Skip to content

07. S`hareera Samkhyaa S`haareera – S`haareera – C”

चरकसंहिता

शारीरस्थानम्‌ ।

सप्तमोऽध्याय: ।

       अथात: शरीरसंख्याशारीरं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥    

       शरीरसंख्यामवयवश: कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसंख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेश: पप्रच्छ ॥३॥

       तमुवाच्च भगवानात्रेय:–शृणु मत्तोऽग्निवेश ! सर्वशरीरमाचक्षणस्य यथाप्रश्नमेकमना यथावत्‌ । शरीरे षट्‌ त्वच:, तद्यथा –उदकधरा त्वग्बाह्या, द्वितीया त्वसृग्धरा, तृतीया सिध्मकिलाससंभवाधिष्ठाना, चतुर्थी दद्रूकुष्ठसंभवाधिष्ठाना, पञ्चमी त्वलजीविद्रधिसंभवाधिष्ठाना, षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तम: प्रविशति यां चाप्यधिष्ठायारूंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च, इति षट्‌ त्वच: । एता: षडङ्गं शरीरमवतत्य तिष्ठन्ति ॥४॥

       तत्रायं शरीरस्याङ्गविभाग:, तद्यथा–द्वौ बाहू, द्वे सक्थिनी, शिरोग्रीवम्‌, अन्तराधि:, इति षडङ्गमङ्गम्‌ ॥५॥

       त्रीणि सषष्टीनि शतान्यस्थ्नं सह दन्तोलूखलनखेन । तद्यथा–द्वात्रिंशद्दन्ता:, द्वात्रिंशद्दन्तोलूखलानि, विंशतिर्नखा:, षष्टि: पाणिपादाङ्गुल्यस्थीनि, विंशति: पाणिपादशलाका:, चत्वारि पाणिपादशलाकाधिष्ठानानि, द्वे पार्ष्ण्योरस्थिनी, चत्वार: पादयोर्गुल्फा:, द्वौ मणिकौ हस्तयो:, चत्वार्यरत्न्योरस्थीनि, चत्वारि जङ्घयो:, द्वे जानुनी, द्वे जानुकपालिके, द्वावूरुनलकौ, द्वौ बाहुनलकौ, द्वावंसौ, द्वे अंसफलके, द्वावक्षकौ, एकं जत्रु, द्वे तालुके, द्वे श्रोणिफलके, एकं भगास्थि, पञ्चचत्वारिंशत्‌ पृष्ठगतान्यस्थीनि, पञ्चदश ग्रीवायां, चतुर्दशोरसि, द्वयो: पार्श्वयोश्चतुर्विंशति: पर्शुका:, तावन्ति स्थालकानि, तावन्ति चैव स्थालकार्बुदानि, एकं हन्वस्थि, द्वे हनुमूलबन्धने, एकास्थि नासिकागण्डकूटललाटं, द्वौ शङ्खौ, चत्वारि शिर:कपालानीति, एवं त्रीणि सषष्टीनि शतान्यस्थ्नां सह दन्तोलूखलनखेनेति ॥६॥

       पञ्चेन्द्रियाधिष्ठानानि, तद्यथा–त्वग्‌, जिह्वा, नासिका, अक्षिणी, कर्णौ च । पञ्च बुद्धीन्द्रियाणि, तद्यथा–स्पर्शनं, रसनं, घ्राणं, दर्शनं, श्रोत्रमिति । पञ्च कर्मेन्द्रियाणि, तद्यथा–हस्तौ, पादौ, पायु:, उपस्थ:, जिह्वा चेति ॥७॥

       हृदयं चेतनाधिष्ठनमेकम्‌ ॥८॥

       दश प्राणायतनानि, तद्यथा–मूर्धा, कण्ठ:, हृदयं, नाभि: गुदं, बस्ति:, ओज:, शुक्रं, शोणितं, मांसमिति । तेषु पूर्वाणि मर्मसंख्यातानि ॥९॥

       पञ्चदश कोष्ठाङ्गानि, तद्यथा–नाभिश्च, हृदयं च क्लोम च, यकृच्च, प्लीहा च, वृक्कौ च, बस्तिश्च, पुरीषाधारश्च, आमाशयश्च, पक्वाशयश्च, उत्तरगुदं च, अधरगुदं च, क्षुद्रान्त्रं च, स्थूलान्त्रं च, वपावहनं चेति ॥१०॥

       षट्‌पञ्चाशत्‌ प्रत्यङ्गानि षट्‌स्वङ्गेषूपनिबद्धानि, यान्यपरिसंख्यातानि पूर्वमङ्गेषु परिसंख्यायमानेषु, तान्यन्यै: पर्यायैरिह प्रकाश्यानि भवन्ति । तद्यथा–द्वे जङ्घापिण्डिके, द्वे ऊरुपिण्डिके, द्वौ स्फिचौ, द्वौ वृषणौ, एकं शेफ:, द्वे उखे, द्वौ वङ्घणौ, द्वौ कुकुन्दरौ, एकं बस्तिशीर्षम्‌, एकमुदरं, द्वौ स्तनौ, द्वौ श्लेष्मभवो, द्वे बाहुपिण्डिके, चिबुकमेकं, द्वावोष्ठौ, द्वे सृक्कण्यौ, द्वौ दन्तवेष्टकौ, एकं तालु, एका गलशुण्डिका, द्वे उपजिह्विके, एका गोजिह्विका, द्वौ गण्डौ, द्वौ कर्णशष्कुलिके, द्वौ कर्णपुत्रकौ, द्वे अक्षिकूटे, चत्वार्यक्षिवर्त्मानि, द्वे अक्षिकनीनिके, द्वे भ्रुवौ, एकाऽवटु:, चत्वारि पाणिपादहृदयानि ॥११॥

       नव महन्ति छिद्राणि-सप्त शिरसि, द्वे चाध: ॥१२॥

       एतावद्दृश्यं शक्यमपि निर्देष्टुम्‌ ॥१३॥

       अनिर्देश्यमत: परं तर्क्यमेव । तद्यथा–नवस्नायुशतानि, सप्त सिराशतानि, द्वे धमनीशते, चत्वारि पेशीशतानि, सप्तोत्तरं मर्मशतं, द्वे सन्धिशते, एकोनत्रिंशत्सहस्राणि नव च शतानि षट्‌पञ्चाशत्कानि सिराधमनीनामणुश: प्रविभज्यमानानां मुखाग्रपरिमाणं, तावन्ति चैव केशश्मश्रुलोमानीति । एतद्यथावत्संख्यातं त्वक्प्रभृति दृश्यं, तर्क्यमत: परम्‌ । एतदुभयमपि न विकल्पते, प्रकृतिभावाच्छरीरस्य ॥१४॥

       यत्त्वञ्जलिसंख्येयं तदुपदेक्ष्याम:, तत्‌ परं प्रमाणमभिज्ञेयं, तच्च वृद्धिह्रासयोगि, तर्क्यमेव । तद्यथा–दशोदकस्याञ्जलय: शरीरे स्वेनाञ्जलिप्रमाणेन, यत्तु प्रच्यवमानं पुरीषमनुबध्नात्यतियोगेन तथा मूत्रं रुधिरमन्याश्चं शरीरधातून्‌, यत्तु सर्वशरीरचरं बाह्या त्वग्बिभर्ति, यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चोष्मणाऽनुबद्धं लोमकूपेभ्यो निष्पतत्‌ स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणं, नवाञ्जलय: पूर्वस्याहारपरिणामधातो:, यं ‘रस’ इत्याचक्षते, अष्टौ शोणितस्य, सप्त पुरीषस्य, षट्‌ श्लेष्मण:, पञ्च पित्तस्य, चत्वारो मूत्रस्य, त्रयो वसाया:, द्वौ मेदस:, एको मज्जाया:, मस्तिष्कस्यार्धाञ्जलि:, शुक्रस्य तावदेव प्रमाणं, तावदेव श्लैष्मिकस्यौजस इति । एतच्छरीरतत्त्वमुक्तम्‌ ॥१५॥

       तत्र यद्विशेषत: स्थूलं स्थिरं मूर्तिमद्गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्च: केशश्मश्रुलोमकण्डरादि तत्‌ पार्थिवं गन्धो घ्राणं च, यद्‌द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि तदाप्यं रसो रसनं च, यत्‌ पित्तमूष्मा च यो या च भा: शरीरे तत्‌ सर्वमाग्नेयं रूपं दर्शनं च, यदुच्छ्वासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्रेरणधारणादि तद्वायवीयं स्पर्श: स्पर्शनं च, यद्विविक्तं यदुच्यते महान्ति चाणूनि स्रोतांसि तदान्तरीक्षं शब्द: श्रोत्रं च, यत्‌ प्रयोक्तृ तत्तु प्रधानं बुद्धिर्मनश्च । इति शरीरावयवसंख्या यथास्थूलभेदेनावयवानां निर्दिष्टा ॥१६॥

       शरीरावयवास्तु परमाणुभेदेनापरिसंख्येया भवन्ति, अतिबहुत्वादतिसौक्ष्म्यादतीन्द्रियत्वाच्च । तेषां संयोगविभागे परमाणूनां कारणं वायु: कर्मस्वभावश्च ॥१७॥

       तदेतच्छरीरं संख्यातमनेकावयवं दृष्टमेकत्वेन सङ्ग:, पृथक्त्वेनापवर्ग: । तत्र प्रधानमसक्तं सर्वसत्तानिवृत्तौ निवर्तते इति ॥१८॥

       तत्र श्लोकौ–

       शरीरसंख्यां यो वेद सर्वावयवशो भिषक्‌ ।

       तदज्ञाननिमित्तेन स मोहेन न युज्यते ॥१९॥

       अमूढो मोहमूलैश्च न दोषैरभिभूयते ।

       निर्दोषो नि:स्पृह: शान्त: प्रशाम्यत्यपुनर्भव: ॥२०॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरसंख्याशारीरं नाम सप्तमोऽध्याय: ॥७॥

Last updated on June 11th, 2021 at 06:54 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English