Skip to content

36. नैगमेषप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षट्त्रिंशत्तमोऽध्याय: ।

अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने |
सुरा सबीजं धान्याम्लं परिषेके च शस्यते ||३||

प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः |
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ||४||

पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च |
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ||५||

वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत् |
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ||६||

सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह |
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ||७||

मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे |
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ||८||

तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि |
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ||९||

अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते |
बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् ||१०||

अजाननश्चलाक्षिभ्रः कामरूपी महायशाः |
बालं बालपिता देवो नैगमेषोऽभिरक्षतु ||११||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम(दशमोऽध्यायः, आदितः) षट्त्रिंशोऽध्यायः ||३६||

Last updated on July 8th, 2021 at 11:59 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English