वैकल्यकरं कालान्तरेण क्लेशयति रुजां च करोति, रुजाकरमतीव्रवेदनं भवति ||२२||
तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति, कालान्तरप्राणहराणि पक्षान्मासाद्वा, तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति, विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति ||२३||
अत ऊर्ध्वं सक्थिमर्माणि व्याख्यास्यामः- तत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणं; मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलहृदयं नाम, तत्र रुजाभिर्मरणं; क्षिप्रस्योपरिष्टादुभयतः कूर्चो नाम, तत्र पादस्य भ्रमणवेपने भवतः; गुल्फसन्धेरध उभयतः कूर्चशिरः, तत्र रुजाशोफौ; पादजङ्घयोः सन्धाने गुल्फः, तत्र रुजः स्तब्धपादता खञ्जता वा; पार्ष्णिं प्रति जङ्घामध्ये इन्द्रबस्तिः, तत्र शोणितक्षयेण मरणं; जङ्घोर्वोः सन्धाने जानु, तत्र खञ्जता; जानुन ऊर्ध्वमुभयतस्त्र्यङ्गुलमाणी, तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च; ऊरुमध्ये उर्वी, तत्र शोणितक्षयात् सक्थिशोषः; उर्व्या ऊर्ध्वमधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षं, तत्र लोहितक्षयेण मरणं पक्षाघातो वा; वङ्क्षणवृषणयोरन्तरे विटपं, तत्र षाण्ढ्यमल्पशुक्रता वा भवति; एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि |
एतेनेतरसक्थि बाहू च व्याख्यातौ |
विशेषतस्तु यानि सक्थ्नि गुल्फजानुविटपानि, तानि बाहौ मणिबन्धकूर्परकक्षधराणि; यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धे त एवोपद्रवाः; विशेषतस्तु मणिबन्धे कुण्ठता, कूर्पराख्ये कुणिः, कक्षधरे पक्षाघातः |
एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि ||२४||
अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यास्यामः – तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणं; अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिः, तत्रापि सद्योमरणमश्मरीव्रणादृते, तत्राप्युभयतो भिन्ने न जीवति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति, स तु यत्नेनोपक्रान्तो रोहति; पक्वामाशययोर्मध्ये सिराप्रभवा नाभिः, तत्रापि सद्यो मरणं; स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले, तत्र कफपूर्णकोष्ठतया (कासश्वासाभ्यां) म्रियते; स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलमुभयतः स्तनरोहितौ, तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते; अंसकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणं; उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम्; एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि ||२५||
अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामः – तत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे, तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियते; पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो कुकुन्दरे, तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च; श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ, तत्राधःकायशोषो दौर्बल्याच्च मरणं; अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी, तत्र लोहितपूर्णकोष्ठतया म्रियते; स्तनमूलादृजूभयतः पृष्ठवंशस्य बृहती, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते; पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके, तत्र बाह्वोः स्वापशोषौ; बाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धबन्धनावंसौ, तत्र स्तब्धबाहुता; एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि ||२६||
अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः- तत्र कण्ठनाडीमुभयतश्चतस्रो धमन्यो द्वे नीले द्वे च मन्ये व्यत्यासेन, तत्र मूकता स्वरवैकृतमरसग्राहिता च; ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः, तत्र सद्योमरणं; शिरोग्रीवयोः सन्धाने कृकाटिके, तत्र चलमूर्धता; कर्णपृष्ठतोऽधःसंश्रिते विधुरे, तत्र बाधिर्यं; घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे, तत्र गन्धाज्ञानं; भ्रूपुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ, तत्रान्ध्यं दृष्टयुपघातो वा; भ्रुवोरुपरि निम्नयोरावर्तौ नाम, तत्राप्यान्ध्यं दृष्टयुपघातो वा; भ्रुवोरन्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ, तत्र सद्योमरणं; शङ्खयोरुपरि केशान्त उत्क्षेपौ, तत्र सशल्यो जीवेत् पाकात् पतितशल्यो वा नोद्धृतशल्यः; भ्रुवोर्मध्ये स्थपनी, तत्रोत्क्षेपवत्; पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तनाशैर्मरणं; घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि, तानि चत्वारि मर्माणि, तत्रापि सद्योमरणं; मस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः, तत्रापि सद्य एव |
एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि ||२७||
भवन्ति चात्र श्लोकाः-
उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे
एकैकमङ्गुलमितं स्तनपूर्वमूलम् |
विद्ध्यङ्गुलद्वयमितं मणिबन्धगुल्फं
त्रीण्येव जानु सपरं सह कूर्पराभ्याम् ||२८||
हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि
चत्वारि पञ्च च गले दश यानि च द्वे |
तानि स्वपाणितलकुञ्चितसम्मितानि
शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् ||२९||
एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम् |
पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ||३०||
छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति |
प्राप्यामितव्यसनमुग्रमतो मनुष्याः सञ्च्छिन्नशाखतरुवन्निधनं न यान्ति ||३१||
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति |
एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधनिपातनिकृत्तमूलाः ||३२||
तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे |
मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ||३३||
जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि |
सम्भिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः ||३४||
छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मसु कृता विविधाः प्रहाराः |
सोममारुततेजांसि रजःसत्त्वतमांसि च |
मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ||३५||
मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः |
इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्ययः ||३६||
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते |
हते कालान्तरघ्ने तु ध्रुवं धातुक्षयो नृणाम् ||३७||
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति |
हते वैकल्यजनने केवलं वैद्यनैपुणात् ||३८||
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् |
विशल्यघ्ने तु विज्ञेयं पूर्वोक्तं यच्च कारणम् ||३९||
रुजाकराणि मर्माणि क्षतानि विविधा रुजः |
कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ||४०||
छेदभेदाभिघातेभ्यो दहनाद्दारणादपि |
उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् ||४१||
मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा |
प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ||४२||
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् |
प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ||४३||
इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः ||६||
Last updated on June 8th, 2021 at 05:43 am