अष्टाङ्गहृदयस्य (निदानस्थानम्)
विद्रधिवृद्धिगुल्मनिदानं
एकादशोऽध्यायः।
अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
भुक्तैः पर्युषितात्युष्णरूक्षशुष्कविदाहिभिः।
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः॥१॥
दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः।
यः शोफो बहिरन्तर्वा महामूलो महारुजः॥२॥
वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः।
दोषैः पृथक्समुदितैः शोणितेन क्षतेन च॥३॥
बाह्योऽत्र तत्रतत्राङ्गे दारुणो ग्रथितोन्नतः।
आन्तरो दारुणतरो गम्भीरो गुल्मवद्घनः॥४॥
वल्मीकवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्।
नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे॥५॥
स्याद्वृक्कयोरपाने च वातात्तत्रातितीव्ररुक्।
श्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः॥६॥
व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान्।
रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्॥७॥
क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात्।
सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः॥८॥
चिरोत्थानविपाकश्च सङ्कीर्णः सन्निपाततः।
सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम्॥९॥
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः।
पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथाऽऽन्तरः॥१०॥
शस्त्राद्यैरभिघातेन क्षते वाऽपथ्यकारिणः।
क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्॥११॥
पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम्।
तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः॥१२॥
नाभ्यां हिध्मा, भवेद्बस्तौ मूत्रं कृच्छ्रेण पूति च।
श्वासो यकृति, रोधस्तु प्लीह्न्युच्छ्वासस्य, तृट् पुनः॥१३॥
गलग्रहश्च क्लोम्नि, स्यात्सर्वाङ्गप्रग्रहो हृदि।
प्रमोहस्तमकः कासो हृदये घट्टनं व्यथा॥१४॥
कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च।
सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः॥१५॥
पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्।
आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्॥१६॥
नाभेरूर्ध्वं मुखात्पक्वाः प्रस्रवन्त्यधरे गुदात्।
गुदास्यान्नाभिजो विद्याद्दोषं क्लेदाच्च विद्रधौ॥१७॥
यथास्वं व्रणवत् तत्र विवर्ज्यः सन्निपातजः।
पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा॥१८॥
पक्वश्चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः।
एवमेव स्तनसिरा विवृताः प्राप्य योषिताम्॥१९॥
सूतानां गर्भिणीनां वा सम्भवेच्छ्वयथुर्घनः।
स्तने सदुग्धेऽदुग्धे वा बाह्यविद्रधिलक्षणः॥२०॥
नाडीनां सूक्ष्मवक्त्रत्वात्कन्यानां न स जायते।
इति विद्रधिनिदानम्।
अथ वृद्धिनिदानम्।
क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्।११॥
मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः।
प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः॥।२२॥
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः।
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्॥२३॥
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्।
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्॥२४॥
कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक्।
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः॥२५॥
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः।
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः॥२६॥
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः।
मूत्रकृच्छ्रमधस्ताच्च वलयं फलकोशयोः॥२७॥
वातकोपिभिराहारैः शीततोयावगाहनैः।
धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः॥२८॥
क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा।
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्॥२९॥
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा।
उपेक्ष्यमाणस्य च मुष्कवृद्धि-
माध्मानरुक्स्तम्भवतीं स वायुः।
प्रपीडितोऽन्तः स्वनवान् प्रयाति
प्रध्मापयन्नेति पुनश्च मुक्तः॥३०॥
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः॥३१॥
इति वृद्धिनिदानम्।
अथ गुल्मनिदानम्।
रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः।
गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः॥३२॥
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः।
ज्वरच्छर्द्यतिसाराद्यैर्वमनाद्यैश्च कर्मभिः॥३३॥
कर्शितो वातलान्यत्ति शीतं वाऽम्बु बुभुक्षितः।
यः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम्॥३४॥
सेवते देहसङ्क्षोभि छर्दिं वा समुदीरयेत्।
अनुदीर्णामुदीर्णान्वा वातादीन्न विमुञ्चति॥३५॥
स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते।
शुद्धो वाऽऽशु विदाहीनि भजते स्यन्दनानि वा॥३६॥
वातोल्बणास्तस्य मलाः पृथक् क्रुद्धा द्विशोऽथवा।
सर्वे वा रक्तयुक्ता वा महास्रोतोनुशायिनः॥३७॥
ऊर्ध्वाधोमार्गमावृत्य कुर्वते शूलपूर्वकम्।
स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम्॥३८॥
कर्शनात्कफविटि्पत्तैर्मार्गस्यावरणेन वा।
वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः॥३९॥
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये।
पिण्डितत्वादमूर्तोऽपि मूर्तत्वमिव संश्रितः॥४०॥
गुल्म इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः।
वातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम्॥४१॥
व्यधः सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुः।
स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता॥४२॥
रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्य च।
अनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः॥४३॥
पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते।
पित्ताद्दाहोऽम्लको मूर्छाविड्भेदस्वेदतृड्ज्वराः॥४४॥
हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः।
दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च॥४५॥
कफात्स्तैमित्यमरुचिः सदनं शिशिरज्वरः।
पीनसालस्यहृल्लासकासशुक्लत्वगादिताः॥४६॥
गुल्मोऽवगाढः कठिनो गुरुः सुप्तः स्थिरोऽल्परुक्।
स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः॥४७॥
प्रायः त्रयस्तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाः।
सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः॥४८॥
सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते।
ऋतौ वा नवसूता वा यदि वा योनिरोगिणी॥४९॥
सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणः।
निरुणद्ध्यार्तवं योन्यां प्रतिमासमवस्थितम्॥५०॥
कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च।
हृल्लासदौहृदस्तन्यदर्शनक्षामतादिकम्॥५१॥
क्रमेण वायुसंसर्गात्पित्तयोनितया च तत्।
शोणितं कुरुते तस्या वातपित्तोत्थगुल्मजान्॥५२॥
रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान्।
गर्भाशये च सुतरां शूलं दुष्टासृगाश्रये॥५३॥
योन्याश्च स्रावदौर्गन्ध्यतोदस्पन्दनवेदनाः।
न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान्॥५४॥
पिण्डीभूतः स एवास्याः कदाचित्स्पन्दते चिरात्।
न चास्या वर्द्धते कुक्षिर्गुल्म एव तु वर्द्धते॥५५॥
स्वदोषसंश्रयो गुल्मः सर्वो भवति तेन सः।
पाकं चिरेण भजते नैव वा, विद्रधिः पुनः॥५६॥
पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयत्वतः।
अतः शीघ्रविदाहित्वाद्विद्रधिः सोऽभिधीयते॥५७॥
गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाः।
अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्॥५८॥
अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्।
वैवर्ण्यमवकाशस्य बहिरुन्नतताऽधिकम्॥५९॥
इति गुल्मनिदानम्।
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्।
ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते॥६०॥
घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः।
आनाहलिङ्गस्तिर्यक्तु प्रत्यष्ठीला तदाकृतिः॥६१॥
पक्वाशयाद्गुदोपस्थं वायुस्तीव्ररुजः प्रयान्।
तूनी, प्रतूनी तु भवेत्स एवातो विपर्यये॥६२॥
उद्गारबाहुल्यपुरीषबन्ध-
तृप्त्यक्षमत्वान्त्रविकूजनानि।
आटोपमाध्मानमपक्तिशक्ति-
मासन्नगुल्मस्य वदन्ति चिह्नम्॥६३॥
इति श्री वैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने विद्रधिवृद्धिगुल्मनिदानं नामैकादशोऽध्यायः।११॥
Last updated on August 16th, 2021 at 11:03 am