Skip to content

25. Yajjahpurusheeya – Sootra – C”

चरकसंहिता

सूत्रस्थानम्‌।

पञ्चविंशोऽध्याय: ।

       अथातो यज्ज:पुरुषीयमध्यायं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम्‌।

       समेतानां महर्षीणां प्रादुरासीदियं कथा ॥३॥

       आत्मेन्द्रियमनोर्थानां योऽयं पुरुषसंज्ञक: ।

       राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये ॥४॥

       तदन्तरं काशिपतिर्वामको वाक्यमर्थवित्‌।

       व्याजहारर्षिसमितिमुपसृत्याभिवाद्य च ॥५॥

       किन्नु भो: पुरुषो यज्जस्तज्जास्तस्यामया: स्मृता:।

       न वेत्युक्ते नरेन्द्रेण प्रोवाचर्षीन्‌ पुनर्वसु:॥६॥

       सर्व एवामितज्ञानविज्ञानच्छिन्नसंशया:।

       भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम्‌॥७॥

       पारीक्षिस्तत्परीक्ष्याग्रे मौद्गल्यो वाक्यमब्रवीत्‌।

       आत्मज: पुरुषो रोगाश्चात्मजा: कारणं हि स: ॥८॥

       स चिनोत्युपभुङ्क्ते च कर्म कर्मफलानि च।

       नह्यृते चेतनाधातो: प्रवृत्ति: सुखदु:खयो: ॥९॥

       शरलोमा तु नेत्याह न ह्यात्माऽऽत्मानमात्मना।

       योजयेद्व्याधिभिर्दु:खैर्दु:खद्वेषी कदाचन ॥१०॥

       रजस्तमोभ्यां तु मन: परीतं सत्त्वसंज्ञकम्‌।

       शरीरस्य समुत्पत्तौ विकाराणां च कारणम्‌॥११॥

       वार्योविदस्तु नेत्याह न ह्येकं कारणं मन:।

       नर्ते शरीराच्छारीररोगा न मनस: स्थिति: ॥१२॥

       रसजानि तु भूतानि व्याधयश्च पृथग्विधा:।

       आपो हि रसवत्यस्ता: स्मृता निर्वृत्तिहेतव: ॥१३॥

       हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसज: स्मृत:।

       नातीन्द्रियं मन: सन्ति रोगा: शब्दादिजास्तथा ॥१४॥

       षट्धातुजस्तु पुरुषो रोगा: षट्‌धातुजास्तथा।

       राशि: षड्‌धातुजो ह्येष सांख्यैराद्यै: प्रकीर्तित: ॥१५॥

       तथा ब्रुवाणं कुशिकमाह तन्नेति कौशिक:।

       कस्मान्मातापितृभ्यां हि विना षड्‌धातुजो भवेत्‌ ॥१६॥

       पुरुष: पुरुषाद्गौर्गोरश्वादश्व: प्रजायते।

       पित्र्या मेहादयश्चोक्ता रोगास्तावत्र कारणम्‌॥१७॥

       भद्रकाप्यस्तु नेत्याह नह्यन्धोऽन्धात्‌ प्रजायते।

       मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते ॥१८॥

       कर्मजस्तु मतो जन्तु: कर्मजास्तस्य चामया: ।

       नह्यृते कर्मणो जन्म रोगाणां पुरुषस्य वा ॥१९॥

       भरद्वाजस्तु नेत्याह कर्ता पूर्वं हि कर्मण:।

       दृष्टं न चाकृतं कर्म यस्य स्यात्‌ पुरुष: फलम्‌॥२०॥

       भावहेतु: स्वभावस्तु व्याधीनां पुरुषस्य च।

       खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि ॥२१॥

       काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत्‌।

       भवेत्‌ स्वभावाद्भावानामसिद्धि: सिद्धिरेव वा॥२२॥

       स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापति:।

       चेतनाचेतनस्यास्य जगत: सुखदु:खयो: ॥२३॥

       तन्नेति भिक्षुरात्रेयो न ह्यपत्यं प्रजापति:।

       प्रजाहितैषी सततं दु:खैर्युञ्ज्यादसाधुवत्‌॥२४॥

       कालजस्त्वेव पुरुष: कालजास्तस्य चामया:।

       जगत्‌ कालवशं सर्वं काल: सर्वत्र कारणम्‌॥२५॥

       तथर्षीणां विवदतामुवाचेदं पुनर्वसु:।

       मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात्‌॥२६॥

       वादान्‌ सप्रतिवादान्‌ हि वदन्तो निश्चितानिव।

       पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ॥२७॥

       मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम्‌।

       नाविधूते तम:स्कन्धे ज्ञेये ज्ञानं प्रवर्तते॥२८॥

       येषामेव हि भावानां संपत्‌ संजनयेन्नरम्‌।

       तेषामेव विपद्‌ व्याधीन्विविधान्समुदीरयेत्‌॥२९॥

       अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामक: काशिपतिरुवाच भगवन्तमात्रेयं–भगवन्‌ ! संपन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानां च रोगाणां किमभिवृद्धिकारणमिति॥३०॥

       तमुवाच भगवानात्रेय: — हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोग: पुनर्व्याधिनिमित्तमिति॥३१॥

       एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच– कथमिह भगवन्‌ ! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे; हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषु विपरीतकारित्वमुपलभामह इति ॥३२॥

       तमुवाच भगवानात्रेय: — यदाहारजातमग्निवेश ! समांश्चैव शरीरधातून्‌ प्रकृतौ स्थापयति विषमांश्चसमीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति॥३३॥

       एवंवादिनं च भगन्तमात्रेयमग्निवेश उवाच–भगवन्‌! न त्वेतदेवमुपदिष्टं भूयिष्ठकल्पा: सर्वभिषजो विज्ञास्यन्ति ॥३४॥

       तमुवाच भगवानात्रेय: – येषां हि विदितमाहारतत्त्वमग्निवेश! गुणतो द्रव्यत: कर्मत: सर्वावयवशश्च मात्रादयो भावा:, त एतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते। यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पा: सर्वभिषजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादीन्‌ भावाननुदाहरन्त:; तेषां हि बहुविधविकल्पा भवन्ति। आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्याम: ॥३५॥

       तद्यथा– आहारत्वमाहारस्यैकविधमर्थाभेदात्‌; स पुनर्द्वियोनि:, स्थावरजङ्गमात्मकत्वात्‌; द्विविधप्रभाव:, हिताहितोदर्कविशेषात्‌; चतुर्विधोपयोग:, पानाशनभक्ष्यलेह्योपयोगात्‌, षडास्वाद:, रसभेदत: षड्‌विधत्वात्‌; विंशतिगुण:, गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्‌; अपरिसंख्येयविकल्प:, द्रव्यसंयोगकरणबाहुल्यात्‌ ॥३६॥

       तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते, भूयिष्ठकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चाहिततमाश्च, तांस्तान्‌ यथावदुपदेक्ष्याम: ॥३७॥

       तद्यथा–लोहितशालय: शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति, मुद्गा: शमीधान्यानाम्‌, आन्तरिक्षमुदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्‌, ऐणेयं मृगमांसानां, लाव: पक्षिणां, गोधा बिलेशयानां, रोहितो मत्स्यानां, गव्यं सर्पि: सर्पिषां गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां, चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेद: शाखादमेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्‌, इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति॥३८॥

       अहिततमानप्युपदेक्ष्याम:– यवका: शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा भवन्ति, माषा: शमीधान्यानां, वर्षानादेयमुदकानाम्‌, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोत: पक्षिणां, भेको बिलेशयानां, चिलिचिमो मत्स्यानाम्‌, अविकं सर्पि: सर्पिषाम्‌, अविक्षीरं क्षीराणां, कुसुम्भस्नेह: स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशकुनिवसानां, हस्तिमेद: शाखादमेदसां, निकुचं फलानाम्‌, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्‌, इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यात आहारविकाराणाम्‌॥३९॥

       अतो भूय: कर्मौषधानां च प्राधान्यत: सानुबन्धानि द्रव्याण्यनुव्याख्यास्याम:। तद्यथा–अन्नं वृत्तिकराणां श्रेष्ठम्‌, उदकमाश्वासकराणां (सुरा श्रमहराणां), क्षीरं जीवनीयानां, मांसं बृंहणीयानां, रसस्तर्पणीयानां, लवणमन्नद्रव्यरुचिकराणाम्‌, अम्लं हृद्यानां, कुक्कुटो बल्यानां, नक्ररेतो वृष्याणां, मधु श्लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, तैलं वात श्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां, बस्तिर्वातहराणां स्वेदो मार्दवकराणां, व्यायाम: स्थैर्यकराणां, क्षार: पुंस्त्वोपघातिनां, (तिन्दुकमनन्नद्रव्यरुचिकराणाम्‌,) आमं कपित्थमकण्ठ्यानाम्‌, आविकं सर्पिरहृद्यानाम्‌, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसांग्राहिकरक्तपित्तप्रशमनानाम्‌, अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानाम्‌, उद्दालकान्नं विरूक्षणीयानाम्‌, इक्षुर्मूत्रजननानां, यवा: पुरीषजननानां, जाम्बवं वातजननानां, शुष्कल्य: श्लेष्मपित्तजननानां, कुलत्था अम्लपित्तजननानां, माषा: श्लेष्मपित्तजननानां, मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत्‌ सुखविरेचनानां, चतुरङ्गुलो मृदुविरेचनानां, स्नुक्पयस्तीक्ष्णविरेचननां, प्रत्यक्पुष्पा शिरोविरेचनानां, विडङ्गं क्रिमिघ्नानां, शिरीषो विषघ्नानां, खदिर: कुष्ठघ्नानां, रास्ना वातहराणाम्‌, आमलकं वय:स्थापनानां, हरीतकी पथ्यानाम्‌, एरण्डमूलं वृष्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्श:शूलहराणां, पुष्करमूलं हिक्काश्वासकासपार्श्वशूलहराणां, मुस्तं सांग्राहिकदीपनीयपाचनीयानाम्‌, उदीच्यं निर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां, कट्वङ्गं सांग्राहिकपाचनीयदीपनीयानाम्‌, अनन्ता सांग्राहिकरक्तपित्तप्रशमनानाम्‌, अमृता सांग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वं सांग्राहिकदीपनीयवातकफप्रशमनानाम्‌, अतिविषा दीपनीयपाचनीयसांग्राहिकसर्वदोषहराणाम्‌, उत्पलकुमुदपद्मकिञ्जल्क: सांग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गु: शोणित पित्तातियोगप्रशमनानां, कुटजत्वक्‌ श्लेष्मपित्तरक्तसांग्राहिकोपशोषणानां, काश्मर्यफलं रक्तसांग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी सांग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बला सांग्राहिकबल्यवातहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्‌, अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां, यावशूक: स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासो ग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासो रसायनानां, समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणां, तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां, रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां, वायु: प्राणसंज्ञाप्रदानहेतूनाम्‌, अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितमुदकं तृष्णाच्छर्द्यतियोगप्रशमनानाम्‌, अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां, वेगसन्धारणमनारोग्यकराणां, मद्यं सौमनस्यजननानां, मद्याक्षेपोधीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाककराणाम्‌, एकाशनभोजनं सुखपरिणामकराणां, स्त्रीष्वतिप्रसङ्ग: शोषकराणां, शुक्रवेगनिग्रह: षाण्ड्यकराणां, पराघातनमन्नाश्रद्धाजननानाम्‌, अनशनमायुषो ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्‌, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां, प्रशम: पथ्यानां, आयास: सर्वापथ्यानां, मिथ्यायोगो व्याधिकराणां, रजस्वलाभिगमनमलक्ष्मीमुखानां, ब्रह्मचर्यमायुष्याणां, परदाराभिगमनमनायुष्याणां, सङ्कल्पो वृष्याणां, दौर्मनस्यमवृष्याणाम्‌, अयथाबलमारम्भ: प्राणोपरोधिनां, विषादो रोगवर्धनानां, स्नानं श्रमहराणां, हर्ष: प्रीणनानां, शोक: शोषणानां, निवृत्ति: पुष्टिकराणां, पुष्टि: स्वप्नकराणाम्‌, अतिस्वप्नस्तन्द्राकराणां, सर्वरसाभ्यासो बलकराणाम्‌, एकरसाभ्यासो दौर्बल्यकराणां, गर्भशल्यमाहार्याणाम्‌, अजीर्णमुद्धार्याणां, बालो मृदुभेषजीयानां, वृद्धो याप्यानां, गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानां, सौमनस्यं गर्भधारणानां, सन्निपातो दुश्चिकित्स्यानाम्‌, आमो विषमचिकित्स्यानां, ज्वरो रोगाणां, कुष्ठं दीर्घरोगाणां, राजयक्ष्मा रोगसमूहानां, प्रमेहोऽनुषङ्गिणां, जलौकसोऽनुशस्त्राणां, बस्तिस्तन्त्राणां, हिमवानौषधिभूमीनां, सोम ओषधीनां, मरुभूमिरारोग्यदेशानाम्‌, अनूपोऽहितदेशानाम्‌, निर्देशकारित्वमातुरगुणानां, भिषक्‌ चिकित्साङ्गानां, नास्तिको वर्ज्यानां, लौल्यं क्लेशकराणाम्‌, अनिर्देशकारित्वमरिष्टानां, अनिर्वेदो वार्तलक्षणानां, वैद्यसमूहो नि:संशयकराणां, योगो वैद्यगुणानां, विज्ञानमौषधीनां, शास्त्रसहितस्तर्क: साधनानां, संप्रतिपत्ति: कालज्ञानप्रयोजनानाम्‌, अव्यवसाय: कालातिपत्तिहेतूनां, दृष्टकर्मता नि:संशयकराणाम्‌, असमर्थता भयकराणां, तद्विद्यसंभाषा बुद्धिवर्धनानाम्‌, आचार्य: शास्त्राधिगमहेतूनाम्‌, आयुर्वेदोऽमृतानां सद्वचनमनुष्ठेयानाम्‌ असद्‌ग्रहणं सर्वाहितानां, सर्वसंन्यास: सुखानामिति॥४०॥

       भवन्ति चात्र–

       अग्र्याणां शतमुद्दिष्टं यद्द्विपञ्चाशदुत्तरम्‌।

       अलमेतद्विकाराणां विघातायोपदिश्यते ॥४१॥

       समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्‌ ।

       ज्यायस्त्वं कार्यकर्तृत्वे वरत्वं चाप्युदाहृतम्‌॥४२॥

       वातपित्तकफानां च यद्यत्‌ प्रशमने हितम्‌।

       प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्‌॥४३।

       एतन्निशम्य निपुणं चिकित्सां संप्रयोजयेत्‌।

       एवं कुर्वन्‌ सदा वैद्यो धर्मकामौ समश्नुते ॥४४॥

       पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनस: प्रियम्‌।

       यच्चाप्रियमपथ्यं च नियतं तन्न लक्षयेत्‌॥४५॥

       मात्राकालक्रियाभूमिदेहदोषगुणान्तरम्‌।

       प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथा तथा॥४६॥

       तस्मात्‌ स्वभावो निर्दिष्टस्तथा मात्रादिराश्रय:।

       तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता॥४७॥

       तदात्रेयस्य भगवतो वचनमनुनिशम्य पुनरपि भगवन्तमात्रेयमग्निवेश उवाच–यथोद्देशमभिनिर्दिष्ट: केवलोऽयमर्थो भगवता श्रुतश्चास्माभि:। आसवद्रव्याणामिदानीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति॥४८॥

तमुवाच भगवानात्रेय:–धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश ! संग्रहेणाष्टौ शर्करानवमीका:।

तास्वेव द्रव्यसंयोगकरणतोऽपरिसंख्येयासु यथापथ्यतमानामासवानां चतुरशीतिं निबोध। तद्यथा- सुरासौवीरतुषोदकमैरेयमेदक- धान्याम्ला: षड्‌ धान्यासवा भवन्ति, मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डिका- जाम्बवकपित्थकुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशङ्खिनीफलासवा: षड्विंशतिर्भवन्ति,  विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमूलैरेकादश मूलासवा भवन्ति, शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमीशुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकै: सारासवा विंशतिर्भवन्ति, पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति, इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्था: काण्डासवा भवन्ति, पटोलताडकपत्रासवौ द्वौ भवत:, तिल्वकलोध्रैलवालुकक्रमुक- चतुर्थास्त्वगासवा भवन्ति, शर्करासव एक ऐवेति। एवमेषामासवानां चतुरशीति: परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति।

एषामासवानामासुतत्वादासवसंज्ञा। द्रव्यसंयोगविभागविस्तारस्त्वेषां बहुविधकल्प: संस्कारश्च । यथास्वं संयोगसंस्कार- संस्कृता ह्यासवा: स्वं कर्म कुर्वन्ति। संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति॥४९॥

       भवति चात्र–

       मन:शरीराग्निबलप्रदानामस्वप्नशोकारुचिनाशनानाम्‌।

       संहर्षणानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा॥५०॥

       तत्र श्लोक:–

       शरीररोगप्रकृतौ मतानि

       तत्त्वेन चाहारविनिश्चयं च।

       उवाच यज्ज:पुरुषादिकेऽस्मिन्‌

       मुनिस्तथाऽग्र्याणि वरासवांश्च॥५१॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने अन्नपानचतुष्के यज्ज:पुरुषीयो नाम पञ्चविंशतितमोऽध्याय:॥२५॥

Last updated on June 24th, 2021 at 11:06 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English