Skip to content

03. भग्नचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

तृतीयोऽध्यायः ।

अथातो भग्नानां चिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च |

उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ||३||

लवणं कटुकं क्षारमम्लं मैथुनमातपम् |

व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ||४||

शालिर्मांसरसः क्षीरं सर्पिर्यूषः सतीनजः |

बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ||५||

मधूकोदुम्बराश्वत्थपलाशककुभत्वचः |

वंशसर्जवटानां च कुशार्थमुपसंहरेत् ||६||

आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम् |

शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत् ||७||

सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम् |

साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि ||८||

आग्नेयेषु त्र्यहात् कुर्याद्भग्नदोषवशेन वा |

तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते ||९||

गाढेनापि त्वगादीनां शोफो रुक् पाक एव च |

तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदः ||१०||

न्यग्रोधादिकषायं तु सुशीतं परिषेचने |

पञ्चमूलीविपक्वं तु क्षीरं कुर्यात् सवेदने ||११||

सुखोष्णमवचार्यं वा चक्रतैलं विजानता |

विभज्य कालं दोषं च दोषघ्नौषधसंयुतम् ||१२||

परिषेकं प्रदेहं च विदध्याच्छीतमेव च |

गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ||१३||

शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः |

सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः ||१४||

प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत् |

प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् ||१५||

अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके |

प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत् ||१६||

मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः |

अवनामितमुन्नह्येदुन्नतं चावपीडयेत् ||१७||

आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत् |

आञ्छ्नैः पीडनैश्चैव सङ्क्षेपैर्बन्धनैस्तथा ||१८||

सन्धीञ्छरीरे सर्वांस्तु चलानप्यचलानपि |

एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् ||१९||

उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत् |

तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् ||२०||

अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः |

घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधि ||२१||

पट्टोपरि कुशान् दत्त्वा यथावद्बन्धमाचरेत् |

प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते ||२२||

नखसन्धिं समुत्पिष्टं रक्तानुगतमारया |

अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् ||२३||

भग्नां वा सन्धिमुक्तां वा स्थापयित्वाऽङ्गुलीं समाम् |

अणुनाऽऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् ||२४||

अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरम् |

वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत् ||२५||

अभ्यज्यायामयेज्जङ्घामूरुं च सुसमाहितः |

दत्त्वा वृक्षत्वचः शीता वस्त्रपट्टेन वेष्टयेत् ||२६||

मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम् |

स्फुटितं पिच्चितं चापि बध्नीयात् पूर्ववद्भिषक् ||२७||

आञ्छेदूर्ध्वमधो वाऽपि कटिभग्नं तु मानवम् |

ततः स्थानस्थिते सन्धौ बस्तिभिः समुपाचरेत् ||२८||

पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः |

दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः ||२९||

ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः |

तैलपूर्णे कटाहे वा द्रोण्यां वा शाययेन्नरम् ||३०||

मुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते |

स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः ||३१||

कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत् |

अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम् ||३२||

प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च दापयेत् |

एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् ||३३||

उभे तले समे कृत्वा तलभग्नस्य देहिनः |

बध्नीयादामतैलेन परिषेकं च कारयेत् ||३४||

मृत्पिण्डं धारयेत् पूर्वं लवणं च ततः परम् |

हस्ते जातबले चापि कुर्यात् पाषाणधारणम् ||३५||

सन्नमुन्नमयेत् स्विन्नमक्षकं मुसलेन तु |

तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च ||३६||

ऊरुवच्चापि कर्तव्यं बाहुभग्नचिकित्सितम् |

ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा ||३७||

अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम् |

ततः कुशां समं दत्त्वा वस्त्रपट्टेन वेष्टयेत् ||३८||

उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रितः |

हन्वस्थिनी समानीय हनुसन्धौ विसंहते ||३९||

स्वेदयित्वा स्थिते सम्यक् पञ्चाङ्गीं वितरेद्भिषक् |

वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम् ||४०||

अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत् |

तरुणस्य मनुष्यस्य शीतैरालेपयेद्बहिः ||४१||

सिक्त्वाऽम्बुभिस्ततः शीतैः सन्धानीयैरुपाचरेत् |

उत्पलस्य च नालेन क्षीरपानं विधीयते ||४२||

जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान् |

नासां सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया ||४३||

पृथङ्गासिकयोर्नाड्यौ द्विमुख्यौ सम्प्रवेशयेत् |

ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत् ||४४||

भग्नं कर्णं तु बध्नीयात् समं कृत्वा घृतप्लुतम् |

सद्यःक्षतविधानं च ततः पश्चात् समाचरेत् ||४५||

मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी |

दत्त्वा ततो निबध्नीयात् सप्ताहं च पिबेद्धृतम् ||४६||

पतनादभिघाताद्वा शूनमङ्गं यदक्षतम् |

शीतान् प्रदेहान् सेकांश्च भिषक् तस्यावचारयेत् ||४७||

अथ जङ्घोरुभग्नानां कपाटशयनं हितम् |

कीलका बन्धनार्थं च पञ्च कार्या विजानता ||४८||

यथा न चलनं तस्य भग्नस्य क्रियते तथा |

सन्धेरुभयतो द्वौ द्वौ तले चैकश्च कीलकः ||४९||

श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा |

भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत् ||५०||

सन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान्

उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत् ||५१||

काण्डभग्ने प्ररूढे तु विषमोल्बणसंहिते |

आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत् ||५२||

कल्पयेन्निर्गतं शुष्क्रं व्रणान्तेऽस्थि समाहितः |

सन्ध्यन्ते वा क्रियां कुर्यात् सव्रणे व्रणभग्नवत् ||५३||

ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम् |

घृतपानं हितं नस्यं प्रशाखास्वनुवासनम् ||५४||

अत ऊर्ध्वं प्रवक्ष्यामि तैलं भग्नप्रसाधकम् |

रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ||५५||

दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् |

तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना ||५६||

ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक् |

काकोल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा ||५७||

कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम् |

शतपुष्पां च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ||५८||

पीडनार्थं च कर्तव्यं सर्वगन्धशृतं पयः |

चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ||५९||

एलामंशुमतीं पत्रं जीवकं तगरं तथा |

रोध्रं प्रपौण्डरीकं च तथा कालानुसारि(वा)णम् ||६०||

सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम् |

पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च ||६१||

एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्निना |

एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ||६२||

आक्षेपके पक्षघाते तालुशोषे तथाऽर्दिते |

मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ||६३||

बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः |

पथ्यं पाने तथाऽभ्यङ्गे नस्ये बस्तिषु भोजने ||६४||

ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते |

मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ||६५||

गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् |

राजार्हमेतत् कर्तव्यं राज्ञामेव विचक्षणैः ||६६||

त्रपुसाक्षप्रियालानां तैलानि मधुरैः सह |

वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत् ||६७||

स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम् |

पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने ||६८||

भग्नं नैति यथापाकं प्रयतेत तथा भिषक् |

पक्वमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति ||६९||

भग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्बणम् |

सुखचेष्टाप्रचारं च संहितं सम्यगादिशेत् ||७०||

इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयोऽध्यायः ||३||

Last updated on July 8th, 2021 at 08:37 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English