Skip to content

09. Yogyaasootreeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

नवमोऽध्याय: ।

अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत् |

स्नेहादिषु छेद्यादिषु च कर्मपथमुपदिशेत् |

सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्वयोग्यो भवति ||३||

तत्र, पुष्पफलालाबूकालिन्दकत्रपुसै(सो)र्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत्, उत्कर्तनापकर्तनानि चोपदिशेत्; दृतिबस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां; सरोम्णि चर्मण्यातते लेख्यस्य; मृतपशुसिरासूत्पलनालेषु च वेध्यस्य; घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य; पनसबिम्बीबिल्वफलमज्जमृतपशुदन्तेष्वाहार्यस्य; मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य; सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य; पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां; मृदुषु मांसखण्डेष्वग्निक्षारयोग्यां; मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम्; उदकपूर्णघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानबस्तिव्रणबस्तिपीडनयोग्यामिति ||४||

भवतश्चात्र-

एवमादिषु मेधावी योग्यार्हेषु यथाविधि |

द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ||५||

तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु |

यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ||६||

इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ||९||

Last updated on May 24th, 2021 at 06:03 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English