Skip to content

38. योनिव्यापत्प्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

अष्टत्रिंशत्तमोऽध्यायः ।

अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

प्रवृद्धलिङ्गं पुरुषं याऽत्यर्थमुपसेवते |
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ||३||

स दुष्टो योनिमासाद्य योनिरोगाय कल्पते |
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ||४||

विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसङ्ग्रहे |
मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च ||५||

जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् |
उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता ||६||

वातला चेति वातोत्थाः, पित्तोत्था रुधिरक्षरा |
वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ||७||

अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम् |
श्लेष्मला च कफाज्ज्ञेया, षण्डाख्या फलिनी तथा ||८||

महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा |
सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ||९||

वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम् |
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् ||१०||

वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता |
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ||११||

सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा |
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् ||१२||

प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या |
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् ||१३||

अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता |
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ||१४||

अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति |
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यं प्रजायते ||१५||

मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते |
बहुशश्चातिचरणादन्या बीजं न विन्दति ||१६||

श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला |
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् ||१७||

अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने |
अतिकायगृहीतायास्तरुण्याः फलिनी भवेत् ||१८||

विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता |
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ||१९||

चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत् |
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः ||२०||

प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते |
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् ||२१||

कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने |
कुम्भीस्वेदैरुपचरेत् सानूपौदकसंयुतैः ||२२||

मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु |
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रितः ||२३||

धावनानि च पथ्यानि कुर्वीतापूरणानि च |
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् ||२४||

दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः |
पूरयेद्राजवृक्षादिकषायैश्चापि धावनम् ||२५||

योन्यां तु पूयस्राविण्यां शोधनद्रव्यसम्भृतैः |
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते ||२६||

बृहतीफलकल्कस्य द्विहरिद्रायुतस्य च |
कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा ||२७||

वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसम्भृताम् |
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् ||२८||

पिधाय वेशवारेण ततो बन्धं समाचरेत् |
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् ||२९||

प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम् |
क्षीरमांसरसप्रायमाहारं विदधीत च ||३०||

शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः |
क्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च ||३१||

गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता |
सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान् |
अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक् ||३२||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम(द्वादशोऽध्यायः, आदितोऽ)ष्टत्रिंशत्तमोऽध्यायः ||३८||

उत्तरतन्त्रे द्वितीयं कौमारतन्त्रं समाप्तम् ||२||

Last updated on July 8th, 2021 at 12:01 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English