Skip to content

21. शूकरोगचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

एकविंशतितमोऽध्याय: ।

अथातः शूकदोषचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत् |

कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ||३||

अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः |

तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ||४||

स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् |

सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ||५||

कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत् |

तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु ||६||

ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः |

कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ||७||

बलातैलेन कोष्णेन मृदितं परिषेचयेत् |

मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ||८||

सम्मूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत् |

भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा ||९||

अवमन्थे गते पाकं भिन्ने तैलं विधीयते |

धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम् ||१०||

क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत् |

जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ||११||

स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि |

क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः ||१२||

पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक् |

उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत् ||१३||

रसक्रिया विधातव्या लिखिते शतपोनके |

पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् ||१४||

क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत् |

रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ||१५||

कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम् |

शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् ||१६||

हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् |

हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् ||१७||

अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् |

प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् ||१८||

इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशोऽध्यायः ||२१||

Last updated on July 8th, 2021 at 09:28 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English