Skip to content

06. S`hosha Nidaana – Nidaana – C”

चरकसंहिता

निदानस्थानम्‌ ।

षष्ठोऽध्याय: ।

       अथात: शोषनिदानं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥    

       इह खलु चत्वारि शोषस्यायतनानि भवन्ति, तद्यथा–साहसं संधारणं क्षयो विषमाशनमिति ॥३॥

       तत्र साहसं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्याम: –यदा पुरुषो दुर्बलो हि सन्‌ बलवता सह विगृह्णाति, अतिमहता वा धनुषा व्यायच्छति, जल्पति वाऽप्यतिमात्रम्‌, अतिमात्रं वा भारमुद्वहति, अप्सु वा प्लवते चातिदूरम्‌, उत्सादनपदाघातने वाऽतिप्रगाढमासेवते, अतिप्रकृष्टं वाऽध्वानं द्रुतमभिपतति, अभिहन्यते वा, अन्यद्वा किंचिदेवंविधं विषममतिमात्रं वा व्यायामजातमारभते, तस्यातिमात्रेण कर्मणोर: क्षण्यते । तस्योर: क्षतमुपप्लवते वायु: । स तत्रावस्थित: श्लेष्माणमुर:स्थमुपसंगृह्य पित्तं च दूषयन्‌ विहरत्यूर्ध्वमधस्तिर्यक्‌ च । तस्य योंऽश: शरीरसन्धीनाविशति तेनास्य जृम्भाऽङ्गमर्दो ज्वरश्चोपजायते, यस्त्वामाशयमभ्युपैति तेन रोगा भवन्ति उरस्या अरोचकश्च, य: कण्ठमभिप्रपद्यते कण्ठस्तेनोद्‌ध्वंस्यते स्वरश्चावसीदति, य: प्राणवहानि स्रोतांस्यन्वेति तेन श्वास: प्रतिश्याया जायते, य: शिरस्यवतिष्ठते शिरस्तेनोपहन्यते, तत: क्षणनाच्चैवोरसो विषमगतित्वाच्च वायो: कण्ठस्य चोद्‌ध्वंसनात्‌ कास: सततमस्य संजायते, स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति, शोणितागमनाच्चास्य दौर्बल्यमुपजायते, एवमेते साहसप्रभवा: साहसिकमुपद्रवा: स्पृश्यन्ति । तत: स उपशोषणैरेतैरुपद्रवैरुपद्रुत: शनै: शनैरुपशुष्यति । तस्मात्‌ पुरुषो मतिमान्‌ बलमात्मन: समीक्ष्य तदनुरूपाणि कर्माण्यारभेत कर्तुं, बलसमाधानं हि शरीरं, शरीरमूलश्च पुरुष इति ॥४॥ 

       भवति चात्र–

       साहसं वर्जयेत्‌ कर्म रक्षञ्जीवितमात्मन: ।

       जीवन्‌ हि पुरुषस्त्विष्टं कर्मण: फलमश्नुते ॥५॥

       संधारणं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्याम: -यदा पुरुषो राजसमीपे भर्तु: समीपे वा गुरोर्वा पादमूले द्यूतसभमन्यं वा सतां समाजं स्त्रीमध्यं वा समनुप्रविश्य यानैर्वाऽप्युच्चावचैरभियान्‌ भयात्‌ प्रसङ्गाद्‌ध्रीमत्त्वाद् घृणित्वाद्वा निरुणद्ध्यागतान्‌ वातमूत्रपुरीषवेगान्‌ तदा तस्य संधारणाद्वायु: प्रकोपमापद्यते, स प्रकुपित: पित्तश्लेष्माणौ समुदीर्योर्ध्वमधस्तिर्यक्‌ च विहरति, ततश्चांशविशेषेण पूर्ववच्छरीरावयवविशेषं प्रविश्य शूलमुपजनयति, भिनत्ति पुरीषमुच्छोषयति वा, पार्श्वे चाति रुजति, अंसाववमृद्नाती, कण्ठमुरश्चावधमति, शिरश्चोपहन्ति, कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायं चोपजनयति, तत: स उपशोषणैरेतैरुपद्रवैरुपद्रुत: शनै: शनैरुपशुष्यति । तस्मात्‌ पुरुषो मतिमानात्मन: शारीरेष्वेव योगक्षेमकरेषु प्रयतेत विशेषेण, शरीरं ह्यस्य मूलं, शरीरमूलश्च पुरुषो भवति ॥६॥

       भवति चात्र–

       सर्वमन्यत्‌ परित्यज्य शरीरमनुपालयेत्‌ ।

       तदभावे हि भावानां सर्वाभाव: शरीरिणाम्‌ ॥७॥

       क्षय: शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्याम:–यदा पुरुषोऽतिमात्रं शोकचिन्तापरिगतहृदयो भवति, ईर्ष्योत्कण्ठाभयक्रोधादिभिर्वा समाविश्यते, कृशो वा सन्‌ रूक्षान्नपानसेवी भवति, दुर्बलप्रकृतिरनाहारोऽल्पाहारो वा भवति, तदा तस्य हृदयस्थायी रस: क्षयमुपैति, स तस्योपक्षयाच्छोषं प्राप्नोति, अप्रतीकाराच्चानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणरूपेण (१),

       यदा वा पुरुषोऽतिहर्षादतिप्रसक्तभाव: स्त्रीष्वतिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गाद्रेत: क्षयमेति । क्षयमपि चोपगच्छति रेतसि यदि मन: स्त्रीभ्यो नैवास्य निवर्तते, तस्य चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न शुक्रं प्रवर्ततेऽतिमात्रोपक्षीणरेतस्त्वात्‌, तथाऽस्य वायुर्व्यायच्छमानशरीरस्यैव धमनीरनुप्रविश्य शोणितवाहिनीस्ताभ्य: शोणितं प्रच्यावयति तच्छुक्रक्षयादस्य पुनः शुक्रमार्गेण शोणितं प्रवर्तते वातानुसृतलिङ्गम्‌ । अथास्य शुक्रक्षयाच्छोणितप्रवर्तनाच्च सन्धय: शिथिलीभवन्ति, रौक्ष्यमुपजायते, भूय: शरीरं दौर्बल्यमाविशति, वायु: प्रकोपमापद्यते, स प्रकुपितो वशिकं शरीरमनुसर्पन्नुदीर्य श्लेष्मपित्ते परिशोषयति मांसशोणिते, प्रच्यावयति श्लेष्मपित्ते, संरुजति पार्श्वे, अवमृद्नात्यंसौ, कण्ठमुद्‌ध्वंसति, शिर: श्लेष्माणमुत्क्लेश्य प्रतिपूरयति श्लेष्मणा, सन्धीश्चं प्रपीडयन्‌ करोत्यङ्गमर्दमरोचकाविपाकौ च, पित्तश्लेष्मोत्क्लेशात्‌ प्रतिलोमगत्वाच्च वायुर्ज्वरं कासं श्वासं स्वरभेदं प्रतिश्यायं चोपजनयति, स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते, तत: स उपशोषणै रेतैरुपद्रवैरुपद्रुत: शनै: शनैरुपशुष्यति । तस्मात्‌ पुरुषो मतिमानात्मन: शरीरमनुरक्षञ्छुक्रमनुरक्षेत्‌ । परा ह्येषा फलनिर्वृत्तिराहारस्येति ॥८॥

       भवति चात्र–

       आहारस्य परं धाम शुक्रं तद्रक्ष्यमात्मन: ।

       क्षयो ह्यस्य बहून रोगान्मरणं वा नियच्छति ॥९॥

       विषमाशनं शोषस्यायतनमिति यदुक्तं, तदनु व्याख्यास्याम: –यदा पुरुष: पानाशनभक्ष्यलेह्योपयोगान्‌ प्रकृतिकरण- संयोगराशिदेशकालोपयोगसंस्थोपशयविषमानासेवते, तदा तस्य तेभ्यो वातपित्तश्लेष्माणो वैषम्यमापद्यन्ते, ते विषमा: शरीरमनुसृत्य यदा स्रोतसामयनमुखानि प्रतिवार्यावतिष्ठन्ते तदा जन्तुर्यद्यदाहारजातमाहरति तत्तदस्य मूत्रपुरीषमेवोपजायते भूयिष्ठं नान्यस्तथा शरीरधातु:, स पुरीषोपष्टम्भाद्वर्तयति, तस्माच्छुष्यतो विशेषेण पुरीषमनुरक्ष्यं तथाऽन्येषामति कृशदुर्बलानां, तस्यानाप्यायमानस्य विषमाशनोपचिता दोषा: पृथक्‌ पृथगुपद्रवैर्युञ्जन्तो भूय: शरीरमुपशोषयन्ति । तत्र वात: शूलमङ्गमर्दं कण्ठोद्‌ध्वंसनं पार्श्वसंरुजनमंसावमर्दं स्वरभेदं प्रतिश्यायं चोपजनयति, पित्तं ज्वरमतीसारमन्तर्दाहं च, श्लेष्मा तु प्रतिश्यायं शिरसो गुरुत्वमरोचकं कासं च, स कासप्रसङ्गादुरसि क्षते शोणितं निष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते । एवमेते विषमाशनोपचितास्त्रयो दोषा राजयक्ष्माणमभिनिर्वर्तयन्ति । स तैरुपशोषणैरुपद्रवैरुपद्रुत: शनै: शनै: शुष्यति । तस्मात्‌ पुरुषो मतिमान्‌ प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयादविषममाहारमाहरेत्‌ ॥१०॥

       भवति चात्र–

       हिताशी स्यान्मिताशी स्यात्कालभोजी जितेन्द्रिय: ।

       पश्यन्‌ रोगान्‌ बहून्‌ कष्टान्‌ बुद्धिमान्‌ विषमाशनात्‌ ॥११॥

       एतैश्चतुर्भि: शोषस्यायतनैरुपसेवितैर्वातपित्तश्लेष्माण: प्रकोपमापद्यन्ते । ते प्रकुपिता नानाविधैरुपद्रवै: शरीरमुपशोषयन्ति । तं सर्वरोगाणां कष्टतमत्वाद्राजयक्ष्माणमाचक्षते भिषज:, यस्माद्वा पूर्वमासीद्भगवत: सोमस्योडुराजस्य तस्माद्राजयक्ष्मेति ॥१२॥

       तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा-प्रतिश्याय:, क्षवथुरभीक्ष्णं, श्लेष्मप्रसेक:, मुखमाधुर्यम्‌, अनन्नाभिलाष:, अन्नकाले चायास:, दोषदर्शनमदोषेष्वल्पदोषेषु वा भावेषु पात्रोदकान्नसूपापूपोपदंशपरिवेशकेषु, भुक्तवतश्चास्य हृल्लास:, तथोल्लेखनमप्याहार- स्यान्तरान्तरा, मुखस्य पादयोश्चशोफ:, पाण्योश्चावेक्षणमत्यर्थम्‌, अक्ष्णो: श्वेतावभासता चातिमात्रं, बाह्वोश्च प्रमाणजिज्ञासा, स्त्रीकामता, निर्घृणित्वं, बीभत्सदर्शनता चास्य काये, स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां शून्यानां च ग्रामनगर निगमजनपदानां शुष्कदग्धभग्नानां च वनानां कृकलासमयूरवानरशुकसर्पकाकोलूकादिभि: संस्पर्शनमधिरोहणं यानं वा श्वोष्ट्रखरवराहै: केशास्थिभस्मतुषाङ्गारराशीनां चाधिरोहणमिति (शोषपूर्वरूपाणि भवन्ति)॥१३॥

       अत ऊर्ध्वमेकादशरूपाणि तस्य भवन्ति, तद्यथा–शिरस: परिपूर्णत्वं, कास: श्वास:, स्वरभेद:, श्लेष्मणश्छर्दनं, शोणितष्ठीवनं, पार्श्वसंरोजनम्‌, अंसावमर्द:, ज्वर:, अतीसार:, अरोचकश्चेति ॥१४॥

     तत्रापरिक्षीणबलमांसशोणितो बलवानजातारिष्ट: सर्वैरपि शोषलिङ्गैरुपद्रुत: साध्यो ज्ञेय: । बलवानुपचितो हि सहत्वाद्व्याध्यौषधबलस्य कामं सुबहुलिङ्गोऽप्यल्पलिङ्ग एव मन्तव्य: ॥१५॥

       दुर्बलं त्वतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपि बहुलिङ्गं जातारिष्टं च विद्यात्‌, असहत्वाद्व्याध्यौषधबलस्य, तं परिवर्जयेत्‌, क्षणेनैव हि प्रादुर्भवन्त्यरिष्टानि, अनिमित्तश्चारिष्टप्रादुर्भाव इति ॥१६॥

       तत्र श्लोक:–

       समुत्थानं च लिङ्गं च य: शोषस्यावबुध्यते ।

       पूर्वरूपं च तत्त्वेन स राज्ञ: कर्तुमर्हति ॥१७॥

       इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने शोषनिदानं नाम पष्ठोऽध्याय: ॥६॥

Last updated on June 4th, 2021 at 12:52 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English