Skip to content

10. पित्ताभिष्यन्दप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता: ।

उत्तरतन्त्रम्‌ ।

दशमोऽध्यायः ।

अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम् |

अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ||३||

गुन्द्रां शालिं शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम् |

पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ||४||

द्राक्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा |

सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ||५||

योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसङ्ख्येऽपि नित्यम् |

क्रियाः सर्वा पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ||६||

पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्रयुक्तम् |

रसक्रियां शर्कराक्षौद्रयुक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ||७||

मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्रसश्च |

तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ||८||

चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम् |

योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रोपेतं कैंशुकं चापि पुष्पम् ||९||

रोध्रं द्राक्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च |

पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च ||१०||

कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः |

योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्राक्षां शर्करामुत्पलं च ||११||

क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम् |

तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव ||१२||

एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः ||१३||

सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम् |

दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्रव्यैरञ्जनं कार्यमाशु ||१४||

वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम् |

चूर्णं सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्तिं हन्यादञ्जनं चैतदाशु ||१५||

युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्रक्तपित्ते विधानम् |

यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् ||१६||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः ||१०||

Last updated on July 8th, 2021 at 11:39 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English