चरकसंहिता
सिद्धिस्थानम् ।
षष्ठोऽध्याय: ।
अथाऽतो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्याम: ।
इति ह स्माह भगवानात्रेय: ॥२॥
अथ शोधनयो: सम्यग्विधिमूर्ध्वानुलोमयो: ।
असम्यक्कृतयोश्चैव दोषान् वक्ष्यामि सौषधान् ॥३॥
अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमा: ।
तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रय: ॥४॥
प्रावृट् शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुन: ।
तपस्यश्च मधुश्चैव वसन्त: शोधनं प्रति ॥५॥
एतानृतून् विकल्प्यैवं दद्यात् संशोधनं भिषक् ।
स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु ॥६॥
कर्मणां वमनादीनामन्तरेष्वन्तरेषु च ।
स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत् ॥७॥
विसर्पपिडकाशोफकामलापाण्डुरोगिण:।
अभिघातविषार्तांश्च नातिस्निग्धान् विरेचयेत् ॥८॥
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम् ।
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम् ॥९॥
स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम् ।
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते ॥१०॥
स्निग्धात् पात्राद्यथा तोयमयत्नेन प्रणुद्यते ।
कफादय: प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधै: ॥११॥
आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वत: ।
तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान् ॥१२॥
क्लिष्टं वासो यथोत्क्लेश्य मल: संशोध्यतेऽम्भसा ।
स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते शोधनैर्मल: ॥१३॥
अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते ।
पीतं संशोधनं चैव विपरीतं प्रवर्तते ॥१४॥
अल्पमात्रं महावेगं बहुदोषहरं सुखम् ।
लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम् ॥१५॥
अविकारि च व्यापत्तौ नातिग्लानिकरं च यत् ।
गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम् ॥१६॥
विधूय मानसान् दोषान् कामादीनशुभोदयान् ।
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते ॥१७॥
नर: श्वो वमनं पाता भुञ्जीत कफवर्धनम् ।
सुजरं द्रवभूयिष्ठं, लघ्वशीतं विरेचनम् ॥१८॥
उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषा: स्रवन्ति हि ।
पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत् ॥१९॥
ऊर्ध्वं कफानुगे पित्ते विट्पित्तेऽनुकफे त्वध: ।
हृतदोषं वदेत् कार्श्यदौर्बल्ये चेत् सलाघवे ॥२०॥
वामयेत्तु तत: शेषमौषधं न त्वलाघवे ।
स्तैमित्येऽनिलसङ्गे च निरुद्गारेऽपि वामयेत् ॥२१॥
आलाघवात्तनुत्वाच्च कफस्यापत् परं भवेत् ।
वमिते वर्धते वह्नि: शमं दोषा व्रजन्ति हि ॥२२॥
वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यलक्षयन् ।
तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम् ॥२३॥
संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिन: ।
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत् ॥२४॥
कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके ।
तर्पणादिक्रमं कुर्यात् पेयाऽभिष्यन्दयेद्धि तान् ॥२५॥
अनुलोमोऽनिल: स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता ।
लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृति: ॥२६॥
क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा ।
अरतिर्बलहानिश्च सावशेषौषधाकृति: ॥२७॥
अकालेऽल्पातिमात्रं च पुराणं न च भावितम् ।
असम्यक्संस्कृतं चैव व्यापद्येतौषधं द्रुतम् ॥२८॥
आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रह: ।
जीवादानं सविभ्रंश: स्तम्भ: सोपद्रव: क्लम: ॥२९॥
अयोगादतियोगाच्च दशैता व्यापदो मता: ।
प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य च ॥३०॥
योग: सम्यक्प्रवृत्ति: स्यादतियोगोऽतिवर्तनम् ।
अयोग: प्रातिलोम्येन न चाल्पं वा प्रवर्तनम् ॥३१॥
श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु ।
विरेचनमजीर्णे च पीतमूर्ध्वं प्रवर्तते ॥३२॥
क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा ।
तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम् ॥३३॥
प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नश: ।
अयोगसंज्ञे, कृच्छ्रेण याति दोषो नवाऽल्पश: ॥३४॥
पीतौषधो न शुद्धश्चेज्जीर्णे तस्मिन् पुन: पिबेत् ।
औषधं न त्वजीर्णेऽन्यद्भयं स्यादतियोगत: ॥३५॥
कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च ।
अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा ॥३६॥
वमनं न तु दुश्छर्दं दुष्कोष्ठं न विरेचनम् ।
पाययेतौषधं भूयो हन्यात् पीतं पुनर्हि तौ ॥३७॥
अस्निग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम् ।
दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गादान् ॥३८॥
विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं भृशम् ।
पिण्डिकोद्वेष्टनं कण्डूमूर्वो: सादं विवर्णताम् ॥३९॥
स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम् ।
शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत् ॥४०॥
तानेव जनयेद्रोगानयोग: सर्व एव स: ।
विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम् ॥४१॥
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करै: ।
पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत् ॥४२॥
निरूढं च रसैर्धान्वैर्भोजयित्वाऽनुवासयेत् ।
फलमागधिकादारुसिद्धतैलेन मात्रया ॥४३॥
स्निग्धं वातहरै: स्नेहै: पुनस्तीक्ष्णेन शोधयेत् ।
न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते ॥४४॥
अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम् ।
हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान् ॥४५॥
बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं तृषाम् ।
कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत् ॥४६॥
वमने तु विरेक: स्याद्विरेके वमनं पुन: ।
परिषेकावगाहाद्यै: सुशीतै: स्तम्भयेच्च तत् ॥४७॥
कषायमधुरै: शीतैरन्नपानौषधैस्तथा ।
रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि ॥४८॥
अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम् ।
लाजचूर्णै: पिबेन्मन्थमतियोगहरं परम् ॥४९॥
शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम् ।
वर्च:सांग्राहिकै: सिद्धं क्षीरं भोज्यं च दापयेत् ॥५०॥
जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते ।
मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा ॥५१॥
वमनस्यातियोगे तु शीताम्बुपरिषेचित: ।
पिबेत् कफहरैर्मन्थं सघृतक्षौद्रशर्करम् ॥५२॥
सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयो: ।
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ॥५३॥
वमतोऽन्त:प्रविष्टायां जिह्वायां कवलग्रहा: ।
स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिता: ॥५४॥
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नरा: ।
नि:सृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत् ॥५५॥
वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम् ।
यवागूं तनुकां दद्यात् स्नेहस्वेदौ च बुद्धिमान् ॥५६॥
वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घित: ।
अग्निप्नाणविवृद्ध्यर्थं क्रमं पेयादिकं भजेत् ॥५७॥
बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम् ।
सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य च ॥५८॥
भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम् ।
श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम् ॥५९॥
अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम् ।
उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते ॥६०॥
स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम् ।
क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा ॥६१॥
पीतं गत्वा गुदं साममाशु दोषं निरस्य च ।
तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम् ॥६२॥
लङ्घनं पाचनं सामे रूक्षोष्णं लघुभोजनम् ।
बृंहणीयो विधि: सर्व: क्षामस्य मधुरस्तथा ॥६३॥
आमे जीर्णेऽनुबन्धश्चेत् क्षाराम्लं लघु शस्यते ।
पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा ॥६४॥
सदाडिमरसं सर्पि: पिबेद्वातेऽधिके सति ।
दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा ॥६५॥
देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत् ।
अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पय: ॥६६॥
कषायमधुरं शीतं पिच्छाबस्तिमथापि वा ।
यष्टीमधुकसिद्धं वा स्नेहबस्तिं प्रदापयेत् ॥६७॥
अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम् ।
अल्पाल्पं स्रावयेत् कण्डूं शोफं कुष्ठानि गौरवम् ॥६८॥
कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुता: ।
परिस्राव: स, तं दोषं शमयेद्वामयेदपि ॥६९॥
स्नेहितं वा पुनस्तीक्ष्णं पाययेत विरेचनम् ।
शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रदापयेत् ॥७०॥
पीतौषधस्य वेगानां निग्रहान्मारुतादय: ।
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम् ॥७१॥
स हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमै: ।
जिह्वां खादति नि:संज्ञो दन्तान् किटिकिटापयन् ॥७२॥
न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक् ।
मधुरै: पित्तमूर्च्छार्तं कटुभि: कफमूर्च्छितम् ॥७३॥
पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत् ।
कायागिंन् च बलं चास्य क्रमेणोत्थापयेत्तत: ॥७४॥
पवनेनातिवमतो हृदयं यस्य पीड्यते ।
तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफेऽन्यथा ॥७५॥
पीतौषधस्य वेगानां निग्रहेण कफेन वा ।
रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुत: ॥७६॥
स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनै: ।
तत्र वातहरं सर्वं स्नेहस्वेदादि कारयेत् ॥७७॥
अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम् ।
दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम् ॥७८॥
तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा ।
भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत् ॥७९॥
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा ।
प्रक्षालितं विवर्णं स्यात् पित्ते शुद्धं तु शोणिते ॥८०॥
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम् ।
तस्य पित्तहरीं सर्वामतियोगे च या हिता ॥८१॥
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक् ।
पिबेज्जीवाभिसन्धानं जीवं तद्धयाशु गच्छति ॥८२॥
तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत् ।
श्यामाकाश्मर्यबदरीदूर्वोशीरै: शृतं पय: ॥८३॥
घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत् ।
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम् ॥८४॥
गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत् ।
साम गान्धर्वशब्दांश्च संज्ञानाशेऽस्य कारयेत् ॥८५।
यदा विरेचनं पीतं विडन्तमवतिष्ठते ।
वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत् ॥८५॥
तदा कुर्वन्ति कण्ड्वादीन् दोषा: प्रकुपिता गदान् ।
स विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम् ॥८७॥
पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्घृतम् ।
न वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च्युतान् ॥८८॥
वातसङ्गगुदस्तम्भशूलै: क्षरति चाल्पश: ।
तीक्ष्णं बस्तिं विरेकं वा सोऽर्हो लङ्घितपाचित: ॥८९॥
रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा ।
मारुतं कोपयित्वाऽऽशु कुर्याद्घोरानुपद्रवान् ॥९०॥
स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यत: ।
स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधि: ॥९१॥
स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम् ।
पित्तं वातं च संरुध्य सतन्द्रागौरवं क्लमम् ॥९२॥
दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत् ।
लङ्घनं पाचनं चात्र स्निग्धं तीक्ष्णं च शोधनम् ॥९३॥
तत्र श्र्लोकौ–
इत्येता व्यापद: प्रोक्ता: सरूपा: सचिकित्सिता: ।
वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम् ॥९४॥
एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वत: ।
दद्यात् संशोधनं सम्यगारोग्यार्थी नृणां सदा ॥९५॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिर्नाम
षष्ठोऽध्याय:॥६॥
Last updated on July 5th, 2021 at 11:36 am