Skip to content

13. Ks`hudraroga Nidaana – Nidaana – S”

सुश्रुतसंहिता ।

अथ निदानस्थानम्‌ ।

त्रयोदशोऽध्यायः ।

अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति |

तद्यथा,- अजगल्लिका, यवप्रख्या, अन्धालजी, विवृता, कच्छपिका, वल्मीकं, इन्द्रवृद्धा, पनसिका, पाषाणगर्दभः, जालगर्दभः, कक्षा, विस्फोटकः, अग्निरोहिणी, चिप्पं, कुनखः, अनुशयी, विदारिका शर्करार्बुदं, पामा, विचर्चिका, रकसा, पाददारिका, कदरं, अलसेन्द्रलुप्तौ, दारुणकः, अरुंषिका, पलितं, मसूरिका, यौवनपिडका, पद्मिनीकण्टकः, जतुमणिः, मशकः, चर्मकीलः, तिलकालकः, न्यच्छं, व्यङ्गः, परिवर्तिका, अवपाटिका, निरुद्धप्रकशः सन्निरुद्धगुदः, अहिपूतनं, वृषणकच्छ्रः, गुदभ्रंशश्चेति ||३||

स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा |

कफवातोत्थिता ज्ञेया बालानामजगल्लिका ||४||

यवाकारा सुकठिना ग्रथिता मांससंश्रिता |

पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ||५||

घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् |

अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ||६||

विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम् |

विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ||७||

ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः |

कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः ||८||

पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि |

ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ||९||

तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः |

व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः ||१०||

पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम् |

इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ||११||

मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् |

रुजाकरीं गदर्भिकां तां विद्याद्वातपित्तजाम् |

कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् |

शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् ||१२||

हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् |

पाषाणगर्दभं विद्याद्बलासपवनात्मकम् ||१३||

विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः |

अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः ||१४||

पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् |

सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ||१५||

बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम् |

पित्तप्रकोपसम्भूतां कक्षामिति विनिर्दिशेत् ||१६||

एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम् |

त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ||१७||

अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः |

क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति ||१८||

कक्षाभागेषु ये स्फोटा जायन्ते मांसदारु(र)णाः |

अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ||१९||

सप्ताहाद्वा दशाहाद्वा पक्षाद्वा न्घन्ति मानवम् |

तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः ||२०||

नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम् |

करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ||२१||

तदेवाक्षतरोगाख्यं तथोपनखमित्यपि |

अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ||२२||

भवेत्तं कुनखं विद्यात् कुलीनमिति सञ्ज्ञितम् |

गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् ||२३||

कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक् |

विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ||२४||

रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम् |

प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथाऽनिलः ||२५||

ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम् |

स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ||२६||

मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः |

दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः ||२७||

स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम् |

पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता ||२८||

परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः |

पादयोः कुरुते दारीं सरुजां तलसंश्रितः ||२९||

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः |

मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ||३०||

सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा |

कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ||३१||

क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ |

दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत् ||३२||

रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् |

प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ||३३||

रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः |

तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते ||३४||

दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते |

कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ||३५||

अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि |

कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् ||३६||

क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः |

पित्तं च केशान् पचति पलितं तेन जायते ||३७||

दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः |

गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ||३८||

शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः |

जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ||३९||

कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम् |

पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ||४०||

नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम् |

सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः ||४१||

अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते |

माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत् ||४२||

कृष्णानि तिलमात्राणि नीरुजानि समानि च |

वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ||४३||

मण्डलं महदल्पं वा श्यामं वा यदि वा सितम् |

सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते ||४४||

समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम् |

क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ||४५||

सहसा मुखमागत्य मण्डलं विसृजत्यतः |

नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ||४६||

कृष्णमेवङ्गुणं गात्रे मुखे वा नीलिकां विदुः |

मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः |

मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः ||४७||

तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते |

मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ||४८||

सवेदनः सदाहश्च पाकं च व्रजति क्वचित् |

मारुतागन्तुसम्भूतां विद्यात्तां परिवर्तिकाम् ||४९||

सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता |

अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियं नरः ||५०||

हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात् |

मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः ||५१||

यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् |

वातोपसृष्टमेवं तु चर्म संश्रयते मणिम् ||५२||

मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च |

निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ||५३||

मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते |

निरुद्धप्रकशं विद्याद्दुरूढां चावपाटिकाम् ||५४||

वेगसन्धारणाद्वायुर्विहतो गुदमाश्रितः |

निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ||५५||

मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति |

सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् ||५६||

शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् |

स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ||५७||

कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते |

एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ||५८||

स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः |

यदा प्रक्लिद्यते स्वेदात् कण्डूं सञ्जनयेत्तदा ||५९||

तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते |

प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ||६०||

प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः |

रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् ||६१||

इति सुश्रुतसंहितायां निदानस्थाने क्षुद्ररोगनिदानं नाम त्रयोदशोऽध्यायः ||१३||

Last updated on May 31st, 2021 at 05:40 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English