चरकसंहिता
चिकित्सास्थानम्।
त्रयोविंशोऽध्याय:।
अथातो विषचिकित्सितं व्याख्यास्याम:॥१॥
इति ह स्माह भगवानत्रेय:॥२॥
प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान्।
विषस्य ब्रुवत:सम्यगग्निवेश निबोध मे॥३॥
अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरै:।
जज्ञे प्रागमृतोत्पत्ते: पुरुषो घोरदर्शन:॥४॥
दीप्तेतेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षण:।
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञित:॥५॥
जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत्।
तदम्बुसंभवं तस्माद्द्विविधं पावकोपमम्॥६॥
अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम्।
तद्वर्षास्वम्बुयोनित्वात् संक्लेदं गुडवद्गतम्॥७॥
सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च।
प्रयाति मन्दवीर्यत्वं विषं तस्माद्घनात्यये॥८॥
सर्पा: कीटोन्दुरा लूता वृश्चिकागृहगोधिका:।
जलौकामत्स्यमण्डूका: कणभा: सकृकण्टका:॥९॥
श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादय:।
दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम्॥१०॥
मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम्।
कर्कटं कालकूटं च करवीरकसंज्ञकम्॥११॥
पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम्।
रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम्॥१२॥
सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा।
एवमादीनि चान्यानि मूलजानि स्थिराणि च॥१३॥
गरसंयोगजं चान्यद्गरसंज्ञं गदप्रदम्।
कालान्तरविपाकित्वान्न तदाशु हरत्यसून्॥१४॥
निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम्।
शोफं चैवातिसारं च जनयेज्जङ्गमं विषम्॥१५॥
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्।
फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम्॥१६॥
जङ्गमं स्यादधोभागमूर्ध्वभागं तुमूलजम्।
तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम्॥१७॥
तृण्मोहदन्तहर्षप्रसेकवमथुक्लमा भवन्त्याद्ये।
वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु॥१८॥
वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमका:।
दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठा:॥१९॥
वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्या:।
नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे॥२०॥
षष्ठे हिक्का,भङ्ग: स्कन्धस्य तु सप्तमेऽष्टमे मरणम्।
नॄणां,चतुष्पदां स्याच्चतुर्विध:,पक्षिणां त्रिविध:॥२१॥
सीदत्याद्ये भ्रमति च,चतुष्पदो वेपते,तत: शून्य:।
मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु॥२२॥
ध्यायति विहग: प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु।
स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम्॥२३॥
लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च।
उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञै:॥२४॥
रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति।
कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम्॥२५॥
शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम्।
तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात्॥२६॥
दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम्।
दोषस्थानप्रकृती: प्राप्यान्यतमं ह्युदीरयति॥२७॥
स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु।
तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि॥२८॥
पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत्।
तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि॥२९॥
कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत्।
लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि॥३०॥
दूषीविषं तु शोणितदुष्ट्यारु: किटिमकोठलिङ्गं च।
विषमेकैकं दोषं संदूष्य हरत्यसूनेवम्॥३१॥
क्षरति विषतेजसाऽसृक्
तत् खानि निरुध्य मारयति जन्तुम्।
पीतं मृतस्य हृदि तिष्ठति
दष्टविद्धयोर्दंशदेशे स्यात्॥३२॥
नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपा:।
शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात्॥३३॥
क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि।
एभ्योऽन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे॥३४॥
मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेका:।
अवगाहरक्तमोक्षणवमनविरेकोपधानानि॥३५॥
हृदयावरणाञ्जननस्यधूमलेहौषधप्रशमनानि।
प्रतिसारणं प्रतिविषं संज्ञासंस्थापनं लेप:॥३६॥
मृतसंजीवनमेव च विंशतिरेते चतुर्भिरधिका:।
स्युरुपक्रमा यथा ये यत्र योज्या: शृणु तथा तान्॥३७॥
दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्ध्वा।
निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा॥३८॥
तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन।
प्रच्छनशृङ्गजलौकाव्यधनै: स्राव्यं ततो रक्तम्॥३९॥
रक्ते विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान्।
तस्मात् प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात्॥४०॥
त्रिकटुगृहधूमरजनीपञ्चलवणरोचना: सवार्ताका:।
घर्षणमतिप्रवृत्ते वटादिभि: शीतलैर्लेप:॥४१॥
रक्तं हि विषाधानं वायुरिवाग्ने: प्रदेहसेकैस्तत्।
शीतै: स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेग:॥४२॥
विषवेगान्मदमूर्च्छाविषादहृदयद्रवा: प्रवर्तन्ते।
शीतैर्निवर्तयेत्तान् वीज्यश्चालोमहर्षात् स्यात्॥४३॥
तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम्।
आचूषणमानयनं जलस्य सेतुर्यथा तथाऽरिष्टा:॥४४॥
त्वङ्मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात्।
पीतं वमनै:सद्यो हरेद्विरेकैर्द्वितीये तु॥४५॥
आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम्।
मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा॥४६॥
इक्षुं सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम्।
छागादीनां वाऽसृग्भस्म मृदं वा पिबेदाशु॥४७॥
क्षारागदस्तृतीये शोफहरैर्लेखनं समध्वम्बु।
गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पि:॥४८॥
काकाण्डशिरीषाभ्यां स्वरसेनायोतनाञ्जने नस्यम्।
स्यात्पञ्चमेऽथ षष्ठे संज्ञाया: स्थापनं कार्यम्॥४९॥
गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम्।
विषपानं दष्टानां विषपीते दंशनं चान्ते॥५०॥
शिखिपित्तार्धयुतं स्यात् पलाशबीजमगदो मृतेषु वर:।
वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा॥५१॥
गोपित्तयुतैर्गुटिका: सुरसाग्रन्थिद्विरजनीमधुककुष्ठै:।
शस्ताऽमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा॥५२॥
काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलै:।
उद्बन्धविषजलमृते लेपौपधिनस्यपानानि॥५३॥
स्पृक्काप्लवस्थौणेयकांक्षीशैलेयरोचनातगरम्।
ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम्॥५४॥
बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशाला:।
सुरदारुपद्मकेशरसावरकमन:शिलाकौन्त्य:॥५५॥
जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षा:।
जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च॥५६॥
शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च।
पुष्पे संहृत्य समं पिष्ट्वा गुटिका विघेया: स्यु:॥५७॥
सर्वविषघ्नो जयकृद्विषमृतसंजीवनो ज्वरनिहन्ता।
घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च॥५८॥
भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात्।
दु:स्वपन्स्त्रीदोषानकालमरणाम्बुचौरभयम्॥५९॥
धनधान्यकार्यसिद्धि: श्रीपुष्ट्यायुर्विवर्धनो धन्य:।
मृतसंजीवन एष प्रागमृताद्ब्रह्मणा विहित:॥६०॥
इतिमृतसंजीवनोऽगद:।
मन्त्रैर्धमनीबन्धोऽवमार्जनं कार्यमात्मरक्षा च।
दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम्॥६१॥
वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं च।
घृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे ॥६२॥
क्षारागद: कफस्थानगते स्वेदस्तथा सिराव्यधनम्।
दूषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम्॥६३॥
भेषजमेवं कल्प्यं भिषग्विदाऽऽलक्ष्य सर्वदा सर्वम्।
स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं च॥६४॥
विषदूषितकफमार्ग: स्रोत:संरोधरुद्धवायुस्तु।
मृत इव श्वसेन्मर्त्य: स्यादसाध्यलिङ्गैर्विहीनश्च॥६५॥
चर्मकषाया: कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य।
कृत्वादद्यात्कटभीकटुकट्फलप्रधमनं च॥६६॥
छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा।
दद्यात् काकपदे तस्मिंस्तत: संक्रमते विषम्॥६७॥
नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्त: स्यात्।
वार्ताकुबीजपूरज्योतिष्मत्यादिभि: पिष्टै:॥६८॥
अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु।
दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु॥६९॥
श्वेता वचाऽश्वगन्धा
हिङ्ग्वमृता कुष्ठसैन्धवे लशुनम्।
सर्षपकपित्थमध्यं
टुण्टुककरञ्जबीजानि॥७०॥
व्योषं शिरीषपुष्पं द्विरजन्यौ वंशलोचनं च समम्।
पिष्ट्वाऽजस्य मूत्रेण गोश्वपित्तेन सप्ताहम्॥७१॥
व्यत्यासभावितोऽयं
निहन्ति शिरसि स्थितं विषं क्षिप्रम्।
सर्वज्वरभूतग्रहविसूचिकाजीर्णमूर्च्छार्ती:॥७२॥
उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान्।
शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान्॥७३॥
क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान्।
लेपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती॥७४॥
अर्श:स्वानद्धेषु च गुदलेपो योनिलेपनं स्त्रीणाम्।
मूढे गर्भे दुष्टे ललाटलेप: प्रतिश्याये॥७५॥
वृद्धौ किटिभे कुष्ठे श्वित्रविचर्चिकादिषु लेप:।
गज इव तरून् विषगदान्निहन्त्यगदगन्धहस्त्येष:॥७६॥
इतिगन्धहस्तीनामाऽगद:।
पत्रागुरुमुस्तैला निर्यासा: पञ्च चन्दनं स्पृक्का।
त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखा:॥७७॥
सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम्।
पञ्चाङ्गानि शिरीषाद्व्याेषालमन:शिलाजाज्य:॥७८॥
श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी।
सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासा:॥७९॥
वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा।
मधुमधुकसोमराजीवचारुहारोचनातगरम्॥८०॥
अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्ग:।
अप्रतिहतप्रभाव: ख्यातो महागन्धहस्तीति॥८१॥
पित्तेन गवां पेष्यो गुटिका: कार्यास्तु पुष्ययोगेन।
पानाञ्जनप्रलेपै: प्रसाधयेत् सर्वकर्माणि॥८२॥
पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम्।
हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम्॥८३॥
विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम्।
विषमूषिकलूतानां सर्वेषां पन्नगानां च।
आशु विषं नाशयति समूलजमथ कन्दजं सर्वम्॥८४॥
एतेन लिप्तगात्र: सर्पान् गृह्णाति भक्षयेच्च विषम्।
कालपरीतोऽपि नरो जीवति नित्यं निरातङ्क:॥८५॥
आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम्।
मूर्च्छार्तिषु च ललाटे प्रलेपनमाहु: प्रधानतमम्॥८६॥
भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताका:।
लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान्॥८७॥
यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि।
न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्रा:॥८८॥
सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौरा:।
लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति॥८९॥
पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत्।
‘मम माता जया नाम जयो नामेति मे पिता॥९०॥
सोऽहं जयजयापुत्रो विजयोऽथ जयामि च।
नम: पुरुषसिंहाय विष्णवे विश्वकर्मणे॥९१॥
सनातनाय कृष्णाय भवाय विभवाय च।
तेजो वृषाकपे: साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे॥९२॥
यथाऽहं नाभिजानामि वासुदेवपराजयम्।
मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम्॥९३॥
अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम्।
हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा॥९४॥
इति महागन्धहस्तीनामाऽगद:।
ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्य:।
ससितगिरिकोलमध्या: पेया: श्वासज्वरादिहरा:॥९५॥
हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च।
समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ॥९६॥
लेह: कोलस्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम्।
बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी॥९७॥
शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं च घृतयुक्तम्।
धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत्॥९८॥
घृतयुक्ते नतकुष्ठे भुजगपतिशिर: शिरीषपुष्पं च।
धूमागद: स्मृतोऽयं सर्वविषघ्न: श्वयथुहृच्च॥९९॥
जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसा:।
श्वेता च धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्य:॥१००॥
तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितै: सह समांशै:।
लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकै:॥१०१॥
लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठै:।
सव्योषैर्बाह्लीकैर्दर्वीविलेपनंघट्टयेद्यावत्॥१०२॥
सर्वविषशोथगुल्मत्वग्दोषार्शोभगन्दरप्लीह्न:।
शोथापस्मारक्रिमिभूतस्वरभेदपाण्डुगदान्॥१०३॥
मन्दान्गित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम्।
गुटिकाश्छायाशुष्का: कोलसमास्ता: समुपयुक्ता:॥१०४॥
इतिक्षारागद:।
विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम्।
सामान्यत:, पृथक्त्वान्निर्देशमत: शृणु यथावत्॥१०५॥
रिपुयुक्तेभ्यो नृभ्य: स्वेभ्य: स्त्रीभ्योऽथवा भयं नृपते:।
आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत॥१०६॥
अत्यर्थशङ्कित:स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मी:।
प्राप्त: प्रकृतिविकारं विषप्रदाता नरो ज्ञेय:॥१०७॥
दृष्ट्वैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु।
सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्नि:॥१०८॥
शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च।
स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात्॥१०९॥
पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति।
क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि॥११०॥
पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम्।
पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात्॥१११॥
पानान्नयो:सविषयोर्गन्धेन शिरोरुग्घृदि च मूर्च्छा च।
स्पर्शेन पाणिशोथ: सुप्त्यङ्गुलिदाहतोदनखभेदा:॥११२॥
मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च।
द्विजहर्षहनुस्तम्भास्यदाहलालागलविकारा:॥११३॥
आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेद:।
दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम्॥११४॥
पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशा:।
तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात्॥११५॥
दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च।
केशच्युति: शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे॥११६॥
दुष्टेऽञ्जनेऽक्षिदाहस्रावात्युपदेहशोथरागाश्च।
खाद्यैरादौ कोष्ठ: स्पृश्यैस्त्वग्दूष्यते दुष्टै:॥११७॥
स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टै:।
कण्ड्वर्तिकोठपिडकारोमोद्गमचिमिचिमा शोथा:॥११८॥
एते करचरणदाहतोदक्लमाविपाकाश्च।
भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टै:॥११९॥
माल्यमगन्धं म्लायति शिरोरुजालोमहर्षकरम्।
स्तम्भयति खानि नासामुपहन्ति दर्शनं च धूम:॥१२०॥
कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं च।
पीतं श्वयथुं कोठान् पिडकाश्च करोति मरणं च॥१२१॥
आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि।
कुर्याद्भिषक् चिकित्सां दोषबलं चैव हि समीक्ष्य॥१२२॥
इतिमूलविषविशेषा:प्रोक्ता:
शृणु जङ्गमस्यात:।
सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम्॥१२३॥
इह दर्वीकर: सर्पो मण्डली राजिमानिति।
त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणा:॥१२४॥
दर्वीकर: फणी ज्ञेयो मण्डली मण्डलाफण:।
बिन्दुलेखविचित्राङ्ग: पन्नग: स्यात्तु राजिमान्॥१२५॥
विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्।
विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम्॥१२६॥
दर्वीकरकृतो दंश: सूक्ष्मदंष्ट्रापदोऽसित:।
निरुद्धरक्त: कूर्माभो वातव्याधिकरो मत:॥१२७॥
पृथ्वर्पित: सशोथश्च दंशो मण्डलिना कृत:।
पीताभ: पीतरक्तश्च सर्वपित्तविकारकृत्॥१२८॥
कृतो राजिमता दंश: पिच्छिल: स्थिरशोफकृत्।
स्निग्ध: पाण्डुश्च सान्द्रासृक् श्लेष्मव्याधिसमीरण:॥१२९॥
वृत्तभोगो महाकाय: श्वसन्नूर्ध्वेक्षण: पुमान्।
स्थूलमूर्धा समाङ्गश्च स्त्री त्वत: स्याद्विपर्ययात्॥१३०॥
क्लीबस्त्रसत्यधोदृष्टि: स्वरहीन: प्रकम्पते।
स्त्रिया दष्टो विपर्यस्तैरेतै: पुंसा नरो मत:॥१३१॥
व्यामिश्रिलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत्।
इत्येतदुक्तं सर्पाणां स्त्रीपुंक्लीबनिदर्शनम्॥१३२॥
पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षण:।
जृम्भाक्रोधोपजिह्वार्त: सूतया रक्तमूत्रवान्॥१३३॥
सर्पोगौधेर(य)को नाम गोधायां स्याच्चतुष्पद:।
कृष्णसर्पेण तुल्य: स्यान्नाना स्युर्मिश्रजातय:॥१३४॥
गूढसंपादितं वृत्तं पीडितं लम्बितार्पितम्।
सर्पितं च भृशाबाधं, दंशा येऽन्ये न ते भृशा:॥१३५॥
तरुणा: कृष्णसर्पास्तु गोनसा: स्थविरास्तथा।
राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमा:॥१३६॥
सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता।
पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरोत्तरा॥१३७॥
यन्मात्र: पतते बिन्दुर्गोबालात् सलिलोद्धृतात्।
वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेर्विषम्॥१३८॥
एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तरा:।
सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशा:॥१३९॥
सर्पाणामेव विण्मूत्रात् कीटा: स्यु: कीटसंमता:।
दूषीविषा: प्राणहरा इति संक्षेपतो मता:॥१४०॥
गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम्।
सकण्डूदाहवीसर्पपाकि स्यात् कुथितं तथा॥१४१॥
कीटैर्दूषीविषैर्दष्टं लिङ्गं प्राणहरं शृणु।
सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक्॥१४२॥
दंशोऽक्षिगौरवं मूर्च्छा स रुगार्त: श्वसित्यपि।
तृष्णारुचिपरीतश्च भवेद्दूषीविषार्दित:॥१४३॥
दंशस्य मध्ये यत् कृष्णं श्यावं वा जालकावृतम्।
दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम्॥१४४॥
दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत्
सर्वासामेव तासां च दंशे लक्षणमुच्यते॥१४५॥
शोफ: श्वेतासिता रक्ता: पीता वा पिडका ज्वर:।
प्राणान्तिको भवेच्छ्वासो दाहहिक्काशिरोग्रहा:॥१४६॥
आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचि:।
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते॥१४७॥
मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वरा:।
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकै:॥१४८॥
श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा।
मोह: पुरीषभेदश्च दष्टे स्यात् कृकलासकै:॥१४९॥
दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च।
वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति॥१५०॥
दष्टोऽसाध्यस्तु दृग्घ्राणरसनोपहतो नर:।
मांसै: पतद्भिरत्यर्थं वेदनार्तो जहात्यसून्॥१५१॥
विसर्प: श्वयथु: शूलं ज्वरश्छर्दिरथापि च।
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते॥१५२॥
हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्।
दष्ट: शीतोदकेनेव सिक्तान्यङ्गानि मन्यते॥१५३॥
एकदंष्ट्रार्दित: शून: सरुक् स्यात् पीतक: सतृट्।
छर्दिर्निद्रा च मण्डूकै: सविषैर्दष्टलक्षणम्॥१५४॥
मत्स्यास्तु सविषा: कुर्युर्दाहशोफरुजस्तथा।
कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकस:॥१५५॥
दाहतोदस्वेदशोथकरी तु गृहगोधिका।
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम्॥१५६॥
कण्डूमान्मशकैरीषच्छोथ: स्यान्मन्दवेदन:।
असाध्यकीटसदृशमसाध्यमशकक्षतम्॥१५७॥
सद्य:प्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता।
पीडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत्॥१५८॥
श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये।
पक्षसन्धिषु मध्याह्ने सार्धरात्रेऽष्टमीषु च॥१५९॥
नसिद्ध्यन्ति नरा दष्टा: पाषण्डायतनेषु च।
दृष्टिश्वासमलस्पर्शविषैराशीविषैस्तथा॥१६०॥
विनश्यन्त्याशु संप्राप्ता दष्टा: सर्वेषु मर्मसु।
(येन केनापि सर्पेण संभव: सर्व एव च)॥१६१॥
भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम्।
विषं प्रकृतिकालौ च तुल्यौ प्राप्याल्पमन्यथा॥१६२॥
वारिविप्रहता: क्षीणा भीता नकुलनिर्जिता:।
वृद्धा बालास्त्वचो मुक्ता: सर्पा मन्दविषा: स्मृता:॥१६३॥
सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति।
तदेवाहारहेतोर्वा भयाद्वा न प्रमुञ्चति॥१६४॥
वातोल्बणविषा: प्राय उच्चिटिङ्गा: सवृश्चिका:।
वातपित्तोल्बणा: कीटा: श्लैष्मिका: कणभादय:॥१६५॥
यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत्।
तस्य तस्यौषधै: कुर्याद्विपरीतगुणै: क्रियाम्॥१६६॥
हृत्पीडोर्ध्वानिल: स्तम्भ: सिरामयोऽस्थिपर्वरुक्।
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे॥१६७॥
संज्ञानाशोष्णनिश्वासौ हृद्दाह: कटुकास्यता।
दंशावदरणं शोथो रक्तपीतश्च पैत्तिके॥१६८॥
वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवै:।
सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्॥१६९॥
खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके।
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हित:॥१७०॥
सुशीतै: स्तम्भयेत् सेकै: प्रदेहैश्चापि पैत्तिकम्।
लेखनच्छेदनस्वेदवमनै: श्लैष्मिकं जयेत्॥१७१॥
विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च।
अवृश्चिकोच्चिटिङ्गेषु प्राय: शीतोविधिर्हित:॥१७२॥
वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च।
सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानं च सर्पिष:॥१७३॥
एतदेवोच्चिटिङ्गेऽपि प्रतिलोमं च पांशुभि:।
उद्वर्तनं सुखाम्बूष्णैस्तथाऽवच्छादनं घनै:॥१७४॥
श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात्।
शिरोऽभितापी लालास्राव्यधोवक्रस्तथा भवेत्॥१७५॥
अन्येऽप्येवंविधा व्याला: कफवातप्रकोपणा:।
हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मता:॥१७६॥
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम्।
विदाहरागरुक्पाका: शोफो ग्रन्थिनिकुञ्चनम्॥१७७॥
दंशावदरणं स्फोटा: कर्णिका मण्डलानि च।
ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे॥१७८॥
तत्र सर्वे यथावस्थं प्रयोज्या: स्युरुपक्रमा:।
पूर्वोक्ता विधिमन्यं च यथावद्ब्रुवत: शृणु॥१७९॥
हृद्विदाहे प्रसेके वा विरेकवमनं भृशम्।
यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रम:॥१८०॥
शिरोगते विषे नस्त: कुर्यान्मूलानि बुद्धिमान्।
बन्धुजीवस्य भार्ग्याश्च सुरसस्यासितस्य च॥१८१॥
दक्षकाकमयूराणां मांसासृङ्मस्तके क्षते।
उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयो:॥१८२॥
पिप्पलीमरिचक्षारवचासैन्धवशिग्रुका:।
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्॥१८३॥
कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्॥१८४॥
विषे पक्वाशयगते पिप्पलीं रजनीद्वयम्।
मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नर: पिबेत्॥१८५॥
रक्तं मांसं च गोधाया: शुष्कं चूर्णीकृतं हितम्।
विषे रसगते पानं कपित्थरसंयुतम्॥१८६॥
शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि च।
कटभ्याश्च पिबेद्रक्तगते, मांसगते पिबेत्॥१८७॥
सक्षौद्रं खदिरारिष्टं कौटजं मूलमम्भसा।
सर्वेषु च बले द्वे तु मधूकं मधुकं नतम्॥१८८॥
पिप्पलीं नागरं क्षारं नवनीतेन मूर्च्छितम्।
कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम्॥१८९॥
मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनै:।
मन:शिलाव्याघ्रनखसुरसैरम्बुपेषितै:॥१९०॥
पाननस्याञ्जनालेपा: सर्वशोथविषापहा:।
चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव च॥१९१॥
मनःशिला तमालश्च रस: कैशर एव च।
शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना॥१९२॥
हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान्।
रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम्॥१९३॥
भावितं सर्पदष्टानां नस्यपानाञ्जने हितम्।
द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम्॥१९४॥
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्।
सिन्धुवारस्य मूलं च श्वेता च गिरिकर्णिका॥१९५॥
पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम्।
मज्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता॥१९६॥
काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे।
व्योषं सातिविषं कुष्ठं गृहधूमो हरेणूका॥१९७॥
तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम्।
गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्॥१९८॥
अपि वासुकिना दष्ट: पिबेन्मधुघृताप्लुतम्।
क्षीरिवृक्षत्वगालेप: शुद्धे कीटविषापह:॥१९९॥
मुक्तालेपो वर: शोथदाहतोदज्वरापह:।
चन्दनं पद्मकोशीरं शिरीष: सिन्धुवारिका॥२००॥
क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवा:।
शेलुस्वरसपिष्टोऽयं लूतानां सार्वकार्मिक:॥२०१॥
(यथायोगं प्रयोक्तव्य: समीक्ष्यालेपनादिषु)।
मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटला:॥२०२॥
सनिम्बसारिवाक्षौद्रा: पानं लूताविषापहम्।
कुसुम्भपुष्पं गोदन्त: स्वर्णक्षीरी कपोतविट्।
दन्ती त्रिवृत्सैन्धवं च कर्णिकापातनं तयो:॥२०३॥
कटभ्यर्जुनशैरीषशेलुक्षीरिद्रुमत्वच:।
कषायकल्कचूर्णा: स्यु: कीटलूताव्रणापहा:॥२०४॥
त्वचं च नागरं चैव समांशं श्लेक्ष्णपेषितम्।
पेयमुष्णाम्बुना सर्वं मूषिकाणां विषापहम्॥२०५॥
कुटजस्य फलं पिष्टं तगरं जालमालिनी।
तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभि:॥२०६॥
वृश्चिकोन्दुरुलूतानां सर्पाणां च विषं हरेत्।
समानो ह्यमृतेनायं गराजीर्णं च नाशयेत्॥२०७॥
सर्वेऽगदा यथादोषं प्रयोज्या: स्यु: कृकण्टके।
कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रस:॥२०८॥
शाङ्खिन्यार्कं पय: शुण्ठी करञ्जो मधु वार्श्चिके।
शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे॥२०९॥
मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे।
कीटदष्टक्रिया: सर्वा: समाना: स्युर्जलौकसाम्॥२१०॥
वातपित्तहरी चापि क्रिया प्राय: प्रशस्यते।
वार्श्चिको ह्युच्चिटिङ्गस्य कणभस्यौन्दुरोऽगद:॥२११॥
वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्।
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्॥२१२॥
गुहामतिगुहां श्वेतामजगन्धां शिलाजतु।
कत्तृणं कटभीं क्षारं गृहधूमं मन:शिलाम्॥२१३॥
रोहितकस्य पित्तेन पिष्ट्वा तु परमोऽगद:।
नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु॥२१४॥
स्वर्जिकाऽजशकृत्क्षार: सुरसाऽथाक्षिपीडक:।
मदिरामण्डसंयुक्तो हित: शतपदीविषे॥२१५॥
कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकं तथा।
करञ्जो द्वे हरिद्रे च गृहगोधाविषं जयेत्॥२१६॥
काकाण्डरससंयुक्तो विषाणां तण्डुलीयक:।
प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुक:॥२१७॥
शिरीषफलमूलत्वक्पुष्पपत्रै: समैर्धृतै:।
श्रेष्ठ: पञ्चशिरीषोऽयं विषाणां प्रवरो वधे॥२१८॥
इति पञ्चशिरीषोऽगद:।
चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत्।
शूयते पच्यते चापि स्रवति ज्वरयत्यपि॥२१९॥
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि।
रजन्यौ गैरिकं लेपो नखदन्तविषापह:॥२२०॥
दुरन्धकारे विद्धस्य केनचिद्विषशङ्कया।
विषोद्वेगाज्जवरश्छर्दिर्मूर्च्छा दाहोऽपि वा भवेत्॥२२१॥
ग्लानिर्मोहोऽतिसारश्चाप्येतच्छङ्काविषं मतम्।
चिकित्सितमिदं तस्य कुर्यादाश्वासयन् बुध:॥२२२॥
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु।
पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम्॥२२३॥
शालय: षष्टिकाश्चैव कोरदूषा: प्रियङ्गव:।
भोजनार्थे प्रशस्यन्ते लवणार्थे च सैन्धवम्॥२२४॥
तण्डुलीयकजीयन्तीवार्ताकसुनिषण्णका:।
चुच्चूर्मण्डूकपर्णी च शाकं च कुलकं हितम्॥२२५॥
धात्री दाडिममम्लार्थे यूषा मुद्गहरेणुभि:।
रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षता:॥२२६॥
विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृता:।
अविदाहीनि चान्नानि विषार्तानां भिषग्जितम्॥२२७॥
विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्।
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषत:॥२२८॥
मुहुर्मुहु: शिरोन्यास: शोथ: स्रस्तौष्ठकर्णता।
ज्वर: स्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम्॥२२९॥
रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रम:।
चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम्॥२३०॥
देवदारु हरिद्रे द्वे सरलं चन्दनागुरु।
रास्ना गोरोचनाऽजाजी गुग्गुल्विक्षुरसो नतम्॥२३१॥
चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम्।
चतुष्पदानां दष्टानामगद: सार्वकार्मिक:॥२३२॥
सौभाग्यार्थं स्त्रिय: स्वेदरजोनानाङ्गजान्मलान्।
शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान्॥२३३॥
तै: स्यात् पाण्डु: कृशोऽल्पाग्निर्गरश्चास्योपजायते।
मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयो:॥२३४॥
जठरं ग्रहणीदोषो यक्ष्मा गुल्म: क्षयोज्वर:।
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत्॥२३५॥
स्वप्ने मार्जारगोमायुव्यालान् सनकुलान् कपीन्।
प्राय: पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन्॥२३६॥
कालश्च गौरमात्मानं स्वप्ने गौरश्चकालकम्।
विकर्णनासिकं वाऽपि प्रपश्येद्विहतेन्द्रिय:॥२३७॥
तमवेक्ष्य भिषक् प्राज्ञ: पृच्छेत् किं कै: कदा सह।
जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक्॥२३८॥
सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम्।
शुद्धे हृदि तत: शाणं हेमचूर्णस्य दापयेत्॥२३९॥
हेम सर्वविषाण्याशु गरांश्च विनियच्छति।
न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत्॥२४०॥
नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्पय: फलै:।
साधितं माहिषं सर्पि: सगोमूत्राढकं हितम्॥२४१॥
सर्पकीटविषार्तानां गरार्तानां च शान्तये।
शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले॥२४२॥
द्वे बले सारिवास्फोतासुरभीनिम्बपाटला:।
बन्धुजीवाढकीमूर्वावासासुरसवत्सकान्॥२४३॥
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्।
विशालां बृहतीं लाक्षां कोविदारं शतावरीम्॥२४४॥
कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम्।
श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान्॥२४५॥
विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ।
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्॥२४६॥
तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्।
अपस्मारक्षयोन्मादभूतग्रहगरोदरम्॥२४७॥
पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामला:।
हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनै:॥२४८॥
हन्यात् संजीवयेच्चापि विषोद्बन्धमृतान्नरान्।
नाम्नेदममृतं सर्वविषाणां स्याद्घृतोत्तमम्॥२४९॥
इत्यमृतघृतम्।
भवन्तिचात्र–
छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा।
तच्छायाशब्दवित्रस्ता: प्रणश्यन्त्याशु पन्नगा:॥२५०॥
दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा।
उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा॥२५१॥
वज्रं मरकत: सार: पिचुको विषमूषिका।
कर्केतन: सर्पमणिर्वैदूर्यं गजमौक्तिकम्॥२५२॥
धार्यं गरमणिर्याश्च वरौषध्यो विषापहा:।
खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादय:॥२५३॥
तत्र श्लोक:–
इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम्।
अधीत्य विज्ञाय तथा प्रयोजयन्
व्रजेद्विषाणामविषह्यतां बुध:॥२५४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विषचिकित्सितं नाम
त्रयोविंशोऽध्याय:॥२३॥
Last updated on June 29th, 2021 at 10:56 am