Skip to content

29. Das`hapraan`aayataneeya – Sootra – C”

चरकसंहिता

सूत्रस्थानम्‌ ।

ऊनत्रिंशोऽध्याय: ।

       अथातो दशप्राणायतनीयमध्यायं व्याख्यास्याम: ॥१॥  

       इति ह स्माह भगवानात्रेय: ॥२॥

       दशैवायतनान्याहु: प्राणा येषु प्रतिष्ठिता: ।

       शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्‌ ॥३॥

       तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान्‌ ।

       जानीते य: स वै विद्वान्‌ प्राणाभिसर उच्यते ॥४॥

       द्विविधास्तु खलु भिषजो भवन्त्यग्निवेश ! प्राणानामेकेऽभिसरा हन्तारो रोगाणां, रोगाणामेकेऽभिसरा हन्तार: प्राणानामिति ॥५॥

       एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच–भगवंस्ते कथमस्माभिर्वेदितव्या भवेयुरिति ॥६॥

       भगवानुवाच–य इमे कुलीना: पर्यवदातश्रुता: परिदृष्टकर्माणो दक्षा: शुचयो जितहस्ता जितात्मान: सर्वोपकरणवन्त:  सर्वेन्द्रियोपपन्ना: प्रकृतिज्ञा: प्रतिपत्तिज्ञाश्च ते ज्ञेया: प्राणानामभिसरा हन्तारो रोगाणां; तथाविधा हि केवले शरीरज्ञाने शरीराभिनिर्वृत्तिज्ञाने प्रकृतिविकारज्ञाने च नि:संशया:, सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसंदेहा:, त्रिविधस्यायुर्वेदसूत्रस्य ससंग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्तार:, पञ्चत्रिंशतो मूलफलानां चतुर्णां च स्नेहानां पञ्चानां च लवणानामष्टानां च मूत्राणामष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च षण्णां शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशताश्चूर्णप्रदेहानां षण्णां च विरेचनशतानां पञ्चानां च कषायशतानां प्रयोक्तार:, स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्‌क्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जन- परिमार्जनवेगाविधारणविधारणव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकुशला:, चतुष्पादोपगृहीते च धूमनावनाभ्यञ्जन भेषजे षोडशकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहा:, चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयस्योपकल्पनीयस्य चतु:षष्टिपर्यन्तस्य च व्यवस्थापयितार:, बहुविधविधानयुक्तानां च स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां च कुशला:, शिरोरोगादेर्दोषांशविकल्पजस्य च व्याधिसंग्रहस्य सक्षयपिडकाविद्रधेस्त्रयाणां च शोफानां बहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य च नानात्मजस्य व्याधिशतस्य तथा विगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य च सहेतूपक्रमस्य षण्णां च लङ्घनादीनामुपक्रमाणां संतर्पणापतर्पणजानां च रोगाणां सरूपप्रशमनानां शोणितजानां च व्याधीनां मदमूर्च्छायसंन्यासानां च सकारणरूपौषधोपचाराणां कुशला:, कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्या हिताहितानामाहारविकाराणामग्र्यसंग्रहस्यासवानां च चतुरशीतेर्द्रव्यगुणकर्मविनिश्चयस्य रसानुरससंश्रयस्य सविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य सगुणप्रभावस्य सानुपानगुणस्य नवविधस्यार्थसंग्रहस्याहारगतेश्च हिताहितोपयोग विशेषात्मकस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रोगाणां सौषधसंग्रहाणां दशानां च प्राणायतनानां यं च वक्ष्याम्यर्थेदशमहामूलीये त्रिंशत्तमाध्याये तत्र च कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशला:, कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मन: शीलगुणैरविसंवादनेन च संपादनेन सर्वप्राणिषु चेतसो मैत्रस्य मातापितृभ्रातृबन्धुवत्‌, एवंयुक्ता भवन्त्यग्निवेश ! प्राणानामभिसरा हन्तारो रोगाणामिति ॥७॥

       अतो विपरीता रोगाणामभिसरा हन्तार: प्राणानां, भिषक्‌छद्मप्रतिच्छन्ना: कण्टकभूता लोकस्य प्रतिरूपकसधर्माणो राज्ञां प्रमादाच्चरन्ति राष्ट्राणि ॥८॥

       तेषामिदं विशेषविज्ञानं भवति–अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति कर्मलोभात्‌, श्रुत्वा च कस्यचिदातुर्यभित: परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, यश्चास्य वैद्य: प्रतिकर्म करोति तस्य च दोषान्मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि च प्रहर्षणोपजापोपसेवादिभिरिच्छन्त्यात्मीकर्तुं, स्वल्पेच्छुतां चात्मन: ख्यापयन्ति, कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति दाक्ष्येणाज्ञानमात्मन: प्रच्छादयितुकामा: व्याधिं चापावर्तयितुमशक्नुवतो व्याधितमेवानुपकरणमपरिचारकमनात्मवन्तमुपदिशन्ति, अन्तगतं चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मन: कृत्वा, प्राकृतजनसन्निपाते चात्मन: कौशलम- कुशलवद्वर्णयन्ति, अधीरवच्च धैर्यमपवदन्ति धीराणां, विद्वज्जनसन्निपातं (चाभिसमीक्ष्य) प्रतिभयमिव कान्तारमध्वगा: परिहरन्ति दूरात्‌, यश्चैषां कश्चित्‌ सूत्रावयवो भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिव चानुयोगादुद्विजन्ते, न चैषामाचार्य: शिष्य: सब्रह्मचारी वैवादिको वा कश्चित्‌ प्रज्ञायत इति ॥९॥

       भवन्ति चात्र–         

       भिषक्छद्म प्रविश्यैवं व्याधितांस्तर्कयन्ति ये ।

       वीतंसमिव संश्रित्य वने शाकुन्तिका द्विजान्‌ ॥१०॥

       श्रुतदृष्टक्रियाकालमात्राज्ञानबहिष्कृता: ।

       वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि ॥११॥

       वृत्तिहेतोर्भिषङ्‌मानपूर्णान्‌ मूर्खविशारदान्‌ ।

       वर्जयेदातुरो विद्वान्‌ सर्पास्ते पीतमारुता: ॥१२॥

       ये तु शस्त्रविदो दक्षा: शुचय: कर्मकोविदा: ।

       जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नम: ॥१३॥

       तत्र श्लोक:–

       दशप्राणायतनिके श्लोकस्थानार्थसंग्रह:।

       द्विविधा भिषजश्चोक्ता: प्राणस्यायतनानि च ॥१४॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने दशप्राणायतनीयो नामैकोनत्रिंशोऽध्याय: ॥२९॥

Last updated on June 3rd, 2021 at 07:55 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English