Skip to content

07. Vyaadhitaroopeeya Vimaana – Vimaana – C”

चरकसंहिता

विमानस्थानम्‌ ।

सप्तमोऽध्याय: ।

       अथातो व्याधितरूपीयं विमानं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       इह खलु द्वौ पुरुषौ व्याधितरूपौ भवत: – गुरुव्याधित:, लघुव्याधितश्च । तत्र-गुरुव्याधित एक: सत्त्वबलशरीरसंपदुपेतत्वाल्लघुव्याधित इव दृश्यते, लघुव्याधितोऽपर: सत्त्वादीनामधमत्वाद्गुरुव्याधित इव दृश्यते । तयोरकुशला: केवलं चक्षुषैव रूपं दृष्ट्वाऽध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते ॥३॥

       नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते । विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते । ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति, तदा तमल्पदोषां मत्वा संशोधनकालेऽस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति । यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति, तदा तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति । एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमाना: परिस्खलन्ति । विदितवेदितव्यास्तु भिषज: सर्वं सर्वथा यथासंभवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते, यथेष्टमर्थमभिनिर्वर्तयन्ति चेति ॥४॥  

       भवन्ति चात्र–

       सत्त्वादीनां विकल्पेन व्याधिरूपमथातुरे ।

       दृष्ट्वा विप्रतिपद्यन्ते बाला व्याधिबलाबले ॥५॥

       ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिता: ।

       व्याधितानां विनाशाय क्लेशाय महतेऽपि वा ॥६॥

       प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा ।

       न स्खलन्ति प्रयोगेषु भेषजानां कदाचन ॥७॥

       इति व्याधितरूपाधिकारे व्याधितरूपसंख्याग्रसंभवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं संप्रतिपत्तिकारणं चानपवादं निशम्य, भगवन्तमात्रेयमग्निवेशोऽत: परं सर्वक्रिमीणां पुरीषसंश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान्‌ पप्रच्छोपसंगृह्य पादौ ॥८॥

       अथास्मै प्रोवाच भगवानात्रेय:–इह खल्वग्निवेश ! विंशतिविधा: क्रिमय: पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्य:; ते पुन: प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति; तद्यथा–पुरीषजा:, श्लेष्मजा:, शोणितजा, मलजाश्चेति ॥९॥

       तत्र मलो बाह्यश्चाभ्यन्तरश्च । तत्र बाह्यमलजातान्‌ मलजान्‌ संचक्ष्महे । तेषां समुत्थानं-मृजावर्जनं; स्थानं–केशश्मश्रु- लोमपक्ष्मवासांसि; संस्थानम्‌-अणवस्तिलाकृतयो बहुपादाश्च, वर्ण: – कृष्ण:, शुक्लश्च; नामानि-यूका:, पिपीलिकाश्च; प्रभाव: -कण्डूजननं, कोठपिडकाभिनिर्वर्तनं च; चिकित्सितं तु खल्वेषामपकर्षणं, मलोपघात:, मलकराणां च भावानामनुपसेवनमिति ॥१०॥

       शोणितजानां तु खलु कुष्ठै: समानं समुत्थानं; स्थानं-रक्तवाहिन्यो धमन्य:, संस्थानम्‌-अणवो वृत्ताश्चापादाश्च, सूक्ष्मत्वाच्चैके भवन्त्यदृश्या:; वर्ण:-ताम्र:, नामानि-केशादा, लोमादा, लोमद्वीपा:, सौरसा, औडुम्बरा, जन्तुमातरश्चेति प्रभाव:- केशश्मश्रुनखलोमपक्ष्मापध्वंस:, व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि, अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति; चिकित्सितमप्येषां कुष्ठै: समानं, तदुत्तरकालमुपदेक्ष्याम: ॥११॥

       श्लेष्मजा: क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसंकीर्णविरुद्धासात्म्यभोजनसमुत्थाना:; तेषामामाशय: स्थानं, ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतो वा; संस्थानवर्णविशेषास्तु–श्वेता: पृथुब्रध्नसंस्थाना: केचित्‌, केचिद्वृत्तपरिणाहा गण्डूपदाकृतय: श्वेतास्ताम्रावभासाश्च, केचिदणवो दीर्घास्तन्त्वाकृतय: श्वेता:; तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि- अन्त्रादा:, उदरादा:, हृदयचरा:, चुरव:, दर्भपुष्पा:, सौगन्धिका:, महागुदाश्चेति; प्रभावो-हृल्लास:, आस्यसंस्रवणम्‌, अरोचकाविपाकौ, ज्वर:, मूर्च्छा, जृम्भा, क्षवथु:, आनाह:, अङ्गमर्द:, छर्दि: कार्श्यं, पारुष्यं, चेति ॥१२॥

       पुरीषजास्तुल्यसमुत्थाना: श्लेष्मजै:; तेषां स्थानं पक्वाशय:, ते प्रवर्धमानास्त्वधो विसर्पन्ति, यस्य पुनरामाशयाभिमुखा: स्युर्यदन्तरं तदन्तरं तस्योद्गारनि:श्वासा: पुरीषगन्धिन: स्यु:; संस्थानवर्णविशेषास्तु-सूक्ष्मवृत्तपरीणाहा: श्वेता दीर्घा ऊर्णांशुसंकाशा: केचित्‌, केचित्‌ पुन: स्थूलवृत्तपरीणाहा: श्यावनीलहरितपीता:; तेषां नामानि ककेरुका:, मकेरुका:, लेलिहा:; सशूलका:, सौसुरादाश्चेति; प्रभाव:–पुरीषभेद:, कार्श्यं, पारुष्यं, लोमहर्षाभिनिर्वर्तनं च, त एव चास्य गुदमुखं परितुदन्त: कण्डूं चोपजनयन्तो

गुदमुखं पर्यासते, त एव जातहर्षा गुदनिष्क्रमणमतिवेलं कुर्वन्ति; इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेष: ॥१३॥

       चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्याम: । तत्र सर्वक्रिमीणामपकर्षणमेवादित: कार्यं, तत: प्रकृतिविघात:, अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति ॥१४॥

       तत्रापकर्षणं-हस्तेनाभिगृह्य विमृश्योपकरणवताऽपनयनमनुपकरणेन वा; स्थानगतानां तु क्रिमीणां भेषजेनापकर्षणं न्यायत:, तच्चतुर्विधं; तद्यथा–शिरोविरेचनं, वमनं, विरेचनम्‌, आस्थापनं च, इत्यपकर्षणविधि: । प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोग:, यच्चान्यदपि किंचिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत्‌ स्यात्‌, इति प्रकृतिविघात: । अनन्तरं निदानोक्तानां भावानामनुपसेवनं– यदुक्तं निदानविधौ तस्य विवर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम्‌ । इति लक्षणतश्चिकित्सितमनुव्याख्यातम्‌ । एतदेव पुनर्विस्तरेणोपदेक्ष्यते ॥१५॥

       अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिताऽस्मीति क्षीरगुडदधि- तिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसंप्रयुक्तैर्भोज्यै: सायं प्रातश्चोपपादयेत्‌ समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक्‌ । अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनीयश्चेत्‌ स्यात्‌ सर्वान्‌ परीक्ष्यविशेषान्‌ परीक्ष्य सम्यक्‌ ॥१६॥

       अथाहरेति ब्रूयात्‌–मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षव- कफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत्‌ सततमवघट्टयन्‌ दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितं स्वार्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेर- दारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसंपादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत्‌ ॥१७॥

       प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या, तस्य विधिरुपदेक्ष्यते– मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत्‌, तदस्य दोषमुभयतो निर्हरति साधु, एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या सर्वविशेषानवेक्षमाणो भिषक्‌ ॥१८॥

       अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत्‌ । तेनैव च कषायेण बाह्याभ्यन्तरान्‌ सर्वोदकार्थान्‌ कारयेच्छश्वत्‌; तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत्‌ । परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत्‌, विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा ॥१९॥

       यदि पुनरस्यातिप्रवृद्धाञ्छीर्षादान्‌ क्रिमीन्‌ मन्येत शिरस्यैवाभिसर्पत: कदाचित्‌, तत: स्नेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदापामार्गतण्डुलादिना शिरोविरेचनेन ॥२०॥

       यस्त्वभ्यवहार्यविधि: प्रकृतिविघातायोक्त: क्रिमीणामथ तमनुव्याख्यास्याम:,– मूलकपर्णीं समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात्‌, तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्‌, अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्गसंसृष्टं सलवणमनुपाययेत्‌ । अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरक- गण्डीरकालमालकपर्णासक्षवकफणिज्झकबकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतस्मिन्‌ कारयेत्‌ पूपलिका: तथा किणिहीकिरात- तिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषु कारयेत्‌ पूपलिका:; स्वरसांश्चैतेषामेकैकशो द्वन्द्वश: सर्वशो वा मधुविलुलितान्‌ प्रातरनन्नाय पातुं प्रयच्छेत्‌ ॥२१॥

       अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुन: सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाऽष्टकृत्वो दशकृत्वो वाऽऽतपे सुपरिभावितानि भावयित्वा दृषदि पुन: सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत्‌ । तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत्‌ क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत्‌ ॥२२॥

       तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने शरीरमुपवेष्ट्य मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरि समारोप्य समन्ताद्गोमयैरुपचित्य दाहयेत्‌, स यदा जानीयात्‌ साधु दग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत्‌ । अथ तस्माद् द्वितीयात्‌ कुम्भात्‌ स्नेहमादाय विडङ्गतण्डुलचूर्णै: स्नेहार्धमात्रै: प्रतिसंसृज्यातपे सर्वमह: स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत्‌ पानाय; तेन साधु विरिच्यते, विरिक्तस्य चानुपूर्वी यथोक्ता । एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्य पातुं प्रयच्छेत्‌ ॥२३॥

       अनुवासयेच्चैनमनुवासनकाले ॥२४॥

       अथाहरेति ब्रूयात्‌– शारदान्नवांस्तिलान्‌ संपदुपेतान्‌: तानाहृत्य सुनिष्पूतान्निष्पूय, सुशुद्धाञ् शोधयित्वा, विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात्‌, गतदोषानभिसमीक्ष्य, सुप्रलूनान्‌ प्रलुञ्च्य, पुनरेव सुनिष्पूतान्‌ निष्पूय, सुशुद्धान्‌ शोधयित्वा, विडङ्गकषायेण त्रि:सप्तकृत्व: सुपरिभावितान्‌ भावयित्वा आतपे शोषयित्वा, उलू(दू)खले संक्षुद्य, दृषदि पुन: श्लक्ष्णपिष्टान्‌ कारयित्वा, द्रोण्यामभ्यवधाय, विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन्‌ पाणिमर्दमेव मर्दयेत; तस्मिंस्तु खलुप्रपीड्यमाने यत्तैलमुदियात्तत्‌ पाणिभ्यां पर्यादाय, शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत्‌ ॥२५॥

       अथाहरेति ब्रूयात्‌–तिल्वकौद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण, तदर्धमात्रौ श्यामात्रिवृतयो:, अतोऽर्धमात्रौ दन्तीद्रवन्त्यो:, अतोऽर्धमात्रौ च चव्यचित्रकयोरिति । एतं संभारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य, तत्तैलप्रस्थं समावाप्य, सर्वमालोड्य, महति पर्योगे समासिच्याग्नावधिश्रित्यासने सुखोपविष्ट: सर्वत: स्नेहमवलोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन्‌ । स यदा जानीयाद्विरमति शब्द:, प्रशाम्यति च फेन:, प्रसादमापद्यते स्नेह:, यथास्वं च गन्धवर्णरसोत्पत्ति:, संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति, स कालस्तस्यावतारणाय । ततस्तमवतार्य शीतीभूतहतेन वाससा परिपूय, शुचौ दृढे कलशे समासिच्य, पिधानेन पिधाय, शुक्लेन वस्त्रपट्टेनावच्छाद्य, सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत्‌ । ततोऽस्मै मात्रां प्रयच्छेत्‌ पानाय, तेन साधु विरिच्यते; सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता । ततश्चैनमनुवासयेदनुवासनकाले । एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहानुपकल्प्य पाययेत्‌ सर्वविशेषानवेक्षमाण: । तेनागदो भवति ॥२६॥

       एवं द्वयानां श्लेष्मपुरीषसंभवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषा व्याख्याता: सामान्यत: । विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं, मात्राधिकं पुन: शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम्‌; इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति । तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम्‌ । यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति ॥२७॥

       भवन्ति चात्र–

       अपकर्षणमेवादौ क्रिमीणां भेषजं स्मृतम्‌ ।

       ततो विघात: प्रकृतेर्निदानस्य च वर्जनम्‌ ॥२८॥

       अयमेव विकाराणां सर्वेषामपि निग्रहे ।

       विधिर्दृष्टस्त्रिधा योऽयं क्रिमीनुद्दिश्य कीर्तित: ॥२९॥

       संशोधनं संशमनं निदानस्य च वर्जनम्‌ ॥

       एतावद्भिषजा कार्यं रोगे रोगे यथाविधि ॥३०॥

       तत्र श्लोकौ–

       व्याधितौ पुरुषौ ज्ञाज्ञौ भिषजौ सप्रयोजनौ ।

       विंशति: क्रिमयस्तेषां हेत्वादि: सप्तको गण: ॥३१॥

       उक्तो व्याधितरूपीये विमाने परमर्षिणा ॥

       शिष्यसंबोधनार्थाय व्याधिप्रशमनाय च ॥३२॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमोऽध्याय: ॥७॥

Last updated on June 7th, 2021 at 12:29 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English