चरकसंहिता
चिकित्सास्थानम् ।
पञ्चमोऽध्याय: ।
अथातो गुल्मचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
सर्वप्रजानां पितृवच्छरण्य:
पुनर्वसुर्भूतभविष्यदीश: ।
चिकित्सितं गुल्मनिबर्हणार्थं
प्रोवाच सिद्धं वदतां वरिष्ठ:॥३॥
विट्श्लेष्मपित्तातिपरिस्रवाद्वा
तैरेव वृद्धै: परिपीडनाद्वा ।
वेगैरुदीर्णैर्विहतैरधो वा
बाह्याभिघातैरतिपीडनैर्वा ॥४॥
रूक्षान्नपानैरतिसेवितैर्वा ।
शोकेन मिथ्याप्रतिकर्मणा वा।
विचेष्टितैर्वा विषमातिमात्रै:
कोष्ठे प्रकोपं समुपैति वायु: ॥५॥
कफं च पित्तं च स दुष्टवायुरुद्धूय मार्गान् विनिबद्ध्य ताभ्याम् ।
हृन्नाभिपार्श्वोदरबस्तिशूलं
करोत्यथो याति न बद्धमार्ग: ॥६॥
पक्वाशये पित्तकफाशये वा
स्थित: स्वतन्त्र: परसंश्रयो वा ।
स्पर्शोपलभ्य: परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम ॥७॥
बस्तौ च नाभ्यां हृदि पार्श्वयोर्वा
स्थानानि गुल्मस्य भवन्ति पञ्च ।
पञ्चात्मकस्य प्रभवं तु तस्य
वक्ष्यामि लिङ्गानि चिकित्सितं च ॥८॥
रूक्षान्नपानं विषमातिमात्रं
विचेष्टितं वेगविनिग्रहश्च ।
शोकोऽभिघातोऽतिमलक्षयश्च
निरन्नता चानिलगुल्महेतु: ॥९॥
य: स्थानसंस्थानरुजां विकल्पं
विड्वातसङ्गं गलवक्त्रशोषम् ।
श्यावारुणत्वं शिशिरज्वरं च
हृत्कुक्षिपार्श्वांसशिरोरुजं च ॥१०॥
करोति जीर्णेऽभ्यधिकं प्रकोपं
भुक्ते मृदुत्वं समुपैति यश्च ।
वातात् स गुल्मो न च तत्र रूक्षं
कषायतिक्तं कटु चोपशेते ॥११॥
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा ।
आमाभिघातो रुधिरं च दुष्टं
पैत्तस्य गुल्मस्य निमित्तमुक्तम् ॥१२॥
ज्वर: पिपासा वदनाङ्गराग:
शूलं महज्जीर्यति भोजने च ।
स्वेदो विदाहो व्रणवच्च गुल्म:
स्पर्शासह: पैत्तिकगुल्मरूपम् ॥१३॥
शीतं गुरु स्निग्धमचेष्टनं च
संपूरणं प्रस्वपनं दिवा च ।
गुल्मस्य हेतु: कफसंभवस्य
सर्वस्तु दिष्टो निचयात्मकस्य ॥१४॥
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि ।
शैत्यं रुगल्पा कठिनोन्नतत्वं
गुल्मस्य रूपाणि कफात्मकस्य ॥१५॥
निमित्तलिङ्गान्युपलभ्य गुल्मे
द्विदोषजे दोषबलाबलं च ।
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् ॥१६॥
महारुजं दाहपरीतमश्मवद्धनोन्नतं शीघ्रविदाहि दारुणम् ।
मन:शरीराग्निबलापहारिणं
त्रिदोषजं गुल्ममसाध्यमादिशेत् ॥१७॥
ऋतावनाहारतया भयेन
विरूक्षणैर्वेगविनिग्रहैश्च ।
संस्तम्भनोल्लेखनयोनिदोषैर्गुल्म: स्त्रियं रक्तभवोऽभ्युपैति ॥१८॥
य: स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूल: समगर्भलिङ्ग:।
स रौधिर: स्त्रीभव एव गुल्मो
मासे व्यतीते दशमे चिकित्स्य: ॥१९॥
क्रियाक्रममत: सिद्धं गुल्मिनां गुल्मनाशनम् ।
प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान् ॥२०॥
रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम् ।
बद्धविण्मारुतं स्नेहैरादित: समुपाचरेत् ॥२१॥
भोजनाभ्यञ्जनै: पानैर्निरूहै: सानुवासनै: ।
स्निग्धस्य भिषजा स्वेद: कर्तव्यो गुल्मशान्तये ॥२२॥
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम् ।
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ॥२३॥
स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे ।
पक्वाशयगते बस्तिरुभयं जठराश्रये ॥२४॥
दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसो: ।
बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रयोजयेत् ॥२५॥
पुन: पुन: स्नेहपानं निरूहा: सानुवासना: ।
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा ॥२६॥
कफो वाते जितप्राये पित्तं शोणितमेव वा ।
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते ॥२७॥
यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम् ।
आदावन्ते च मध्ये च मारुतं परिरक्षता ॥२८॥
वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि ।
हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम् ॥२९॥
शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे ।
वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम् ॥३०॥
पित्तं वा यदि संवृद्धं संतापं वातगुल्मिन: ।
कुर्याद्विरेच्य: स भवेत् सस्नेहैरानुलोमिकै: ॥३१॥
गुल्मो यद्यनिलादीनां कृते सम्यग्भिषग्जिते ।
न प्रशाम्यति रक्तस्य सोऽवसेकात् प्रशाम्यति ॥३२॥
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् ।
रूक्षोष्णेन तु संभूते सर्पि: प्रशमनं परम् ॥३३॥
पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम् ।
कालविन्निर्हरेत् सद्य: सतिक्तै: क्षीरबस्तिभि: ॥३४॥
पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत् ।
भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा ॥३५॥
तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे ।
गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत् ॥३६॥
छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् ।
रक्तं हि व्यम्लतां याति, तच्च नास्ति न चास्ति रुक् ॥३७॥
हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसै: ।
समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत् पुन: ॥३८॥
रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य च ।
यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम् ॥३९॥
गुरु: कठिनसंस्थानो गूढमांसान्तराश्रय: ।
अविवर्ण: स्थिरश्चैव ह्यपक्वो गुल्म उच्यते ॥४०॥
दाहशूलार्तिसंक्षोभस्वप्ननाशारतिज्वरै: ।
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत् ॥४१॥
विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते ।
श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसंनिभे ॥४२॥
निपीडितोन्नते स्तब्धे सुप्ते तत्पार्श्वपीडनात् ।
तत्रैव पिण्डिते शूले संपक्वं गुल्ममादिशेत् ॥४३॥
तत्र धान्वन्तरीयाणामधिकार: क्रियाविधौ ।
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे ॥४४॥
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम् ।
हृत्क्रोडशूनताऽन्त:स्थे बहि:स्थे पार्श्वनिर्गति: ॥४५॥
पक्व: स्रोतांसि संक्लेद्य व्रजत्यूर्ध्वमधोऽपि वा ।
स्वयंप्रवृत्तं तं दोषमुपेक्षेत हिताशनै: ॥४६॥
दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान् ।
अत ऊर्ध्वं हितं पानं सर्पिष: सविशोधनम् ॥४७॥
शुद्धस्य तिक्तं सक्षौद्रं प्रयोगे सर्पिरिष्यते ।
शीतलैर्गुरुभि: स्निग्धैर्गुल्मे जाते कफात्मके ॥४८॥
अवम्यस्याल्पकायाग्ने: कुर्याल्लङ्घनमादित: ।
मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता ॥४९॥
सोत्क्लेशा चारुचिर्यस्य स गुल्मी वमनोपग: ।
उष्णैरेवोपचर्यश्च कृते वमनलङ्घने ॥५०॥
योज्यश्चाहारसंसर्गो भेषजै: कटुतिक्तकै: ।
सानाहं सविबन्धं च गुल्मं कठिनमुन्नतम् ॥५१॥
दृष्ट्वाऽऽदौ स्वेदयेद्युक्त्या स्विन्नं च विलयेद्भिषक् ।
लङ्घनोल्लेखने स्वेदे कृतेऽग्नौसंप्रधुक्षिते ॥५२॥
कफगुल्मी पिबेत् काले सक्षारकटुकं घृतम् ।
स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनै: ॥५३॥
सस्नेहैर्बस्तिभिर्वाऽपि शोधयेद्दाशमूलिकै: ।
मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम् ॥५४॥
गुटिकाचूर्णनिर्यूहा: प्रयोज्या: कफगुल्मिनाम् ।
कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम् ॥५५॥
जयेत्कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभि: ।
दोषप्रकृतिगुल्मर्तुयोगं बुद्ध्वा कफोल्बणे ॥५६॥
बलदोषप्रमाणज्ञ: क्षारं गुल्मे प्रयोजयेत् ।
एकान्तरं व्द्यन्तरं वा त्र्यहं विश्रम्य वा पुन: ॥५७॥
शरीरबलदोषाणां वृद्धिक्षपणकोविद: ।
श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिन: ॥५८॥
छित्त्वा छित्त्वाऽऽशयात् क्षार: क्षरत्वात् क्षारयत्यध: ।
मन्देऽग्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम् ॥५९॥
प्रयोज्या मार्गशुद्ध्यर्थमरिष्टा: कफगुल्मिनाम् ।
लङ्घनोल्लेखनै: स्वेदै: सर्पि:पानैर्विरेचनै: ॥६९॥
बस्तिभिर्गुटिकाचूर्णक्षारारिष्टगणैरपि ।
श्लैष्मिक: कृतमूलत्वाद्यस्य गुल्मो न शाम्यति ॥६१॥
तस्य दाहो हृते रक्ते शरलोहादिभिर्हित: ।
औष्ण्यात्तैक्ष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ ॥६२॥
तयो: शमाच्च संघातो गुल्मस्य विनिवर्तते ।
दाहे धान्वन्तरीयाणामत्रापि भिषजां बलम् ॥६३॥
क्षारप्रयोगे भिषजां क्षारतन्त्रविदां बलम् ।
व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रम: ॥६४॥
सिद्धानत: प्रवक्ष्यामि योगान् गुल्मनिबर्हणान् ।
त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकै: ॥६५॥
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत् ।
इति त्र्यूषणादिघृतम् ।
एत एव च कल्का: स्यु: कषाय: पञ्चमूलिक: ॥६६॥
द्विपञ्चमूलिको वाऽपि तद्घृतं गुल्मनुत् परम् ।
इति त्र्यूषणादिघृतमपरम् ।
(षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि ॥६७॥)
प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा।
दध्न: सरेण वा कार्यं घृतं मारुतगुल्मनुत् ॥६८॥
हिङ्गुसौवर्चलाजाजीबिडदाडिमदीप्यकै: ।
पुष्करव्योषधन्याकवेतसक्षारचित्रकै: ॥६९॥
शटीवचाजगन्धैलासुरसैश्च विपाचितम् ।
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ॥७०॥
इति हिङ्गुसौवर्चलाद्यं घृतम् ।
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवै: ।
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम् ॥७१॥
सकोलमूलकरसं सक्षीरदधिदाडिमम् ।
तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम् ॥७२॥
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् ।
बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति ॥७३॥
इति हपुषाद्यं घृतम् ।
पिप्पल्या पिचुरध्यर्धो दाडिमाद्द्विपलं पलम् ।
धान्यात्पञ्च घृताच्छुण्ठ्या: कर्षः क्षीरं चतुर्गुणम् ॥७४॥
सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति ।
योनिशूलं शिर:शूलमर्शांसि विषमज्वरम् ॥७५॥
इति पिप्पल्याद्यं घृतम् ।
घृतानामौषधगणा य एते परिकीर्तिता: ।
ते चूर्णयोगा वर्त्यस्ता: कषायास्ते च गुल्मिनाम् ॥७६॥
कोलदाडिमघर्माम्बुसुरामण्डाम्लकाञ्जिकै: ।
शूलानाहहरी पेया बीजपूररसेन वा ॥७७॥
चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा ।
कुर्याद्वर्ती: सगुटिका गुल्मानाहार्तिशान्तये ॥७८॥
हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम् ।
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ ॥७९॥
दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम् ।
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत् ॥८०॥
चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम् ।
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा ॥८१॥
पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके ।
आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे ॥८२॥
ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ ।
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे ॥८३॥
भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा ।
बहुशो गुटिका: कार्या: कार्मुका: स्युस्ततोऽधिकम् ॥८४॥
इति हिङ्वादिचूर्णं गुटिका च ।
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे ।
सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ॥८५॥
शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान् ।
धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम् ॥८६॥
सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम् ।
अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत् ॥८७॥
रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुन: ।
भावितं गुटिकां कृत्वा सुपिष्टां कोलसंमिताम् ॥८८॥
गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम् ।
हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम् ॥८९॥
पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम् ।
पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति ॥९०॥
नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य च ।
तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत् ॥९१॥
वातगुल्ममुदावर्तं योनिशूलं च नाशयेत् ।
पिबेदेरण्डजं तैलं वारुणीमण्डमिश्रितम् ॥९२॥
तदेव तैलं पयसा वातगुल्मी पिबेन्नर: ।
श्लेष्मण्यनुबले पूर्वं हितं पित्तानुगे परम् ॥९३॥
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् ।
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत् ॥९४॥
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम् ।
हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पय: ॥९५॥
इति लशुनक्षीरम् ।
तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम् ।
गुल्मं जठरमानाहं पीतमेकत्र साधयेत् ॥९६॥
इति तैलपञ्चकम् ।
पञ्चमूलीकषायेण सक्षारेण शिलाजतु ।
पिबेत्तस्य प्रयोगेण वातगुल्मात् प्रमुच्यते ॥९७॥
इति शिलाजतुप्रयोग: ।
वाट्यं पिप्पलीयूषेण मूलकानां रसेन वा ।
भुक्त्वा स्निग्धमुदावर्ताद्वातगुल्माद्विमुच्यते ॥९८॥
शूलानाहविबन्धार्तं स्वेदयेद्वातगुल्मिनम् ।
स्वेदै: स्वेदविधावुक्तैर्नाडीप्रस्तरसङ्करै: ॥९९॥
बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम् ।
स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति ॥१००॥
तस्मादभीक्ष्णशो गुल्मा निरूहै: सानुवासनै: ।
प्रयुज्यमानै: शाम्यन्ति वातपित्तकफात्मका: ॥१०१॥
गुल्मघ्ना विविधा दिष्टा: सिद्धा: सिद्धिषु बस्तय: ।
गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके ॥१०२॥
तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनै: ।
प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् ॥१०३॥
नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव ।
समलाय प्रदातव्यं शोधनं वातगुल्मिने ॥१०४॥
नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकै: सह ।
शोधनार्थं घृतं देयं सबिडक्षारनागरम् ॥१०५॥
नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम् ।
पचेद्विडङ्गं व्याघ्रीं च पलिकानि जलाढके ॥१०६॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।
दध्न: प्रस्थेन संयोज्य सुधाक्षीरपलेन च ॥१०७॥
ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम् ।
जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम् ॥१०८॥
गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान् ।
श्वित्रं प्लीहानमुन्मादं घृतमेतद्व्यपोहति ॥१०९॥
इति नीलिन्याद्यं घृतम् ।
कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तका: ।
शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम् ॥११०॥
हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम् ।
समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम् ॥१११॥
मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति ।
तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम् ॥११२॥
सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते ।
या क्रिया क्रियते सिद्धिं सा याति न विरूक्षिते ॥११३॥
भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत् ।
वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा ॥११४॥
रोहिणीकटुकानिम्बमधुकत्रिफलात्वच: ।
कर्षांशास्त्रायमाणा च पटोलत्रिवृतो: पले ॥११५॥
द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि ।
शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम् ॥११६॥
पिबेत् संमूर्च्छितं तेन गुल्म: शाम्यति पैत्तिक: ।
ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाऽरुचिस्तथा ॥११७॥
इति रोहिण्याद्यं घृतम् ।
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम् ।
पञ्चभागस्थितं पूतं कल्कै: संयोज्य कार्षिकै: ॥११८॥
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा।
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलै: ॥११९॥
रसस्यामलकानां च क्षीरस्य च घृतस्य च ।
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत् ॥१२०॥
पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम् ।
हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम् ॥१२१॥
इति त्रायमाणाद्यं घृतम् ।
रसेनामलकेक्षूणां घृतपादं विपाचयेत् ।
पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत् ॥१२२॥
इत्यामलकाद्यं घृतम् ।
द्राक्षां मधूकं खर्जूरं विदारीं सशतावरीम् ।
परूषकाणि त्रिफलां साधयेत्पलसंमितम् ॥१२३॥
जलाढके पादशेषे रसमामलकस्य च ।
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम् ॥१२४॥
साधयेत्तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम् ।
प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत् ॥१२५॥
इति द्राक्षाद्यं घृतम् ।
वृषं समूलमापोथ्य पचेदष्टगुणे जले ।
शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत् ॥२६॥
तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत् ।
रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम् ॥१२७॥
इति वासाघृतम् ।
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम् ।
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत् ॥१२८॥
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम् ।
तेन निर्हृतदोषस्य गुल्म: शाम्यति पैत्तिक: ॥१२९॥
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत् ।
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम् ॥१३०॥
दाहप्रशमनोऽभ्यङ्ग: सर्पिषा पित्तगुल्मिनाम् ।
चन्दनाद्येन तैलेन तैलेन मधुकस्य वा ॥१३१॥
ये च पित्तज्वरहरा: सतिक्ता: क्षीरबस्तय: ।
हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिषु ॥१३२॥
शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम् ।
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम् ॥१३३॥
आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम् ।
बलाविदारीगन्धाद्यै: पित्तगुल्मचिकित्सितम् ॥१३४॥
आमान्वये पित्तगुल्मे सामे वा कफवातिके ।
यवागूभि: खडैर्यूषै: संधुक्ष्योऽग्निर्विलङ्घिते ॥१३५॥
शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ ।
तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत् ॥१३६॥
वमनं वमनार्हाय प्रदद्यात् कफगुल्मिने ।
स्निग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते ॥।१३७॥
परिवेष्ट्य प्रदीप्तांस्तु बल्वजानथवा कुशान् ।
भिषक्कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत् ॥१३८॥
संगृहीतो यदा गुल्मस्तदा घटमथोद्धरेत् ।
वस्त्रान्तरं तत: कृत्वा भिन्द्याद्गुल्मं प्रमाणवित् ॥१३९॥
विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत् ।
मृद्गीयाद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत् ॥१४०॥
तिलैरण्डातसीबीजसर्षपै: परिलिप्य च ।
श्लेष्मगुल्ममय:पात्रै: सुखोष्णै: स्वेदयेद्भिषक् ॥१४१॥
सव्योषक्षारलवणं दशमूलीशृतं घृतम् ।
कफगुल्मं जयत्याशु सहिङ्गुबिडदाडिमम् ॥१४२॥
इति दशमूलीघृतम् ।
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम् ।
साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके ॥१४३॥
पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम् ।
विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शटीम् ॥१४४॥
चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक् ।
प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत् ॥१४५॥
एतद्भल्लातकघृतं कफगुल्महरं परम् ।
प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत् ॥१४६॥
इति भल्लातकाद्यं घृतम् ।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरै: ।
पलिकै: सयवक्षारैर्घृतप्रस्थं विपाचयेत् ॥१४७॥
क्षीरप्रस्थं च तत् सर्पिर्हन्ति गुल्मं कफात्मकम् ।
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ॥१४८॥
इति क्षीरषट्पलकं घृतम् ।
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम् ।
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम् ॥१४९॥
सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत् ।
स सिद्धो मिश्रकस्नेह: कुष्ठप्लीहोदरेषु च ।
प्रयोज्यो मिश्रक: स्नेहो योनिशूलेषु चाधिकम् ॥१५१॥
इति मिश्रक: स्नेह: ।
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम् ।
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम् ।
सुधाक्षीरद्रवे चूर्णं त्रिवृताया: सुभावितम् ।
कार्षिकं मधुसर्पिभ्यां लीढ्वा साधु विरिच्यते ॥१५३॥
जलद्रोणे विपक्तव्या विंशति: पञ्च चाभया: ।
दन्त्या: पलानि तावन्ति चित्रकस्य तथैव च ॥१५४॥
अष्टभागावशेषं तु रसं पूतमधिक्षिपेत् ।
दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ता: ॥१५५॥
तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम् ।
चूर्णितं पलमेकं तु पिप्पलीविश्वभेषजम् ॥१५६॥
तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु ।
क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात् ॥१५७॥
ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम् ।
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम् ॥१५८॥
गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम् ।
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् ॥१५९॥
कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता ।
निरत्यय: क्रमश्चास्या द्रवो मांसरसौदन: ॥१६०॥
इति दन्तीहरीतकी ।
सिद्धा: सिद्धिषु वक्ष्यन्ते निरूहा: कफगुल्मिनाम् ।
अरिष्टयोगा: सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते ॥१६१॥
यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम् ।
द्विगुणक्षारहिङ्ग्वम्लवेतसास्ता: कफे हिता: ॥१६२॥
य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम् ।
सिद्धा निरत्यया: शस्ता दाहस्त्वन्ते प्रशस्यते ॥१६३॥
प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिण: ।
कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च ॥१६४॥
शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य च ।
चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च ॥१६५॥
बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमै:
तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत् ॥१६३॥
पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम् ।
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा ॥१६७॥
यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्
पिबेत् संदीपनं वातकफमूत्रानुलोमनम् ॥१६८॥
संचित: क्रमशो गुल्मो महावास्तुपरिग्रह:
कृतमूल: सिरानद्धो यदा कूर्म इवोन्नत: १६९॥
दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरै:
तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति ॥१७०॥
गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम् ।
हृन्नाभिहस्तपादेषु शोफ: कर्षति गुल्मिनम् ॥१७१॥
रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे ।
स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम् ॥१७२॥
पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषो: ।
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत् ॥१७३॥
प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम् ।
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुन: ॥१७४॥
आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान् ।
वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान् ॥१७५॥
अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकै: ।
किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम् ॥१७६॥
रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा ।
लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत् ॥१७७॥
बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम् ।
अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम् ॥१७८॥
प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्
घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम् ॥१७९॥
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरी: क्रिया: ।
कार्या वातरुगार्ताया: सर्वा वातहरी: पुन: ॥१८०॥
घृततैलावसेकाश्चं तित्तिरीश्चंरणायुधान् ।
सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिष: ॥१८१॥
प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा ।
अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम् ॥१८२॥
तत्र श्लोका: —
स्नेह: स्वेद: सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिका: ।
वमनविरकौ मोक्ष: क्षतजस्य च वातगुल्मवताम् ॥१८३॥
सर्पि: सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च ।
रक्तस्य चावसेचनमाश्वासनसंशमनयोगा: ॥१८४॥
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य ।
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य ॥१८५॥
स्नेह: स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च ।
सर्पिर्बस्तिर्गुटिकाश्चर्णमरिष्टाश्च सक्षारा: ॥१८६॥
गुल्मस्यान्ते दाह: कफजस्याग्रेऽपनीतरक्तस्य ।
गुल्मस्य रौधिरस्य क्रियाक्रम: स्त्रीभवस्योक्त: ॥१८७॥
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च ।
नित्यं चाग्निसमाधि: स्निग्धस्य च सर्वकर्माणि ॥१८८॥
हेतुर्लिङ्गं सिद्धि: क्रियाक्रम: साध्यता न योगाश्च ।
गुल्मचिकित्सितसंग्रह एतावान् व्याहृतोऽग्निवेशस्य ॥१८९॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थानेगुल्मचिकित्सितं नाम पञ्चमोऽध्याय: ॥५॥
Last updated on June 18th, 2021 at 10:12 am