Skip to content

29. स्वभावव्याधिप्रतिषेधनीयरसायनम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

एकोनत्रिंशत्तमोऽध्यायः ।

अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

ब्रह्मादयोऽसृजन् पूर्वममृतं सोमसञ्ज्ञितम् |

जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ||३||

एक एव खलु भगवान् सोमः स्थाननामाकृतिवीर्यविशेषैश्चतुर्विंशतिधा भिद्यते ||४||

तद्यथा-

अंशुमान् मुञ्जवांश्चैव चन्द्रमा रजतप्रभः |

दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ||५||

प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि |

स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ||६||

गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा |

अग्निष्टोमो रैवतश्च यथोक्त इति सञ्ज्ञितः ||७||

गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते |

एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ||८||

सर्वेषामेव चैतेषामेको विधिरुपासने |

सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ||९||

अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशस्ते देशे त्रिवृतमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृह्णीयात् सौवर्णे (राजते वा) पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नाखादयन्, तत उपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् ||१०||

रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः |

आसीत तिष्ठेत् क्रामेच्च न कथञ्चन संविशेत् ||११||

सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत, तृषितो वा शीतोदकमात्रां पिबेत् (अशनायितो वा क्षारं); ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत, तस्य जीर्णे सोमे छर्दिरुत्पद्यते, ततः शोणिताक्तं कृमिव्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत्; ततस्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्यते, स तेनानिष्टप्रतिग्रहभुक्तप्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति, ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत्; ततश्चतुर्थेऽहनि तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तदहश्च शय्यायां पांशुभिरवकीर्यमाणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेत्; एवं पञ्चमषष्ठयोर्दिवसयोर्वर्तेत, केवलमुभयकालमस्मै क्षीरं वितरेत्; ततः सप्तमेऽहनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति, तदहश्च क्षीरेण सुखोष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं पयः पाययेत्; ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तं चन्दनप्रदिग्धगात्रं पयः पाययित्वा पांशुशय्यां समुत्सृज्य क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, ततोऽस्य मांसमाप्याय्यते, त्वक् चावदलति, दन्तनखरोमाणि चास्य पतन्ति, तस्य नवमदिवसात् प्रभृत्यणुतैलाभ्यङ्गः सोमवल्ककषायपरिषेकः; ततो दशमेऽहन्येतदेव वितरेत्, ततोऽस्य त्वक् स्थिरतामुपैति; एवमेकादशद्वादशयोर्वर्तेत; ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः, एवमाषोडशाद्वर्तेत; ततः सप्तदशाष्टादशयोर्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवज्रवैदूर्यस्फटिकप्रकाशाः समाः स्थिराः सहिष्णवः, तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चर्विशतिरिति; ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा, ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, स्थिराः स्निग्धा लक्षणसम्पन्नाः केशाश्च सूक्ष्मा जायन्ते, त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा; ऊर्ध्वं च मासात् केशान् वापयेत्, वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत्; ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुञ्चिताः स्थिराः स्निग्धाः; ततस्त्रिरात्रात् प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्तं स्थित्वा पुनरेवान्तः प्रविशेत्, ततोऽस्य बलातैलमभ्यङ्गार्थेऽवचार्यं, यवपिष्टमुद्वर्तनार्थे, सुखोष्णं च पयः परिषेकार्थे, अजकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थे, चन्दनमनुलेपार्थे, आमलकरसविमिश्राश्चास्य यूषसूपविकल्पाः, क्षीरमधुकसिद्धं च कृष्णतिलमवचारणार्थे, एवं दशरात्रं; ततोऽन्यद्दशरात्रं द्वितीये परिसरे वर्तेत; ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानमन्यद्दशरात्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनश्चान्तः प्रविशेत्, न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात्; ततोऽन्यद्दशरात्रं क्रोधादीन् परिहरेत्, एवं सर्वेषामुपयोगविकल्पः |

विशेषतस्तु वल्लीप्रतानक्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भक्षयितव्याः |

तेषां तु प्रमाणमर्धचतुष्कमुष्टयः ||१२||

अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात्, चन्द्रमसं राजते; तावुपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति, शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते; शूद्रवर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः |

ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति ||१३||

ओषधीनां पतिं सोममुपयुज्य विचक्षणः |

दशवर्षसहस्राणि नवां धारयते तनुम् ||१४||

नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च |

तस्यालमायुःक्षपणे समर्थानि भवन्ति हि ||१५||

भद्राणां षष्टिवर्षाणां प्रस्रुतानामनेकधा |

कुञ्जराणां सहस्रस्य बलं समधिगच्छति ||१६||

क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि |

यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ||१७||

कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः |

प्रह्लादयति भूतानां मनांसि स महाद्युतिः ||१८||

साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः |

चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् ||१९||

सर्वेषामेव सोमानां पत्राणि दश पञ्च च |

तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ||२०||

एकैकं जायते पत्रं सोमस्याहरहस्तदा |

शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः ||२१||

शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः |

कृष्णपक्षक्षये चापि लता भवति केवला ||२२||

अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः |

कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः ||२३||

चन्द्रमाः कनकाभासो जले चरति सर्वदा |

गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ ||२४||

सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ |

तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते ||२५||

सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः |

क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः ||२६||

हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा |

श्रीपर्वते देवगिरौ गिरौ देवसहे तथा ||२७||

पारियात्रे च विन्ध्ये च देवसुन्दे हदे तथा |

उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ||२८||

पञ्च तेषामधो मध्ये सिन्धुनामा महानदः |

हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ||२९||

तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि |

काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ||३०||

गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा |

अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ||३१||

यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः |

न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः |

भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा ||३२||

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायनचिकित्सितं नामैकोनत्रिंशोऽध्यायः ||२९||

Last updated on July 8th, 2021 at 09:55 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English