सुश्रुतसंहिता ।
सूत्रस्थानम् ।
पञ्चविंशतितमोऽध्याय: ।
अथातोऽष्टविधशस्त्रकर्मीयमध्यायं व्याख्यास्याम: ॥१॥
यथोवाच भगवान् धन्वन्तरि: ॥२॥
छेद्या भगन्दरा ग्रन्थि: श्लैष्मिकस्तिलकालक: ॥
व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलोऽस्थिमांसगम् ॥३॥
शल्यं जतुमणिर्मांससंघातो गलशुण्डिका ॥
स्नायुमांससिराकोथो वल्मीकं शतपोनक: ॥४॥
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसक: ॥
भेद्या विद्रधयोऽन्यत्र सर्वजाद्ग्रन्थयस्त्रय: ॥५॥
आदितो ये विसर्पाश्च वृद्धय: सविदारिका: ॥
प्रमेहपिडका: शोफ: स्तनरोगोऽवमन्थक: ॥६॥
कुम्भीकाऽनुशयी नाड्यो वृन्दौ पुष्करिकाऽलजी ॥
प्रायश: क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ ॥७॥
तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिण: ॥
बस्तिस्तथाऽश्मरीहेतोर्मेदोजा ये च केचन ॥८॥
लेख्याश्चरोहिण्य: किलासमुपजिह्विका ।
मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ॥९॥
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा ॥
वेध्या: सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् ॥१०॥
एष्या नाड्य: सशल्याश्च व्रणा उन्मार्गिणश्च ये ॥
आहार्या: शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ॥११॥
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे ॥
स्राव्या विद्रधय: पञ्च भवेयु: सर्वजादृते ॥१२॥
कुष्ठानि वायु: सरुज: शोफो यश्चैकदेशज: ॥
पाल्यामया: श्लीपदानि विषजुष्टं च शोणितम् ॥१३॥
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितश्च ते ॥
त्रयस्त्रयश्चोपदंशा: स्तनरोगा विदारिका ॥१४॥
सु(शु)षिरो गलशालूकं कण्टका: कृमिदन्तक: ॥
देन्तवेष्ट: सोपकुश: शीतादो दन्तपुप्पट: ॥१५॥
पित्तासृक्कफजाश्चौष्ठ्या: क्षुद्ररोगाश्च भूयश: ॥
सीव्या मेद:समुत्थाश्च भिन्ना: सुलिखिता गदा: ॥१६॥
सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिता: ॥
न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिन: ॥१७॥
नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम् ॥
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् ॥१८॥
अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम् ॥
रुजश्च विविधा: कुर्युस्तस्मादेतान् विशोधयेत् ॥१९॥
ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम् ॥
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा ॥२०॥
शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुन: ॥
मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनै: ॥२१॥
सीव्येद्नोफणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम् ॥
ऋजुग्रन्थिमथो वाऽपि यथायोगमथापि वा ॥२२॥
देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङ्गुलद्वयम् ॥
आयता त्र्यङ्गुला त्र्यस्रा मांसले चाऽपि पूजिता ॥२३॥
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि ॥
इत्येतास्त्रिविधा: सूचीस्तीक्ष्णाग्रा: सुसमाहिता: ॥२४॥
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डला: ॥
नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् ॥२५॥
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम् ॥२६॥
अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् ॥
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णै: समन्तत: ॥२७॥
शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुन: ॥
ततो व्रणं यथायोगं बद्ध्वाऽऽचारिकमादिशेत् ॥२८॥
एतदष्टविधं कर्म समासेन प्रकीर्तितम् ॥
चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते ॥२९॥
हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मन: ॥
एताश्चतस्रोऽष्टविधे कर्मणि व्यापद: स्मृता: ॥३०॥
अज्ञानलोभाहितवाक्ययोगभयप्रमोहैरपरैश्च भावै: ॥
यदा प्रयुञ्जीत भिषक् कुशस्त्रं
तदा स शेषान् कुरुते विकारान् ॥३१॥
तं क्षारशस्त्राग्निभिरौषधैश्च
भूयोऽभियुञ्जानमयुक्तियुक्तम् ॥
जिजीविषुर्दूरत एव वैद्यं
विवर्जयेदुग्रविषाहितुल्यम् ॥३२॥
तदेव युक्तं त्वति मर्मसन्धीन्
हिंस्यात् सिरा: स्नायुमथास्थि चैव ॥
मूर्खप्रयुक्तं पुरुषं क्षणेन
प्राणैर्वियुञ्ज्यादथवा कदाचित् ॥३३॥
भ्रम: प्रलाप: पतनं प्रमोहो
विचेष्टनं संलयनोष्णते च ॥
स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ता: ॥३४॥
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव ॥
दशार्धसंख्येष्वपि विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ॥३५॥
सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायु: ।
करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ॥३६॥
कौब्ज्यं शरीरावयवावसाद: क्रियास्वशक्तिस्तुमुला रुजश्च ॥
चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ॥३७॥
शोफातिवृद्धिस्तुमुला रुजश्च बलक्षय: पर्वसु भेदशोफौ ॥
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ॥३८॥
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति ॥
तृष्णाऽङ्गसादौ श्वयथुश्च रुक् च तमस्थिविद्धं मनुजं व्यवस्येत् ॥३९॥
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु ॥
स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडित: स्यात् ॥४०॥
आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन् ॥
तमात्मवानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समान: ॥४१॥
तिर्यक्प्रणिहिते शस्त्रे दोषा: पूर्वमुदाहृता: ॥
तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ॥४२॥
मातरं पितरं पुत्रान् बान्धवानपि चातुर: ॥
अप्येतानभिश्ङ्केत वैद्ये विश्वासमेति च ॥४३॥
विसृजत्यात्मनाऽऽत्मानं न चैनं परिशङ्कते ॥
तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ॥४४॥
धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम् ॥
प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ॥४५॥
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित् त्रिभिस्तथा ॥
विकार: साध्यते कश्चिच्चतुर्भिरपि कर्मभि: ॥४६॥
इति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्रकर्मीयो नाम पञ्चविंशोऽध्याय: ॥२५॥
Last updated on May 24th, 2021 at 06:47 am