Skip to content

12. Uttarabasti Siddhi – Siddhi – C

चरकसंहिता।

सिद्धिस्थानम्‌।

द्वादशोध्यायः।

अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः॥१॥

इति ह स्माह भगवानात्रेयः।

अथ खल्वातुरं वैद्यः संशुद्धं वमनादिभिः।

दुर्बलं कृशमल्पाग्निं मुक्तसंधानबन्धनम्‌॥३॥

निर्हृतानिलविण्मूत्रकफपित्तं कृशाशयम्‌।

शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत्‌॥४॥

यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथैव च।

गोपाल इव दण्डी गाः सर्वस्मादपचारतः॥५॥

अग्निसधुक्षणार्थं तु पूर्वं पेयादिना भिषक्‌।

रसोत्तरेणोपचरेत्‌ क्रमेण क्रमकोविदः॥६॥

स्निग्धाम्लस्वादुहृद्यानि ततोऽम्ललवणौ रसौ।

स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः॥७॥

अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः।

व्यत्यासादुपयोगेन प्रकृतिं गमयेद्भिषक्‌॥८॥

सर्वक्षमो ह्यसंसर्गो रतियुक्तः स्थिरेन्द्रियः।

बलवान्‌ सत्त्वसंपन्नो विज्ञेयःप्रकृतिं गतः॥९॥

एतां प्रकृतिमप्राप्तः सर्ववर्ज्यानि वर्जयेत्‌।

महादोषकराण्यष्टाविमानि तु विशेषतः॥१०॥

उच्चैर्भाष्यं रथक्षोभमविचङ्‌क्रमणासने।

अजीर्णाहितभोज्ये च दिवास्वप्नं समैथुनम्‌॥११॥

तज्जा देहोर्ध्वसर्वाधोमध्यपीडामदोषजाः।

श्लेष्मजाः क्षयजाश्चैव व्याधयः स्युर्यथाक्रमम्‌॥१२॥

तेषां विस्तरतो लिङ्गमेकैकस्य च भेषजम्‌।

यथावत्संप्रवक्ष्यामि सिद्धान्‌ बस्तीश्चं यापनान्‌॥१३॥

तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठ- शोषितैमिर्यपिपासाज्वरतमकहनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वसूलस्वरभेदहिक्काश्वासादयः स्युः (१),

रथक्षोभात्‌ संधिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोधस्फिक्पार्श्ववंक्षणवृषण- कटीपृष्ठवेदनासंधिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः (२),

अतिचङ्‌क्रमणात्‌ पादजङ्घोरुजानुवङ्‌क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोदपिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः (३),

अत्यासनाद्रथक्षोभजाः स्फिक्पार्श्ववङ्‌क्षणवृषणकटीपृष्ठवेदनादयः (४),

अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः (५),

विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रावसादवातादिप्रकोपजाश्च ग्रहण्यर्शोविकारादयः (६),

दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्राप्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः (७),

व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवंक्षणोरुजानुजङ्घापादशूलहृदयस्पन्दननेत्रपीडाङ्गशैथिल्यशुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसादकटीदौर्बल्यैकाङ्ग-सर्वाङ्ग-रोगमुष्कश्वयथुवातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयः स्युः, अवलुप्यत इव गुदः, ताड्यत इव मेढ्रम्‌, अवसादतीव मनो, वेपते हृदयं, पीड्यते सन्धयः, तमः प्रवेश्यत इव च (८),

इत्येवमेभिरष्टभिरपचारैरेते प्रादुर्भवन्त्युपद्रवाः॥१४॥

तेषां सिद्धिः- तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाहधूमनस्योपरिभक्तस्नेहपानरसक्षीरादिर्वातहरःसर्वो विधिर्मौनं च (१),

रथक्षोभातिचङ्‌क्रमणात्यासनजानां स्नेहस्वेदादि वातहरं कर्म सर्वं निदान वर्जनं च (२),

अजीर्णाध्यशनजानां निरवशेषतश्छर्दनं रूक्षः स्वेदो लङ्घनीयपाचनीयदीपनीयौषधावचारणं च (३),

विषमाहिताशनजानां यथास्वं दोषहराः क्रियाः (४),

दिवास्वपप्ननां धूमपानलङ्घनवमनशिरोविरेचनव्यायामरूक्षाशनारिष्टदीपनीयौषधोपयोगः प्रघर्षणोन्मर्दनपरिषेचनादिश्च श्लेष्महरः सर्वो विधिः (५),

मैथुनजानांजीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगः, तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनाबस्तयोऽनुवासनं च, मूत्रवैकृतबस्तिशूलेषु चोत्तरबस्तिर्विदारीगन्धादिगणजीवनीयक्षीरसंसिद्धं तैलं स्यात्‌॥१५॥

यापनाश्च बस्तयः सर्वकालं देयाः, तानुपदेक्ष्यामः— मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूचीस्थिरादि-पञ्चमूलानि पलिकानि खण्डशः क्लृप्तान्यष्टौ च मदनफलानि प्रक्षाल्य जलाढके परिक्वाथ्य पादशेषो रसः क्षीरद्विप्रस्थ संयुक्तः पुनः शृतः क्षीरावशेषः पादजाङ्गलरसस्तुल्यमधुघृतः शतकुसुमामधुककुटजफलरसाञ्जन प्रियङ्गुकल्कीकृतः ससैन्धवः सुखोष्णो बस्तिः शुक्रमांसबलजननः क्षतक्षीणकासगुल्मशुलविषमज्वरब्रध्न(वर्ध्म)कुण्डलो दावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा-जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायनश्चेति (१),

एरण्डमूलपलाशात्‌ षट्‌पलं शालिपर्णीपृश्निपर्णी बृहती कण्टकारिका गोक्षुरको रास्नाऽश्वगन्धा गुडूची वर्षाभूरारग्वधो देव दार्विति पलिकानि खण्डशः क्लृप्तानि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत्‌। पादशेषं कषायं पूतं शतकुसुमा कुष्ठमुस्तपिप्पलीहपुषाबिल्ववचा-वत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं निरूहमेकं द्वौ त्रीन्‌ वा दद्यात्‌।सर्वेषां प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च (२),

तद्वत्‌ सहचरबलादर्भमूलसारिवासिद्धेन पयसा (३),

तथा बृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेन पयसा मधुकमदनपिप्पलीकल्कितेन पूर्ववद्बस्तिः (४),

तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरुषककाश्मर्यबिल्वफलयवसिद्धेन पयसा मधुकमदनकल्कितेन मधुघृतसौवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च (५),

बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानां च जलद्रोणसिद्धं निरूहप्रमाणावशेषं कषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानी- कल्कीकृतं गुडघृततैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं बस्तिं दद्याच्छुक्रमूत्रवर्चःसङ्गेऽनिलजे गुल्महृद्रोगाध्मानब्रध्न- पार्श्वकटीग्रहसंज्ञानाशबलक्षयेषु च (६),

हपुषार्धकुडवो द्विगुणार्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृततैललवणयुक्तः सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितो वातहरोबुद्धिमेधाग्निबलजननश्च (७),

ह्रस्वपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमधुकमदनकल्कीकृतः सगुडघृततैललवणः क्षीणविषमज्वरकर्शितस्यबस्तिः (८),

बलातिबलापामार्गत्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः सगुडघृततैललवणयुक्तः पूर्ववद्बस्तिः स्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः (९),

बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजेन पयसा पक्त्वा मधुकमदनकल्कितं समधुघृतसैन्धवं ज्वरार्तेभ्यो बस्तिं दद्यात्‌ (१०),

शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरुषकखर्जूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सिद्धःकषायः पिप्पलीमधुकात्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियः विषमज्वरकर्शितस्य बस्तिः शस्तः (११),

स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन छागं पयःशृतं पादशेषं कुक्कुटाण्डरससममधुघृत शर्करासैन्धवसौवर्चलयुक्तो बस्तिर्वृष्यतमो बलवर्णजननश्च। इति यापना बस्तयो द्वादश॥१६॥

कल्पश्चैष शिखिगोनर्दहंससारसाण्डरसेषु स्यात्‌॥१७॥

सतित्तिरिः समयूरः सराजहंसः पञ्चमूलीपयः सिद्धः शतपुष्पामधुकरास्नाकुटजमदनफलपिप्पलीकल्को घृततैलगुडसैन्धवयुक्तो बस्तिर्बलवर्णशुक्रजननो रसायनश्च (१),

द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलीमधुकरास्नामदनकल्कं शर्करामधुघृतयुक्तं स्त्रीष्वतिकामानां बलजननो बस्तिः (२),

मयूरमपित्तपक्षापादास्यान्त्रं स्थिरादिभिः पलिकैः सजले पयसि पक्त्वा क्षीरशेषं मदनफलपिप्पलीविदारीशतकुसुमामधुककल्कीकृतं मधुघृतसैन्धवयुक्तं बस्तिं दद्यात्‌ स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरम्‌ (३),

कल्पैश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यात्‌, अक्षीरो रोहितादिषु च मत्स्येषु (४),

गोधानकुलमार्जारमूषिकशल्लकमांसानां दशपलान्‌ भागान्‌ सपञ्चमूलान्‌ पयसि पक्त्वा तत्पयः पिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधु -घृततैलयुक्तो बस्तिर्बल्यो रसायनः क्षीणक्षतस्य सन्धानकरो मथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुक्राणां हिततमश्च (५),

कूर्मादीनामन्यतमपिशितसिद्धंपयोगोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टो बस्तिर्वृद्धानामपि बलजननः (६),

कर्कटकरसश्चटकाण्डरसयुक्तःसमधुघृतशर्करोबस्तिः, इत्येतेबस्तयः परमवृष्याः उच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात्‌ स्त्रीशतगामिनं नरं कुर्युः (७),

गोवृषबस्तवराहवृषणकर्कटचटकसिद्धं क्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तः किंचिल्लवणितो बस्तिः (८),

दशमूलमयूरहंसकुक्कुटक्वाथात्‌ पञ्चप्रसृतं तैलघृतवसामज्जचतुष्प्रसृतयुक्तं शतपुष्पामुस्तहपुषाकल्कीकृतः सलवणो बस्तिः पादगुल्फोरुजानुजङ्घात्रिकवङ्‌क्षणबस्तिवृषणानिलरोगहरः (९),

मृगविष्किरानूपबिलेशयानामेतेनैव कल्पेन बस्तयो देयाः (१०),

मधुघृतद्विप्रसृतस्तुल्योष्णोदकः शतपुष्पार्धपलः सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तवातहरः (११),

सद्योघृततैलवसामज्जचतुष्प्रस्थं हपुषार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तव्याधिहरो रसायनः (१२),

मधुतैलं चतुःप्रसृतं शतपुष्पार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्दीपनो बृंहणो बलवर्णकरो निरुपद्रवो वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्त- गुल्मार्शोब्रध्नप्लीहमेहहरः (१३),

तद्वन्मधुघृताभ्यां पयस्तुल्यो बस्तिः पूर्वकल्केन बलवर्णकरो वृष्यतमो निरुपद्रवो बस्तिमेढ्रपाकपरिकर्तिकामुत्रकृच्छ्रपित्तव्याधिहरो रसायनश्च (१४),

तद्वन्मधुघृताभ्यां मांसरसतुल्यो मुस्ताक्षयुक्तः पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः (१५),

सुरासौवीरकुलत्थमांसरसमधुघृततैलसप्तप्रसृतो मुस्तशताह्वाकल्कितः सलवणो बस्तिः सर्ववातरोगहरः (१६),

द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायो गोमूत्रसिद्धः कुटजमदनफलमुस्तापाठाकल्कितः सैन्धवयावशूकक्षौद्रतैलयुक्तो बस्तिः श्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु देय इति॥१८॥

अत ऊर्ध्वंवृष्यतमान्‌ स्नेहान्‌ वक्ष्यामः।- शतावरीगुडूचीविदार्यामलकद्राक्षाखर्जूराणांयन्त्रपीडितानां रसप्रस्थं पृथगेकैकं तद्वद्घृततैलगोमहिष्यजाक्षीराणां द्वौ द्वौ दद्यात्‌, जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटापिप्पली- पुष्करबीजनीलोत्पलकदम्बपुष्पपुण्डरीककेशरकल्कान्‌ पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ताक्षबर्हिजीवञ्जीवकुलिङ्ग- हंसाण्डरसवसामज्जादेश्च प्रस्थं दत्त्वा साधयेत्‌।ब्रह्मघोषशङ्खपटहभेरीनिनादैः सिद्धं सितच्छत्रकृतच्छायं गजस्कन्धमारोपयेद्भगवन्तं वृषध्वजमभिपूज्य, तं स्नेहं त्रिभागमाक्षिकं मङ्गलाशीः स्तुतिदेवतार्चनैर्बस्तिं गमयेत्‌।नृणां स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वरार्तानां व्यापन्नयोनीनां वन्ध्यानां रक्तगुल्मिनीनां मृतापत्यानामनार्तवानां च स्त्रीणां क्षीणमांसरुधिराणां पथ्यतमं रसायनमुत्तमं वलीपलितनाशनं विद्यात्‌ (१),

बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणां शतं शतमापोथ्य जलद्रोणशते प्रसाध्यं, तस्मिन्‌ जलद्रोणावशेषे रसे वस्त्रपूते विदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुटबर्हिहंसकारण्डवसारसाण्डरसानां घृततैलयोश्चैकैकं प्रस्थमष्टौ प्रस्थान्‌ क्षीरस्य दत्त्वा चन्दनमधुकमधूलिकात्वक्क्षीरीबिसमृणालनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकी कण्टकारीजीवकर्षभक- क्षुद्रसहामहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पत्रकल्काश्चं दत्त्वा साधयेत्‌।ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्‌।तेन स्त्रीशतं गच्छेत्‌, न चात्रास्ते विहाराहारयन्त्रणा काचित्‌।एष वृष्यो बल्यो बृंहण आयुष्यो वलीपलितनुत्‌ क्षतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापन्नयोनीनां च पथ्यतमः (२),

सहचरपलशतमुदकद्रोणचतुष्टये पक्त्वा द्रोणशेषे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरंघृततैलप्रस्थं बलामधुकमधूकचन्दन-मधूलिकासारिवामेदामहामेदाकाकोलीक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनखशटीसहचरसहस्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैःकल्कैः साधयेत्‌। ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्‌।एष सर्वरोगहरो रसायनो ललितानां श्रेष्ठोऽन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदनाश्वासकासहरस्त्रिभागमाक्षिको वलीपलितनुद्वर्णरूपबलमांसशुक्रवर्धनः (३),

इत्येते रसायनाः स्नेहबस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति॥१९॥

भवन्ति चात्र —

इत्येते बस्तयः स्नेहाश्चोक्ता यापनसंज्ञिताः।

स्वस्थानामातुराणां च वृद्धानां चाविरोधिनः॥२०॥

अतिव्यवायशीलानां शुक्रमांसबलप्रदाः।

सर्वरोगप्रशमनाः सर्वेष्वृतृषु यौगिकाः॥२१॥

नारीणामप्रजातानां नराणां चाप्यपत्यदाः।

उभयार्थकरा दृष्टाः स्नेहबस्तिनिरूहयोः॥२२॥

व्यायामो मैथुनं मद्यं मधूनि शिशिराम्बु च।

संभोजनं रथक्षोभो बस्तिष्वेतेषु गर्हितम्॥२३॥

तत्र श्लोकाः —

शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः।

विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैः प्रसहैर्नव॥२४॥

विंशतिश्च तथा सप्तविंशतिश्चाम्बुचारिभिः।

नव मत्स्यादिभिश्चैव शिखिकल्पेन बस्तयः॥२५॥

दश कर्कटकाद्यैश्च कूर्मकल्केन बस्तयः।

मृगैः सप्तदशैकोनविंशतिर्विष्किरैर्दश॥२६॥

आनूपैर्दक्षशिखिवद्भूशयैश्च चतुर्दश।

एकोनत्रिंशदित्येते सह स्नेहैः समासतः॥२७॥

प्रोक्ता विस्तरशो भिन्ना द्वे शते षोडशोत्तरे।

एतेमाक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्‌॥२८॥

नातियोगं न वाऽयोगं स्तम्भितास्ते च कुर्वते।

मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः॥२९॥

समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः।

शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः॥३०॥

स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्‌।

अरिष्टक्षीरसीध्वाद्या तत्रेष्टा दीपनी क्रिया॥३१॥

युक्त्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः।

इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः॥३२॥

विस्तरेण पृथक्‌ प्रोक्तास्तेभ्यो रक्षेन्नरं सदा।

कर्मणां वमनादिनामसम्यक्करणापदाम्‌॥३३॥

यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते।

इत्यध्यायशतं विंशमात्रेयमुनिवाङ्‌मयम्‌॥३४॥

हितार्थं प्राणिनां प्रोक्तमग्निवेशेन धीमता।

दीर्घमायुर्यशः स्वास्थ्यं त्रिवर्गं चापि पुष्कलम्‌॥३५॥

सिद्धिं चानुत्तमां लोके प्राप्नोति विधिना पठन्‌।

विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम्‌॥३६॥

संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्‌।

अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना॥३७॥

संस्कृतं तत्त्वसंपूर्णं त्रिभागेनोपलक्ष्यते।

तच्छङ्करं भूतपतिं संप्रसाद्य समापयत्‌॥३८॥

अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे।

कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोञ्छशिलोच्चयम्‌॥३९॥

सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्‌।

इदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितम्‌॥४०॥

षड्विंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः।

तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च॥४१॥

प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्‌।

उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः॥४२॥

प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः।

पूर्वपक्षविधानानुमतव्याख्यानसंशयाः॥४३॥

अतीतानागतावेक्षास्वसंज्ञोह्यसमुच्चयाः।

निदर्शनं निर्वचनं संनियोगो विकल्पनम्‌॥४४॥

प्रत्युत्सारस्तथोद्धारः संभवस्तन्त्रयुक्तयः।

तन्त्रे समासव्यासोक्ते भवन्त्येता हि कृत्स्नशः॥४५॥

एकदेशेन दृश्यन्ते समासाभिहिते तथा।

यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा॥४६॥

प्रबोधनप्रकाशार्थास्तथा तन्त्रस्य युक्तयः।

एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः॥४७॥

स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात्‌ प्रबुध्यते।

अधीयानोऽपि शास्त्राणि तन्त्रयुक्त्या विना भिषक्‌।

नाधिगच्छति शास्त्रार्थानर्थान्‌ भाग्यक्षये यथा॥४८॥

दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्‌।

सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति॥४९॥

(तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः।

तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः ) ॥५०॥

इदमखिलमधीत्य सम्यगर्थान्‌ विमृशति योऽविमनाः प्रयोगनित्यः।

स मनुजसुखजीवितप्रदाता भवति धृतिस्मृतिबुद्धिधर्मवृद्धः॥५१॥

(यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता।

सोऽर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः॥५२॥

रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते।

चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति॥५३॥

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्‌।

अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते॥५४॥

सिद्धिस्थानेऽष्टमे प्राप्ते तस्मिन्‌ दृढबलेन तु।

सिद्धिस्थानं स्वसिद्ध्यर्थं समासेन समापितम्‌॥५५॥)

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने उत्तरबस्तिसिद्धिर्नाम द्वादशोध्यायः॥१२॥

समाप्तमिदं चरकतन्त्रम्‌।

Last updated on July 7th, 2021 at 09:11 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English