Skip to content

28. Bhagandara Pratishedha – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

भगन्दरप्रतिषेधं अष्टाविंशोऽध्यायः।

अथातो भगन्दरप्रतिषेधं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

हस्त्यश्वपृष्ठगमनकठिनोत्कटकासनैः।

अर्शोनिदानाभिहितैरपरैश्च निषेवितैः॥१॥

अनिष्टादृष्टपाकेन सद्यो वा साधुगर्हणैः।

प्रायेण पिटिकापूर्वो योऽङ्गुले द्व्यङ्गुलेऽपि वा॥२॥

पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्‌मांसगो भवेत्‌।

बस्तिमूत्राशयाभ्यासगतत्वात्स्यन्दनात्मकः॥३॥

भगन्दरः स सर्वांश्च दारयत्यक्रियावतः।

भगबस्तिगुदांस्तेषु दीर्यमाणेषु भूरिभिः॥४॥

वातमूत्रशकृच्छक्रं खैः सूक्ष्मैर्वमति क्रमात्‌।

दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः॥५॥

अपक्वं पिटिकामाहुः पाकप्राप्तं भगन्दरम्‌।

गूढमूलां ससंरम्भां रुगाढ्यं रूढकोपिनीम्‌॥६॥

भगन्दरकरीं विद्यात्‌ पिटिकां न त्वतोऽन्यथा।

तत्र श्यावाऽरुणा तोदभेदस्फुरणरुक्करी॥७॥

पिटिका मारुतात्‌ पित्तादुष्ट्रग्रीवावदुच्छ्रिता।

रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता॥८॥

स्थिरा स्निग्धा महामूला पाण्डुः कण्डुमती कफात्‌।

श्यावा ताम्रा सदाहोषा घोररुग्‌ वातपित्तजा॥९॥

पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात्‌।

पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा॥१०॥

शूलारोचकतृड्‌दाहज्वरच्छर्दिरुपद्रुता।

व्रणतां यांति ताः पक्वाः प्रमादात्‌ तत्र वातजा॥११॥

चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत्‌ क्रमात्‌।

अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम्‌॥१२॥

शतपोनकसंज्ञोऽयम्‌ उष्ट्रग्रीवस्तु पित्तजः।

बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः॥१३॥

वातपित्तात्परिक्षेपी परिक्षिप्य गुदं गतिः।

जायते परितस्तत्र प्राकारं परिखेव च॥१४॥

ऋजुर्वातकफादृज्व्या गुदो गत्याऽत्र दीर्यते।

कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः॥१५॥

अर्शोमूले ततः शोफः कण्डूदाहादिमान्‌ भवेत्‌।

स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन्मूलमर्शसः॥१६॥

स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः।

सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः॥१७॥

गतयो दारयन्त्यस्मिन्‌ रुग्वेगैर्दारुणैर्गुदम्‌।

अस्थिलेशोऽभ्यवहृतो मांसगृद्ध्या यदा गुदम्‌॥१८॥

क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं क्षततो गतिः।

स्यात्ततः पूयदीर्णायां मांसकोथेन तत्र च॥१९॥

जायन्ते कृमयस्तस्य खादन्तः परितो गुदम्‌।

विदारयन्ति नचिरादुन्मार्गी क्षतजश्च सः॥२०॥

तेषु रुग्दाहकण्ड्‌वादीन्‌ विद्याद्‌ व्रणनिषेधतः।

षट्‌ कृच्छ्रसाधनास्तेषां, निचयक्षतजौ त्यजेत्‌॥२१॥

प्रवाहिणीं वलीं प्राप्तं सेवनीं वा समाश्रितम्‌।

अथास्य पिटिकामेव तथा यत्नादुपाचरेत्‌॥२२॥

शुद्ध्यसृक्स्रुतिसेकाद्यैर्यथा पाकं न गच्छति।

पाके पुनरुपस्निग्धं स्वेदितं चावगाहतः॥२३॥

यन्त्रयित्वाऽर्शसमिव पश्येत्सम्यग्भगन्दरम्‌।

अर्वाचीनं पराचीनमन्तर्मुखबहिर्मुखम्‌॥२४॥

अथान्तर्मुखमेषित्वा सम्यक्‌ शस्त्रेण पाटयेत्‌।

बहिर्मुखं च निःशेषं ततः क्षारेण साधयेत्‌॥२५॥

अग्निना  वा भिषक्‌ साधु क्षारेणैवोष्ट्रकन्धरम्‌।

नाडीरेकान्तराः कृत्वा पाटयेच्छतपोनकम्‌॥२६॥

तासु रूढासु शोषाश्च, मृत्युर्दीर्णे गुदेऽन्यथा।

परिक्षेपिणि चाप्येवं नाड्युक्तैः क्षारसूत्रकैः॥२७॥

अर्शोभगन्दरे पूर्वमर्शांसि प्रतिसाधयेत्‌।

त्वक्त्वोपचर्यः क्षतजः शल्यं शल्यवतस्ततः॥२८॥

आहरेच्च तथा दद्यात्‌ कृमिघ्नं  लेपभोजनम्‌।

पिण्डनाड्यादयः स्वेदाः सुस्निग्धा रुजि पूजिताः॥२९॥

सर्वत्र च बहुच्छिद्रे छेदानालोच्य योजयेत्‌।

गोतीर्थसर्वतोभद्रदललाङ्गललाङ्गलान्‌॥३०॥

पार्श्वं गतेन शस्त्रेण छेदो गोतीर्थको मतः।

सर्वतः सर्वतोभद्रः, पार्श्वच्छेदोऽर्धलाङ्गलः॥३१॥

पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत्‌।

आस्रावमार्गान्निःशेषं नैवं विकुरुते पुनः॥३२॥

यतेत कोष्ठशुद्धौ च भिषक्‌ तस्यान्तराऽन्तरा।

लेपो व्रणे बिडालास्थि त्रिफलारसकल्कितम्‌॥३३॥

ज्योतिष्मतीमलयुलाङ्गलिशेलुपाठा-

कुम्भाग्निसर्ज(र्जि)करवीरवचासुधार्कैः।

अभ्यञ्जनाय विपचेत भगन्दराणां

तैलं वदन्ति परमं हितमेतदेषाम्‌॥३४॥

मधुकरोध्रकणात्रुटिरेणुका-

द्विरजनीफलिनीपटुसारिवाः।

कमलकेसरपद्मकधातकी-

मदनसर्जरसामयरोदिकाः॥३५॥

सबीजपूरच्छदनैरेभिस्तैलं विपाचितम्‌।

भगन्दरापचीकुष्ठमधुमेहव्रणापहम्‌॥३६॥

मधुतैलयुता विडङ्गसार-

त्रिफलामागधिकाकणाश्च लीढाः।

कृमिकुष्ठभगन्दरप्रमेह-

क्षतनाडीव्रणरोपणा भवन्ति॥३७॥

अमृतात्रुटिवेल्लवत्सकं

कलिपथ्यामलकानि गुग्गुलुः।

क्रमवृद्धमिदं मधुद्रुतं

पिटिकास्थौल्यभगन्दरान्‌ जयेत्‌॥३८॥

मागधिकाग्निकलिङ्गविडङ्गै-

र्बिल्वघृतैः सवरापलषट्‌कैः।

गुग्गुलुना सदृशेन समेतैः

क्षौद्रयुतैः सकलामयनाशः॥३९॥

गुग्गुलुपञ्चपलं पलिकांशा

मागधिका त्रिफला च पृथक्स्यात्‌।

त्वक्त्रुटिकर्षयुतं मधुलीढं

कुष्ठभगन्दरगुल्मगतिघ्नम् ॥४०॥

शृङ्गबेररजोयुक्तं तदेव च सुभावितम्‌।

क्वाथेन दशमूलस्य विशेषाद्वातरोगजित्‌॥४१॥

उत्तमाखदिरसारजं रजः

शीलयन्नसनवीरिभावितम्‌।

हन्ति तुल्यमहिषाक्षमाक्षिकं

कुष्ठमेहपिटिकाभगन्दरान्‌॥४२॥

भगन्दरेष्वेष विशेष उक्तः

शेषाणि तु व्यञ्जनसाधनानि।

व्रणाधिकारात्‌ परिशीलनाच्च

सम्यग्विदित्वौपयिकं विदध्यात्‌॥४३॥

अश्वपृष्ठगमनं चलरोधं

मद्यमैथुनमजीर्णमसात्म्यम्‌।

साहसानि विविधानि च रूढे

वत्सरं परिहरेदधिकं वा॥४४॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-

हृदयसंहितायां षष्ठे उत्तरस्थाने भगन्दरप्रतिषेधो नाम अष्टाविंशोऽध्यायः॥२८॥

Last updated on September 8th, 2021 at 10:18 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English