Skip to content

10. Basti Siddhi – Siddhi – C

चरकसंहिता

सिद्धिस्थानम्‌।

दशमोऽध्याय: ।

अथातो बस्तिसिद्धिं व्याख्यास्याम: ॥१॥

इति ह स्माह भगवानात्रेय: ॥२॥

सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु।

शृण्वग्निवेश! गदत: सिद्धिं सिद्धिप्रदां भिषजाम्‌॥३॥

बलदोषकालरोगप्रकृती: प्रविभज्य योजिता: सम्यक्‌।

स्वै: स्वैरौषधवर्गै: स्वान्‌ स्वान्‌ रोगान्नियच्छन्ति॥४॥

कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्‌।

आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च॥५॥

सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्‌।

दु:खोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्यु: ॥६॥

अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ।

आस्थापनमेव तयो: सर्वार्थकृदुत्तमं कर्म॥७॥

बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु।

अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविध: ॥८॥

शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम्‌।

विट्‌सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्त: ॥९॥

उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च।

तद्योग्यौषधयुक्तान्‌ बस्तीन्‌ संतर्क्य विनियुज्यात्‌॥१०॥

बस्तीन्न बृंहणीयान्‌ दद्यात्‌ व्याधिषु विशोधनीयेषु।

मेदस्विनो विशोध्या येऽपि नरा: कुष्ठमेहार्ता: ॥११॥

न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्‌।

युञ्जाद्विशोधनीयान्‌ दोषनिबद्धायुषो ये च॥१२॥

वाजीकरणेऽसृक्‌पित्तयोश्च मधुघृतपयोयुक्ता: ।

शस्ता: सतैलमूत्रारनाललवणाश्चक फवाते॥१३॥

युञ्जाद्‌द्रव्याणि बस्तिष्वम्लं मूत्रं पय: सुरां क्वाथान्‌।

अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्‌॥१४॥

सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहा: ।

ऊर्ध्वानुलोमभागा: ससर्षपा: शर्करा लवणम्‌॥१५॥

आवापा बस्तीनामत: प्रयोज्यानि येषु यानि स्यु: ।

युक्तानि सह कषायैस्तान्युत्तरत: प्रवक्ष्यामि॥१६॥

चिरजातकठिनबलेषु

व्याधिषु तीक्ष्णा विपर्यये मृदव:।

सप्रतिवापकषाया

योज्यास्त्वनुवासननिरूहा: ॥१७॥

अर्धश्लोकैरत: सिद्धान्‌ नानाव्याधिषु सर्वश: ।

बस्तीन्‌ वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु॥१८॥

बिल्वोऽग्निमन्थ: श्योनाक: काश्मर्य: पाटलिस्तथा।

शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानक: ॥१९॥

यवा: कुलत्था: कोलानि स्थिरा चेति त्रयोऽनिले।

शस्यन्ते सचतु:स्नेहा: पिशितस्य रसान्विता: ॥२०॥

नलवञ्जुलवानीरशतपत्राणि शैवलम्‌।

मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका॥२१॥

चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रय: ।

सशर्कराक्षौद्रघृता: सक्षीरा बस्तयो हिता: ॥२२॥

अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा।

हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्‌॥२३॥

पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु।

सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिता: ॥२४॥

फलजीमूतकेक्ष्वाकुधामार्गवकवत्सका: ।

श्यामा च त्रिफला चैव स्थिरा दन्ती द्रवन्त्यपि॥२५॥

प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा।

सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च॥२६॥

चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधना: ।

(व्यस्तैरपि समस्तैश्चच तुर्योगा उदाहृता: ॥२७॥)

काकोली क्षीरकाकोली मुद्गपर्णी शतावरी।

विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके॥२८॥

आत्मगुप्ताफलं माषा: सगोधूमा यवास्तथा।

जलजानूपजं मांसमित्येते शुक्रमांसला:॥२९॥

जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ।

प्रग्रह: खदिर: कुष्ठं शमी पिण्डीतको यवा: ॥३०॥

प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका।

वटाद्या: किंशुकं लोध्रमिति सांग्राहिका मता: ॥३१॥

परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्‌।

आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया॥३२॥

कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभि: ।

दाहघ्न: सघृतक्षीरो द्वितीयश्चोत्पलादिभि: ॥३३॥

कर्बुदाराढकीनीपविदुलै: क्षीरसाधितै: ।

बस्ति: प्रदेयो भिषजा शीत: समधुशर्कर: ॥३४॥

परिकर्ते तथा वृन्तै: श्रीपर्णीकोविदारजै: ।

(देयोबस्ति: सुवैद्यैस्तु यथावद्विदितक्रियै: ॥३५॥)

बस्ति: शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वित: ।

हित: प्रवाहणे तद्वद्वेष्टै: शाल्मलिकस्य च॥३६॥

अश्वावरोहिकाकाकनासाराजकशेरुकै: ।

सिद्धा: क्षीरेऽतियोगे स्यु: क्षौद्राञ्जनघृतैर्युता: ॥३७॥

न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना पर: ।

बृहती क्षीरकाकोली पृश्निपर्णी शतावरी॥३८॥

काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गव: ।

जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ॥३९॥

बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ।

गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा॥४०॥

शशैणदक्षमार्जारमहिषाव्यजशोणितै: ।

सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते॥४१॥

मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनै: ।

तेनैव विधिना बस्तिर्देय: सक्षौद्रशर्कर: ॥४२॥

मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा।

शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलै: ।

रक्तपित्ते, प्रमेहे तु कषाय: सोमवल्कज: ॥४३॥

गुल्मातिसारोदावर्तस्तम्भसड्कुचितादिषु।

सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च॥४४॥

यथास्वैरौषधै: सिद्धान्‌ बस्तीन्‌ दद्याद्विचक्षण: ।

पूर्वोक्तेन विधानेन कुर्वन्‌ योगान्‌ पृथग्विधान्‌॥४५॥

तत्र श्लोका:–

त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रय: ।

पक्वाशयविशुद्ध्यर्थं वृष्या: सांग्राहिकास्तथा॥४६॥

परिस्रावे तथा दाहे परिकर्ते प्रवाहणे।

सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रय: ॥४७॥

द्वौ रक्तपित्ते मेहे च एक त्रिंशच्च सप्त ते।

सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमा: ॥४८॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्याय: ॥१०॥

Last updated on July 6th, 2021 at 10:35 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English