सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
द्विषष्टितमोऽध्यायः ।
अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
मदयन्त्युद्ध(द्ग)ता दोषा यस्मादुन्मार्गमाश्रिताः |
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ||३||
एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः |
मानसेना च दुःखेन स पञ्चविध उच्यते ||४||
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् |
स चाप्रवृद्धस्तरुणो मदसञ्ज्ञां बिभर्ति च ||५||
मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् |
अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ||६||
वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा |
यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ||७||
रूक्षच्छविः परुषवाग्धमनीततो वा शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः |
आस्फोटयत्यटति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ||८||
तृट्स्वेददाहबहुलो बहुभुग्विनिद्रश्छायाहिमानिलजलान्तविहारसेवी |
तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की पित्ताद्दिवा नभसि पश्यति तारकाश्च ||९||
छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः |
निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात् ||१०||
सर्वात्मके पवनपित्तकफा यथास्वं संहर्षिता इव च लिङ्गमुदीरयन्ति ||११||
चौरैर्नरेन्द्रपुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसङ्क्षयाद्वा |
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः ||१२||
चित्रं स जल्पति मनोनुगतं विसञ्ज्ञो गायत्यथो हसति रोदिति मूढसञ्ज्ञः |
रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेऽथ भवेत् परासुः ||१३||
स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत् |
तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः ||१४||
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः |
योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत् ||१५||
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः |
सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा ||१६||
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा |
भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः ||१७||
भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत् |
यन्त्रयित्वा सुगुप्तं वां त्रासयेत्तं तृणाग्निना ||१८||
जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत् |
बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत् |
प्रतुदेदारया चैनं मर्माघातं विवर्जयेत् |
वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत् ||१९||
सापिधाने जरत्कूपे सततं वा निवासयेत् |
त्र्यहात्त्र्यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् ||२०||
केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः |
हृद्यं यद्दीपनीयं च तत्पथ्यं तस्य भो(यो)जयेत् |
(विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः |
श्यामैलवालुकैलाभिश्चन्दनामरदारुभिः ||२२||
बर्हिष्ठरजनीकुष्ठपर्णिनीसारिवाद्वयैः |
हरेणुकात्रिवृद्दन्तीवचातालीसकेशरैः ||२३||
द्विक्षीरं साधितं सर्पिर्मालतीकुसुमैः सह |
गुल्मकासज्वरश्वासक्षयोन्मादनिवारणम् ||२४||
एतदेव हि सम्पक्वं जीवनीयोपसम्भृतम् |
चतुर्गुणेन दुग्धेन महाकल्याणमुच्यते ||२५||
अपस्मारं ग्रहं शोषं क्लैब्यं कार्श्यमबीजताम् |
घृतमेतन्निहन्त्याशु ये चादौ गदिता गदाः ||२६||
बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः |
तगरत्रिफलाहिङ्गुवाजिगन्धामरद्रुमैः ||२७||
वचाऽजमोदाकाकोलीमेदामधुकपद्मकैः |
सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ||२८||
बालानां ग्रहजुष्टानां पुंसा दुष्टाल्परेतसाम् |
ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चाशु गर्भदम्) ||२९||
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जटाम् |
विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ||३०||
ज्योतिष्मतीं नागरं च अनन्तामभयां तथा |
सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ||३१||
छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः |
अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ||३२||
उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत् |
अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् ||३३||
शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत् |
उन्मादेषु च सर्वेषु कुर्याच्चित्तप्रसादनम् |
मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत ||३४||
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक् |
विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम् ||३५||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम (तृतीयोऽध्यायः, आदितः) द्विषष्टितमोऽध्यायः ||६२||
Last updated on July 9th, 2021 at 05:35 am