Skip to content

04. S`hvaasa Hidhmaa Nidaana – Nidaana – AH”

 अष्टाङ्गहृदयस्य(निदानस्थानम्‌)श्वासहिध्मानिदानं

चतुर्थोऽध्यायः।

अथातः श्वासहिध्मानिदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः।

आमातिसारवमथुविषपाण्डुज्वरैरपि॥१॥

रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना।

क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः॥२॥

कफोपरुद्धगमनः पवनो विष्वगास्थितः।

प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन्‌॥३॥

उरःस्थः कुरुते श्वासमामाशयसमुद्भवम्‌।

प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता॥४॥

आनाहः शङ्खभेदश्च तत्रायासातिभोजनैः।

प्रेरितः प्रेरयेत्‌ क्षुद्रं स्वयं संशमनं मरुत्‌॥५॥

प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम्‌।

परिगृह्य शिरोग्रीवमुरः पार्श्वे च पीडयन्‌॥६॥

कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम्‌।

करोति तीव्रवेगं च श्वासं प्राणोपतापिनम्‌॥७॥

प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी।

कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमृच्छति॥८॥

उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्‌।

विशुष्कास्यो मुहुःश्वासी काङ्‌क्षत्युष्णं सवेपथुः॥९॥

मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते।

स याप्यस्तमकः, साध्यो नवो वा बलिनो भवेत्‌॥१०॥

ज्वरमूर्च्छायुतः शीतैः शाम्येत्प्रतमकस्तु सः।

छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः॥११॥

सस्वेदमूर्च्छः सानाहो बस्तिदाहनिरोधवान्‌।

अधोदृग्विप्लुताक्षश्च मुह्यन्‌ रक्तैकलोचनः॥१२॥

शुष्कास्यः प्रलपन्‌ दीनो नष्टच्छायो विचेतनः।

महता महता दीनो नादेन श्वसिति क्रथन्‌॥१३॥

उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्‌।

प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः॥१४॥

वक्षः समाक्षिपन्‌ बद्धमूत्रवर्चा विशीर्णवाक्‌।

शुष्ककण्ठो मुहुर्मुह्यन्‌ कर्णशङ्खशिरोतिरुक्‌॥१५॥

दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः।

श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः॥१६॥

ऊर्ध्वदृग्वीक्षते भ्रान्तमक्षिणी परितः क्षिपन्‌।

मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक्‌॥१७॥

एते सिद्ध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम्‌।

इति श्वासनिदानम्‌।

अथ हिध्मानिदानम्‌।

श्वासैकहेतुप्राग्रूपसङ्ख्याप्रकृतिसंश्रयाः॥१८॥

हिध्माः भक्तोद्भवा क्षुद्रा यमला महतीति च।

गम्भीरा च मरुत्तत्र त्वरयाऽयुक्तिसेवितैः॥१९॥

रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः।

करोति हिध्मामरुजां मन्दशब्दां क्षवानुगाम्‌॥२०॥

शमं सात्म्यान्नपानेन या प्रयाति च साऽन्नजा।

आयासात्पवनः क्षुद्रः क्षुद्रां हिध्मां प्रवर्तयेत्‌॥२१॥

जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा।

वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम्‌॥२२॥

चिरेण यमलैर्वेगैराहारे या प्रवर्तते।

परिणामोन्मुखे वृद्धिं परिणामे च गच्छति॥२३॥

कम्पयन्ती शिरोग्रीवमाध्मातस्यातितृष्यतः।

प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः॥२४॥

यमला वेगिनी हिध्मा परिणामवती च सा।

स्तब्धभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः॥२५॥

स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती।

रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम्‌॥२६॥

पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते।

महामूला महाशब्दा महावेगा महाबला॥२७॥

पक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते।

तद्रूपा सा मुहुः कुर्याज्जृम्भामङ्गप्रसारणम्‌॥२८॥

गम्भीरेणानुनादेन गम्भीरा तासु साधयेत्‌।

आद्ये द्वे, वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम्‌॥२९॥

सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः।

व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा॥३०॥

इति हिध्मानिदानम्‌।

सर्वोऽपि रोगा नाशाय न त्वेवं शीघ्रकारिणः।

हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ॥३१॥

इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने श्वासहिध्मानिदानं नाम चतुर्थोऽध्यायः॥४॥

Last updated on August 13th, 2021 at 10:05 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English