Skip to content

45. Drava Dravya Vidhi – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

पञ्चचत्वारिंशत्तमोऽध्याय: ।

अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रा-निद्रादाहप्रशमनमेकान्ततः पथ्यतमं च ||३||

तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादि षु स्थानेष्ववस्थितमिति ||४||

 तत्र, ‘लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि सम्भवन्ति’इत्येके भाषन्ते ||५||

तत्तु न सम्यक्; पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण | तत्र, स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च; अम्बुगुणभूयिष्ठायां मधुरं; तेजोगुणभूयिष्ठायां कटुकं तिक्तं च; वायुगुणभूयिष्ठायां कषायम्; आकाशगुणभूयिष्ठायामव्यक्तरसम्, अव्यक्तं ह्याकाशमित्यतः; तत् प्रधानमव्यक्तरसत्वात्, तत्पेयमान्तरीक्षालाभे ||६||

तत्रान्तरीक्षं चतुर्विधम् | तद्यथा- धारं, कारं, तौषारं, हैममिति | तेषां धारं प्रधानं, लघुत्वात्; तत् पुनर्द्विविधं- गाङ्गं, सामुद्रं चेति | तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति | तयोर्द्वयोरपि परीक्षणं कुर्वीत-शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं; वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात्, तन्नोपादेयम् |

सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति | गाङ्गं पुनः प्रधानं, तदुपाददीताश्वयुजे मासि |

शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् | तत् सर्वकालमुपयुञ्जीत, तस्यालाभे भौमम् | तच्चाकाशगुणबहुलम् | तत् पुनः सप्तविधम् |

तद्यथा- कौपं, नादेयं, सारसं, ताडागं, प्रास्रवणम्, औद्भिदं, चौण्ट्यमिति ||७||

तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागुणत्वात्; शरदि सर्वं, प्रसन्नत्वात्; हेमन्ते सारसं ताडागं वा; वसन्ते कौपं प्रास्रवणं वा; ग्रीष्मेऽप्येवं; प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ||८||

कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् |

तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ||९||

योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम् |

स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु ||१०||

तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् | तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति |

तत्र, खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः, पङ्कसिकताशैवालबहुवर्णता रूपदोषः; व्यक्तरसता रसदोषः; अनिष्टगन्धता गन्धदोषः; यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स विर्यदोषः; यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति | त एते आन्तरिक्षे न सन्ति ||११||

व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं, नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ||१२||

सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा |

पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ||१३||

 व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् |

दोषसञ्जननं ह्येतन्नाददीताहितं तु तत् ||१४||

व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम् |

श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् ||१५||

श्वासकासप्रतिश्यायशूलगुल्मोदराणि च |

अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः ||१६||

तत्र सप्त कलुषस्य प्रसादनानि भवन्ति |

तद्यथा- कतकगोमेदकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ||१७||

पञ्च निक्षेपणानि भवन्ति |

तद्यथा- फलकं, त्र्यष्टकं, मुञ्जवलय, उदकमञ्चिका, शिक्यं चेति ||१८||

सप्त शीतीकरणानि भवन्ति; तद्यथा- प्रवातस्थापनम्, उदकप्रक्षेपणं, यष्टिकाभ्रामणं, व्यजनं, वस्त्रोद्धरणं, वालुकाप्रक्षेपणं, शिक्यावलम्बनं चेति ||१९||

निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् |

अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते ||२०||

तत्र नद्यः पश्चिमाभिमुखाः पथ्याः, लघूदकत्वात्; पूर्वाभिमुखास्तु न प्रशस्यन्ते, गुरूदकत्वात्; दक्षिणाभिमुखा नातिदोषलाः, साधारणत्वात् |

तत्र सह्यप्रभवाःकुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजनयन्ति, पारियात्रप्रभवाः पथ्या बलारोग्यकर्य इति ||२१||

नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः |

गुर्व्यः शैवालसञ्छन्नाः कलुषा मन्दगाश्च याः ||२२||

प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः |

लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ||२३||

 तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि, तत्र ह्यमलत्वं शैत्यं चाधिकं भवति, स एव चापां परो गुण इति ||२४||

दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः |

अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ||२५||

गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने |

बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ||२६||

रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् |

चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ||२७||

मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये |

भ्रमक्लमपरीतेषु तमके वमथौ तथा ||२८||

ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते |

पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ||२९||

आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे |

हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ||३०||

नादेयं वातलं रूक्षं दीपनं लघु लेखनम् |

तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ||३१||

तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु |

ताडागं वातलं स्वादु कषायं कटुपाकि च ||३२||

वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् |

सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ||३३||

चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च |

कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ||३४||

मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् |

वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ||३५||

कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् |

तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ||३६||      

सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् |

अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ||३७||

एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम् |

पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ||३८||

दीपनं स्वादु शीतं च तोयं साधारणं लघु |

कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ||३९||

 श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा |

 यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ||४०||

 चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् |

 न च पर्युषितं देयं कदाचिद्वारि जानता ||४१||

       अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे |

       मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ||४२||

       सन्निपातसमुत्थे च शृतशीतं प्रशस्यते |

       स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ||४३||

       वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु |

       दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ||४४||

शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च |

अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ||४५||

मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा |

व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ||४६||

 इति जलवर्गः |

अथ क्षीरवर्गः |

गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत् |

अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ||४७||

तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु |

मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु |

सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ||४८||

तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात्, वातपित्तशोणितमानसेष्वपि विकारेष्वविरुद्धं, जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्बस्तिदोष- पाण्डुरोगग्रहणीदोषार्शःशूलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं, पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं सन्धानं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानां च पथ्यतमम् ||४९||

अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् |

रक्तपित्तहरं शीतं मधुरं रसपाकयोः ||५०||

जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् |

 गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ||५१||

दीपनं लघु सङ्ग्राहि श्वासकासास्रपित्तनुत् |

अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ||५२||

 नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः |

 रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ||५३||

 शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् |

 आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ||५४||

 पथ्यं केवलवातेषु कासे चानिलसम्भवे |

महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ||५५||

निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु |      

उष्णमैकशफं बल्यं शाखावातहरं पयः ||५६||

मधुराम्लरसं रूक्षं लवणानुरसं लघु |

नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ||५७||

 नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् |

 हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ||५८||

स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् |

 प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ||५९||

 रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा |

दिवाकराभितप्तानां व्यायामानिलसेवनात् ||६०||

श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम् |

पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ||६१||

तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् |

वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ||६२||

धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा |

तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ||६३||

अनिष्टगन्धमम्लं च विवर्णं विरसं च यत् |

वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ||६४||

इति क्षीरवर्गः |

अथ दधिवर्गः |

दधि तु मधुरमम्लमत्यम्लं चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ||६५||

महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् |

कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||६६||

विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् |

स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ||६७||

वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् |

दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ||६८||

दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् |

विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ||६९||

बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम् |

विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ||७०||

वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च |

कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ||७१||

रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् |

दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ||७२||

रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् |

स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ||७३||

चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् |

लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ||७४||

कषायानुरसं नाग्या दधि वर्चोविवर्धनम् |

दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ||७५||

विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् |

वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ||७६||

कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् |

शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ||७७||

वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |

दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ||७८||

वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः |

दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ||७९||

दीपनीयं लघुतरं सकषायं रुचिप्रदम् |

शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ||८०||

हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते |

तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ||८१||

अम्लं कषायं मधुरमवृष्यं कफवातनुत् |

प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् |

बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ||८२||

स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च |

असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||८३||

इति दधिवर्गः |

अथ तक्रवर्गः |

तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघुरूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शःप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलभेदःश्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नेहव्यापत्प्रशमनमवृष्यं च ||८४||

मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत् |

नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे |

यत्तु सस्नेहमजलं मथितं घोलमुच्यते ||८५||

नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले |

न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ||८६||

शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च |

मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ||८७||

तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च;

अम्लं वातघ्नं पित्तकरं च ||८८||

वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम् |

पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ||८९||

ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका |

तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ||९०||

गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः |

मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ||९१||

नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं सङ्ग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽर्दितापहं, चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ||९२||

क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं सङ्ग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ||९३||

सन्तानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ||९४||

विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः |

विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ||९५||

इति तक्रवर्गः |

अथ घृतम् |

घृतं तु मधुरं सौम्यं मृदु शीतवीर्यमनभिष्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ||९६||

विपाके मधुरं शीतं वातपित्तविषापहम् |

चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ||९७||

आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम् |

कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ||९८||

मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् |

वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ||९९||

औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् |

दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ||१००||

पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् |

कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ||१०१||

पाके लघूष्णवीर्यं च कषायं कफनाशनम् |

दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् ||१०२||

चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् |

वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ||१०३||

कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु |

हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् ||१०४||

क्षीरघृतं पुनः सङ्ग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च ||१०५||

सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते ||१०६||

सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते ||१०७||

भवति चात्र-

पुराणं तिमिरश्वासपीनसज्वरकासनुत् |

मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ||१०८||

(एकादशशतं चैव वत्सरानुषितं घृतम् |

रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ||१०९||

पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः |

बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ||११०||

सर्वभूतहरं चैव घृतमेतत् प्रशस्यते) ||१११||

इति घृतवर्गः |

अथ तैलानि |

तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च, तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारिता भिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ||११२||

तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे |

अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ||११३||

एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ||११४||

निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलु- करञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ||११५||

वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् |

कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ||११६||

कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु |

कफमेदोनिलहरं लेखनं कटु दीपनम् ||११७||

कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु |

कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ||११८||

विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् |

रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ||११९||

किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदार- सूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति ||१२०||

मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि ||१२१||

तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ||१२२||

सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ||१२३||

तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकशङ्खिनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च ||१२४||

यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च ||१२५||

एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च ||१२६||

सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च ||१२७||

फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् |

गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् ||१२८||

यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः |

सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ||१२९||

सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते |

निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ||१३०||

ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः, जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः, प्रतुदविष्किराणां श्लेष्मघ्नाः |

तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च ||१३१||

इति तैलवर्गः |

अथ मधुवर्गः |

मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं(सङ्ग्राहि) चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च; तत्तु लघुत्वात् कफघ्नं, पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् ||१३२||

पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च |

आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ||१३३||

विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात् |

वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु ||१३४||

पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसञ्ज्ञितम् |

क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ||१३५||

तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् |

श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ||१३६||

स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् |

श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ||१३७||

आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् |

कषायं कटु पाके च बल्यं तिक्तमवातकृत् ||१३८||

औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् |

कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च ||१३९||

छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् |

बृंहणीयं मधु नवं नातिश्लेष्महरं समम् ||१४०||

मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् |

दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ||१४१||

तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् |

नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ||१४२||

तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पुष्परसानां मक्षिकासम्भवत्वाच्चानुष्णोपचारम् ||१४३||

उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु |

उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ||१४४||

तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससम्भवाच्च |

उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि ||१४५||

उष्णेन मधु संयुक्तं वमनेष्ववचारितम् |

अपाकादनवस्थानान्न विरुध्येत पूर्ववत् ||१४६||

मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते |

विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ||१४७||

इति मधुवर्गः |

अथेक्षुवर्गः |

इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति |

ते चानेकविधाः |

तद्यथा- ||१४८||

पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः |

कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ||१४९||

नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् |

इत्येता जातयः स्थौल्याद्, गुणान् वक्ष्याम्यतः परम् ||१५०||

सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः |

अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ||१५१||

आभ्यां तुल्यगुणः किञ्चित्सक्षारो वंशको मतः |

वंशवच्छ्वेतपोरस्तु किञ्चिदुष्णः स वातहा ||१५२||

कान्तारतापसाविक्षू वंशकानुगतौ मतौ |

एवङ्गुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ||१५३||

सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः |

वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ||१५४||

कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः  |

अतीव मधुरो मूले मध्ये मधुर एव तु ||१५५||

अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ||१५६||

अविदाही कफकरो वातपित्तनिवारणः |

वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ||१५७||

गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः |

पक्वो गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ||१५८||

फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ||१५९||

गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च ||१६०||

पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः |

सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः ||१६१||

मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ||१६२||

यथा यथैषां वैमल्यं मधुरत्वं तथा तथा |

स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ||१६३||

यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः |

तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ||१६४||

सारस्थिता सुविमला निःक्षारा च यथा यथा |

तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः ||१६५||

मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च ||१६६||

यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ||१६७||

यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः |

रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः ||१६८||

रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत् |

कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् ||१६९||

इतीक्षुवर्गः |

अथ मद्यवर्गः |

सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् |

भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ||१७०||

पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् |

विकासि सृष्टविण्मूत्रंशृणु तस्य विशेषणम् ||१७१||

मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा |

रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ||१७२||

मधुरं तद्धि रूक्षं च कषायानुरसं लघु |

लघुपाकि सरं शोषविषमज्वरनाशनम् ||१७३||

मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वातकोपनम् |

तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ||१७४||

कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् |

कासार्शोग्रहणीदोषमूत्राघातानिलापहा ||१७५||

स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी |

कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी ||१७६||

श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा |

छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी ||१७७||

प्रसन्ना कफवातार्शोविबन्धानाहनाशनी |

पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी |१७८|

विष्टम्भिनी सुरा गुर्वीश्लेष्मलं तु मधूलकम् ||१७८||

रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ||१७९||

त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः |

ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ||१८०||

हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् |

बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ||१८१||

दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः |

कषायो मधुरः शीधुर्गौडः पाचनदीपनः ||१८२||

शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः |

वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ||१८३||

तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः |

शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ||१८४||

कर्शनः शीतरसिकः श्वयथूदरनाशनः |

वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽर्शसां हितः ||१८५||

आक्षिकः पाण्डुरोगघ्नो व्रण्यः सङ्ग्राहको लघुः |

कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ||१८६||

जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः |

तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ||१८७||

मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः |

लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ||१८८||

तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् |

तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ||१८९||

कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः |

बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः ||१९०||

शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः |

रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः ||१९१||

निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान् |

नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ||१९२||

अनिष्टगन्धि विरसमहृद्यं च विदाहि च |

सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ||१९३||

स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् |

अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ||१९४||

बहुदोषहरश्चैव दोषाणां शमनश्च सः |

दीपनः कफवातघ्नः सरः पित्ताविरोधनः ||१९५||

शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः |

पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः ||१९६||

चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् |

अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् ||१९७||

बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् |

सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु ||१९८||

अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् |

अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् ||१९९||

तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषं तु यद्भवेत् |

तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ||२००||

कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः |

पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ||२०१||

अहृद्यं पेलवं पूति कृमिलं विरसं च यत् |

तथा पर्युषितं चापि विद्यादनिलकोपनम् ||२०२||

सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् |

चिरस्थितं जातरसं दीपनं कफवातजित् ||२०३||

रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् |

तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ||२०४||

सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् |

विचाल्येन्द्रियचेतांसि वीर्यं मदयतेऽचिरात् ||२०५||

चिरेण श्लैष्मिके पुंसि पानतो जायते मदः |

अचिराद्वातिके दृष्टः, पैत्तिके शीघ्रमेव च ||२०६||

सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः |

गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ||२०७||

राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् |

कलहं सानुबन्धं तु करोति पुरुषे मदः ||२०८||

अशौचनिद्रामात्सर्यागम्यागमनलोलताः |

असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९||

रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम् |

वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ||२१०||

तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च |

तद्वत्तदासुतं सर्वं रोचनं च विशेषतः ||२११||

गौडानि रसशुक्तानि मधुशुक्तानि यानि च |

यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ||२१२||

तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् |

ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा ||२१३||

धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् |

स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु ||२१४||

तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् |

मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् ||२१५||

दीपनं जरणं भेदि हितमास्थापनेषु च |

समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते ||२१६||

इति मध्यवर्गः |

अथ मूत्राणि |

मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्शदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ||२१७||

भवतश्चात्र-

तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु |

शोधनं कफवातघ्नं कृमिमेदोविषापहम् ||२१८||

अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् |

पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ||२१९||

गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् |

लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ||२२०||

शूलगुल्मोदरानाहविरेकास्थापनादिषु |

मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ||२२१||

दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु |

आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ||२२२||

कासश्वासापहं शोफकामलापाण्डुरोगनुत् |

कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ||२२३||

कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् |

सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ||२२४||

दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् |

आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ||२२५||

सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् |

तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ||२२६||

गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् |

दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ||२२७||

शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् |

अर्शोघ्नं कारभं मूत्रंमानुषं च विषापहम् ||२२८||

द्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु |

कालदेशविभागज्ञो नृपतेर्दातुमर्हति ||२२९||

इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ||४५||

Last updated on May 24th, 2021 at 07:47 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English