Skip to content

05. Vikriti Vidnyaaneeya S`haareera – S`haareera – AH”

अष्टाङ्गहृदयस्य (शारीरस्थानम्‌) विकृतिविज्ञानीयं

पञ्चमोऽध्यायः।

अथातो विकृतिविज्ञानीयं शारीरं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

पुष्पं फलस्य धूमोऽग्नेर्वर्षस्य जलदोदयः।

यथा भविष्यतो लिङ्गं रिष्टं मृत्योस्तथा ध्रुवम्‌॥१॥

 (आयुष्मति क्रियाः सर्वाः सफलाः सम्प्रयोजिताः।

भवन्ति भिषजां भूत्यै कृतज्ञ इव भूभुजि॥१॥

क्षीणायुषि कृतं कर्म व्यर्थं  कृतमिवाधमे।

अयशो देहसन्देहं स्वार्थहानिं च यच्छति॥२॥

तर्हीदानीं गतासूनां लक्षणं सम्प्रचक्षते।

विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्टसंज्ञया॥३॥)

अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम्‌।

अरिष्टे रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात्‌॥२॥

केचित्तु तद्द्विधेत्याहुः स्थाय्यस्थायिविभेदतः।

दोषाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत्‌॥३॥

स दोषाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे।

रूपेन्द्रियस्वरच्छायाप्रतिच्छायाक्रियादिषु॥४॥

अन्येष्वपि च भावेषु प्राकृतेष्वनिमित्ततः।

विकृतिर्या समासेन रिष्टं तदिति लक्षयेत्‌॥५॥

केशरोम निरभ्यङ्गं यस्याभ्यक्तमिवेक्ष्यते।

यस्यात्यर्थं चले नेत्रे स्तब्धान्तर्गतनिर्गते॥६॥

जिह्मे विस्तृतसङ्क्षिप्ते सङ्क्षिप्तविनतभ्रुणी।

उद्‌भ्रान्तदर्शने हीनदर्शने नकुलोपमे॥७॥

कपोताभे अलाताभे स्रुते लुलितपक्ष्मणी।

नासिकाऽत्यर्थविवृता संवृता पिटिकाचिता॥८॥

उच्छूना स्फुटिता म्लाना यस्यौष्ठौ यात्यधोऽधरः।

ऊर्ध्वं द्वितीयः स्यातां वा पक्वजम्बूनिभावुभौ॥९॥

दन्ताः सशर्कराः श्यावास्ताम्राः पुष्पितपङ्किताः।

सहसैव पतेयुर्वा जिह्वा जिह्मा विसर्पिणी॥१०॥

शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता सकण्टका।

शिरः शिरोधरा वोढुं पृष्टं वा भारमात्मनः॥११॥

हनू वा पिण्डमास्यस्थं शक्नुवन्ति न यस्य च।

यस्यानिमित्तमङ्गानि गुरूण्यति लघूनि वा॥१२॥

विषदोषाद्विना यस्य खेभ्यो रक्तं प्रवर्तते।

उत्सिक्तं मेहनं यस्य वृषणावतिनिःसृतौ॥१३॥

अतोऽन्यथा वा यस्य स्यात्‌ सर्वे ते कालचोदिताः।

यस्यापूर्वाः सिरालेखा बालेन्द्वाकृतयोऽपि वा॥१४॥

ललाटे बस्तिशीर्षे वा षण्मासान्न स जीवति।

पद्‌मिनीपत्रवत्तोयं शरीरे यस्य देहिनः॥१५॥

प्लवते प्लवमानस्य षण्मासास्तस्य जीवितम्‌।

हरिताभाः सिरा यस्य रोमकूपाश्च संवृताः॥१६॥

सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते।

यस्य गोमयचूर्णाभं चूर्णं मूर्ध्नि  मुखेऽपि वा॥१७॥

सस्नेहं, मूर्ध्नि  धूमो वा, मासान्तं तस्य जीवितम्‌।

मूर्ध्नि भ्रुवोर्वा कुर्वन्ति सीमन्तावर्तका नवाः॥१८॥

मृत्युं स्वस्थस्य षड्रात्रात्‌ त्रिरात्रादातुरस्य तु।

जिह्वा श्यावा मुखं पूति सव्यमक्षि निमज्जति॥१९॥

खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत्‌।

यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्‌॥२०॥

आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति।

अकस्माद्युगपद्गात्रे वर्णौ प्राकृतवैकृतौ॥२१॥

तथैवोपचयग्लानिरौक्ष्यस्नेहादि मृत्यवे।

यस्य स्फुटेयुरङ्गुल्यो नाकृष्टा न स जीवति॥२२॥

क्षवकासादिषु तथा यस्यापूर्वो ध्वनिर्भवेत्‌।

ह्रस्वोदीर्घोऽतिवोच्छ्वासः पूतिः सुरभिरेव वा॥२३॥

आप्लुतानाप्लुते काये यस्य गन्धोऽतिमानुषः।

मलवस्त्रव्रणादौ वा वर्षान्तं तस्य जीवितम्‌॥२४॥

भजन्तेऽत्यङ्गसौरस्याद्यं यूकामक्षिकादयः।

त्यजन्ति वाऽतिवैरस्यात्सोऽपि वर्षं न जीवति॥२५॥

सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते।

शीतेषु भृशमौष्ण्यं वा स्वेदः स्तम्भोऽप्यहेतुकः॥२६॥

यो जातशीतपिटिकः शीताङ्गो वा विदह्यते।

उष्णद्वेषी च शीतार्तः स प्रेताधिपगोचरः॥२७॥

उरस्यूष्मा भवेद्यस्य जठरे चातिशीतता।

भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः॥२८॥

मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाऽप्सु निमज्जति।

निष्ठ्यूतं बहुवर्णं वा यस्य मासात्स नश्यति॥१९॥

घनीभूतमिवाकाशमाकाशमिव यो घनम्‌।

अमूर्तमिव मूर्तं च मूर्तं चामूर्तवत्स्थितम्‌॥३०॥

तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्च सत्‌।

अनेत्ररोगश्चन्द्रं च बहुरूपमलाञ्छनम्‌॥३१॥

जाग्रद्रक्षांसि गन्धर्वान्‌ प्रेतानन्यांश्च तद्विधान्‌।

रूपं व्याकृति तत्तच्च यः पश्यति स नश्यति॥३२॥

सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्‌।

ध्रुवमाकाशगङ्गां वा स न पश्यति तां समाम्‌॥३३॥

मेघतोयौघनिर्घोषवीणापणववेणुजान्‌।

शृणोत्यन्यांश्च यः शब्दानसतो न सतोऽपि वा॥३४॥

निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम्‌।

तद्वद्गन्धरसस्पर्शान्‌ मन्यते यो विपर्ययात्‌॥३५॥

सर्वशो वा न यो, यश्च दीपगन्धं न जिघ्रति।

विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः॥३६॥

यः पांसुनेव कीर्णाङ्गो योऽङ्गे घातं न वेत्ति वा।

अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्‌॥३७॥

जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत्‌।

हीनो दीनः स्वरोऽव्यक्तो यस्य स्याद्गद्गदोऽपि वा॥३८॥

सहसा यो विमुह्येद्वा विवक्षुर्न स जीवति।

स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः॥३९॥

रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्‌।

अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः॥४०॥

श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत्‌।

संस्थानेन प्रमाणेन वर्णेन प्रभयाऽपि वा॥४१॥

छाया विवर्तते यस्य स्वप्नेऽपि प्रेत एव सः।

आतपादर्शतोयादौ या संस्थानप्रमाणतः॥४२॥

छायाऽङ्गात्सम्भवत्युक्ता प्रतिच्छायेति सा पुनः।

वर्णप्रभाश्रया या तु सा छायैव शरीरगा॥४३॥

भवेद्यस्य प्रतिच्छाया छिन्ना भिन्नाऽधिकाऽऽकुला।

विशिरा द्विशिरा जिह्मा विकृता यदि वाऽन्यथा॥४४॥

तं समाप्तायुषं विद्यान्न चेल्लक्ष्यनिमित्तजा।

प्रतिच्छायामयी यस्य न चाक्ष्णीक्ष्येत कन्यका॥४५॥

खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः।

नाभसी निर्मलाऽऽनीला सस्नेहा सप्रभेव च॥४६॥

वाताद्रजोऽरुणा श्यावा भस्मरूक्षा हतप्रभा।

विशुद्‌धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया॥४७॥

शुद्धवैदूर्यविमला सुस्निग्धा तोयजा सुखा।

स्थिरास्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी॥४८॥

वायवी रोगमरणक्लेशायान्याः सुखोदयाः।

प्रभोक्ता तैजसी सर्वा, सा तु सप्तविधा स्मृता॥४९॥

रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता।

तासां याः स्युर्विकासिन्यः स्निग्धाश्च विमलाश्च याः॥५०॥

ताः शुभा, मलिना रूक्षाः संक्षिप्ताश्चाशुभोदयाः।

वर्णमाक्रामति छाया प्रभा वर्णप्रकाशिनी॥५१॥

आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते।

नाच्छायो नाप्रभः कश्चिद्विशेषािश्चह्नयन्ति तु॥५२॥

नृणां शुभाशुभोत्पत्तिं काले छायासमाश्रयाः।

निकषन्निव यः पादौ च्युतांसः परिसर्पति॥५३॥

हीयते बलतः शश्वद्योऽन्नमश्नन् हितं बहु।

योऽल्पाशी बहुविण्मूत्रो बह्वाशी चाल्पमूत्रविट्‌॥५४॥

यो वाऽल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते।

दीर्घमूच्छ्वस्य यो ह्रस्वं निश्वस्य परिताम्यति॥५५॥

ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम्‌।

शिरो विक्षिपते कृच्छ्राद्योऽञ्चयित्वा प्रपाणिकौ॥५६॥

यो ललाटात्स्रुतस्वेदः श्लथसन्धानबन्धनः।

उत्थाप्यमानः सम्मुह्येद्यो बली दुर्बलोऽपि वा॥५७॥

उत्तान एव स्वपिति यः पादौ विकरोति च।

शयनासनकुड्यादेर्योऽसदेव जिघृक्षति॥५८॥

अहास्यहासी सम्मुह्यन्‌ यो लेढि दशनच्छदौ।

उत्तरौष्ठं परिलिहन्‌ फूत्कारांश्च करोति यः॥५९॥

यमभिद्रवति च्छाया कृष्णा पीताऽरुणाऽपि वा।

भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये॥६०॥

वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः।

(ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम्‌॥६१॥

उष्णोऽपरः प्रदेशश्च शरणं तस्य देवताः।)

(पूर्वरूपाणि सर्वाणि ज्वरादिष्वतिमात्रया।

यं विशंति विशत्येनं मृत्युर्ज्वरपुरःसरः॥१॥)

योऽणुज्योतिरनेकाग्रो दुःच्छायो दुर्मनाः सदा॥६२॥

बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते।

निर्निमित्तं च यो मेधां शोभामुपचयं श्रियम्‌॥६३॥

प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम्‌ ।

गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा॥६४॥

यात्यन्यथात्वं प्रकृतिः षण्मासान्न स जीवति।

भक्तिः शीलं स्मृतिस्त्यागोबुद्धिर्बलमहेतुकम्‌॥६५॥

षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः।

मत्तवद्गतिवाक्‌कम्पमोहा मासान्मरिष्यतः॥६६॥

नश्यत्यजानन्‌ षडहात्केशलुञ्चनवेदनाम्‌।

न याति यस्य चाहारः कण्ठं कण्ठामयादृते॥६७॥

प्रेष्यः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते।

यस्य निद्रा भवेन्नित्या नैव वा न स जीवति॥६८॥

वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणौ भृशम्‌।

चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः॥६९॥

यैः पुरा रमते भावैररतिस्तैर्न जीवति।

सहसा जायते यस्य विकारः सर्वलक्षणः॥७०॥

निवर्तते वा सहसा, सहसा स विनश्यति।

ज्वरो निहन्ति बलवान्‌ गम्भीरो दैर्घरात्रिकः॥७१॥

सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम्‌।

अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनम्‌॥७२॥

सशुष्ककासः पूर्वाह्णे योऽपराह्णेऽपि वा भवेत्‌।

बलमांसविहीनस्य श्लेष्मकाससमन्वितः॥७३॥

रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम्‌।

ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत्‌॥७४॥

रोमकूपप्रविसृतं कण्ठास्यहृदये सजत्‌।

वाससोऽरञ्जनं पूति वेगवच्चाति भूरि च॥७५॥

वृद्धं पाण्डुज्वरच्छर्दिकासशोफातिसारिणम्‌।

कासश्वासौ ज्वरच्छर्दितृष्णातीसारशोफिनम्‌॥७६॥

यक्ष्मा पार्श्वरुजानाहरक्तच्छर्द्यंसतापिनम्‌।

छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका॥७७॥

सास्रविट्‌पूयरुक्कासश्वासवत्यनुषङ्गिणी।

तृष्णाऽन्यरोगक्षपितं बहिर्जिह्वं विचेतनम्‌॥७८॥

मदात्ययोऽतिशीतार्तं क्षीणं तैलप्रभाननम्‌।

अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम्‌॥७९॥

हृत्पार्श्वाङ्गरुजाच्छर्दिपायुपाकज्वरातुरम्‌।

अतीसारो यकृत्पिण्डमांसधावनमेचकैः॥८०॥

तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः।

मस्तुलुङ्गमषीपूयवेसवाराम्बुमाक्षिकैः॥८१॥

अतिरक्तासितस्निग्धपूत्यच्छघनवेदनः।

कर्बुरः प्रस्रवन्‌ धातून्‌ निष्पुरीषोऽथवाऽतिविट्‌॥८२॥

तन्तुमान्‌ मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः।

शीर्णपायुवलिं मुक्तनालं पर्वास्थिशूलिनम्‌॥८३॥

स्रस्तपायुं बलक्षीणमन्नमेवोपवेशयन्‌।

सतृट्‌श्वासज्वरच्छर्दिदाहानाहप्रवाहिकः॥८४॥

अश्मरी शूनवृषणं बद्धमूत्रं रूजार्दितम्‌।

मेहस्तृड्‌दाहपिटिकामांसकोथातिसारिणम्‌॥८५॥

पिटिका मर्महृत्पृष्ठस्तनांसगुदमूर्द्धगाः।

पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम्‌॥८६॥

सर्वं च मांससङ्कोथदाहतृष्णामदज्वरैः।

विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः॥८७॥

गुल्मः पृथुपरीणाहो घनः कूर्म इवोन्नतः।

सिरानद्धो ज्वरच्छर्दिहिध्माध्मानरुजान्वितः॥८८॥

कासपीनसहृल्लासश्वासातीसारशोफवान्‌।

विण्मूत्रसङ्‌ग्रहश्वासशोफहिध्माज्वरभ्रमैः॥८९॥

मूर्च्छाच्छर्द्यतिसारैश्च जठरं हन्ति दुर्बलम्‌।

शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्‌॥९०॥

विरेचनहृतानाहमानह्यन्तं पुनः पुनः।

पाण्डुरोगः श्वयथुमान्‌ पीताक्षिनखदर्शनम्‌॥९१॥

तन्द्रादाहारुचिच्छर्दिमूर्च्छाध्मानातिसारवान्‌।

अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्‌॥९२॥

नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि।

राजीचितः स्रवंश्छर्दिज्वरश्वासातिसारिणम्‌॥९३॥

ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये।

दुर्बलस्य विशेषेण जायन्तेऽन्ताय देहिनः॥९४॥

श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके।

सीदतः सक्थिनी चैव तं भिषक्‌ परिवर्जयेत्‌॥९५॥

आननं हस्तपादं च विशेषाद्यस्य शुष्यतः।

शूयते वा विना देहात्स मासाद्याति पञ्चताम्‌॥९६॥

विसर्पः कासवैवर्ण्यज्वरमूर्च्छाङ्गभङ्गवान्‌।

भ्रमास्यशोफहृल्लासदेहसादातिसारवान्‌॥९७॥

कुष्ठं विशीर्यमाणाङ्गं रक्तनेत्र हतस्वरम्‌।

मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम्‌॥९८॥

वायुः सुप्तत्वचं भुग्नं  कम्पशोफरुजातुरम्‌।

वातास्रं मोहमूर्च्छायमदास्वप्नज्वरान्वितम्‌॥९९॥

शिरोग्रहारुचिश्वाससङ्कोचस्फोटकोथवत्‌।

शिरोरोगारुचिश्वासमोहविड्‌भेदतृड्‌भ्रमैः॥१००॥

घ्नन्ति  सर्वामयाः क्षीणस्वरधातुबलानलम्‌।

वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी॥१०१॥

गुल्मी मेही च तान्‌ क्षीणान्‌ विकारेऽल्पेऽपि वर्जयेत्‌।

बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः॥१०२॥

यस्यातुरस्य लक्ष्यन्ते त्रीन्‌ पक्षान्न स जीवति।

वाताष्ठीलाऽतिसंवृद्धा तिष्ठन्ती दारुणा हृदि॥१०३॥

तृष्णाया नु परीतस्य सद्यो मुष्णाति जीवितम्‌।

शैथिल्यं पिण्डिके वायुर्नीत्वा नासां च जिह्मताम्‌॥१०४॥

क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम्‌।

नाभीगुदान्तरं गत्वा वङ्‌क्षणौ वा समाश्रयन्‌॥१०५॥

गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली।

मलान्‌ बस्तिशिरो नाभिं विबद्ध्य जनयन्‌ रुजम्‌॥१०६॥

कुर्वन्‌ वङ्‌क्षणयोः शूलं तृष्णां भिन्नपुरीषताम्‌।

श्वासं वा जनयन्‌ वायुर्गृहीत्वा गुदवङ्‌क्षणम्‌॥१०७॥

वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः।

स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम्‌॥१०८॥

सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः।

विश्लेषणं च सन्धीनां मुमुर्षोरुपजायते॥१०९॥

गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्‌।

लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्‌॥११०॥

प्रवालगुलिकाभासा यस्य गात्रे मसूरिकाः।

उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति॥१११॥

मसूरविदलप्रख्यास्तथा विद्रुमसन्निभाः।

अन्तर्वक्त्राः किणाभाश्च विस्फोटा देहनाशनाः॥११२॥

कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता।

सन्त्रासश्चोष्णताऽङ्गे च यस्य तं परिवर्जयेत्‌॥११३॥

अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम्‌।

(चन्दनोशीरमदिराकुणपध्वाङ्‌क्षगन्धयः।

शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभा॥१॥

अन्तर्दाहा निरूष्माणः प्राणनाशकरा व्रणाः॥)

यो वातजो न शूलाय स्यान्न दाहाय पित्तजः॥११४॥

कफजो न च पूयाय मर्मजश्च रुजे न यः।

अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते॥११५॥

रूपं शक्तिध्वजादीनां सर्वास्तान्वर्जयेद्‌व्रणान्‌।

विण्मूत्रमारुतवहं कृमिणं च भगन्दरम्‌॥११६॥

घट्टयन्‌ जानुना जानु पादावुद्यम्य पातयन्‌।

योऽपास्यति मुहुर्वक्त्रमातुरो न स जीवति॥११७॥

दन्तैश्छिन्दन्नखाग्राणि तैश्च केशांस्तृणानि च।

भूमिं काष्ठेन विलिखन्‌ लोष्टं लोष्टेन ताडयन्‌॥११८॥

हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः।

मुहुर्हसन्‌ मुहुः क्ष्वेडन्‌ शय्यां पादेन हन्ति यः॥११९॥

मुहुश्छिद्राणि विमृशन्नातुरो न स जीवति।

मृत्यवे सहसाऽऽर्तस्य तिलकव्यङ्गविप्लवः॥१२०॥

मुखे, दन्तनखे पुष्पं, जठरे विविधाः सिराः।

ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्‌क्षणम्‌॥१२१॥

शर्म चानधिगच्छन्तं बुद्धिमान्‌ परिवर्जयेत्‌।

विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते॥१२२॥

सहसा सहसा तस्य मृत्युर्हरति जीवितम्‌।

यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्‌॥१२३॥

यतमानो न शक्नोति दुर्लभं तस्य जीवितम्‌।

विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्‌॥१२४॥

न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्‌।

भवेद्यस्यौषधेऽन्ने वा कल्प्यमाने विपर्ययः॥१२५॥

अकस्माद्वर्णगन्धादेः स्वस्थोऽपि न स जीवति।

निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति॥।१२६॥

आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा।

अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्‌॥१२७॥

यं नरं सहसा रोगो दुर्बलं परिमुञ्चति।

संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते॥१२८॥

कथयेन्न च पृष्टोऽपि दुःश्रवं मरणं भिषक्‌।

गतासोर्बन्धुमित्राणां न चेच्छेत्तं चिकित्सितुम्‌॥१२९॥

यमदूतपिशाचाद्यैर्यत्परासुरुपास्यते।

घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्जयेत्‌॥१३०॥

आयुर्वेदफलं कृत्स्नं यदायुर्ज्ञे प्रतिष्ठितम्‌।

रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक्‌॥१३१॥

मरणं प्राणिनां दृष्टमायुःपुण्योभयक्षयात्‌।

तयोरप्यक्षयाद्दृष्टं विषमापरिहारिणाम्‌॥१३२॥

इति श्री वैद्यपतिसिंहगुप्तसूनुवाग्भटविरचितायामष्टाङ्गहृदय-

संहितायां द्वितीये शारीरस्थाने विकृतिविज्ञानीयो नाम पञ्चमोऽध्यायः॥

Last updated on August 12th, 2021 at 11:42 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English