Skip to content

44. पाण्डुरोगप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

चतुश्चत्वारिंशत्तमोऽध्यायः ।

अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् |
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ||३||

पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः |
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ||४||

त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः |
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ||५||

स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघर(व)कोऽलसाख्यः |
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ||६||

कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च |
वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||७||

पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च |
पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||८||

शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च |
कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||९||

सर्वात्मके सर्वमिदं व्यवस्येद्वक्ष्यामि लिङ्गान्यथ कामलायाः |
यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् ||१०||

करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रिबलक्षयौ च |
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ||११||

ज्वराङ्गमर्दभ्रमसादतन्द्राक्षयान्वितो लाघर(व)कोऽलसाख्यः |
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः ||१२||

उपद्रवास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः |
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च ||१३||

साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् |
सम्पादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः ||१४||

पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि |
विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन ||१५||

मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम् |
खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा ||१६||

अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा |
सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् ||१७||

हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु |
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्रयुतं हिताशी ||१८||

उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम् |
आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये ||१९||

तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि |
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् ||२०||

गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम् |
प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् ||२१||

आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च |
पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् ||२२||

मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः |
मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् ||२३||

बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः |
तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् ||२४||

सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा |
मूर्वाहरिद्रामलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे ||२५||

मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी |
सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् ||२६||

न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्रयुतं हिताशी |
शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् ||२७||

विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः |
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च ||२८||

सम्भारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य |
जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे ||२९||

हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च |
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ||३०||

कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्रजनीविमिश्रम् |
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ||३१||

मूत्रे स्थितं सैन्धवसम्प्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम् |
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ||३२||

विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात् |
सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ||३३||

लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव |
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ||३४||

यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत् |
तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ||३५||

द्राक्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघर(व)के हितं च |
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ||३६||

स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम् |
सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ||३७||

श्वासातिसारारुचिकासमूर्च्छातृट्छर्दि शूलज्वरशोफदाहान् |
तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसामीक्ष्य शास्त्रम् ||३८||

अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् |
गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसञ्ज्ञकल्पम् ||३९||

विवर्जयेत् पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितं च ||४०||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम (षष्ठोऽध्यायः, आदितः) चतुश्चत्वारिंशत्तमोऽध्यायः ||४४||

Last updated on July 8th, 2021 at 12:05 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English