चरकसंहिता
चिकित्सास्थानम् ।
विंशोऽध्याय: ।
अथातश्छर्दिचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
यशस्विनं ब्रह्मतपोद्युतिभ्यां
ज्वलन्तग्न्यमर्कसमप्रभावम् ।
पुनर्वसुं भूतहिते निविष्टं
पप्रच्छ शिष्योऽत्रिजमग्निवेश: ॥३॥
याश्छर्दय: पञ्च पुरा त्वयोक्ता
रोगाधिकारे भिषजां वरिष्ठ !।
तासां चिकित्सां सनिदानलिङ्गां
यथावदाचक्ष्व नृणां हितार्थम् ॥४॥
तदग्निवेशस्य वचो निशम्य
प्रीतो भिषक्श्रेष्ठ इदं जगाद ।
याश्छर्दय: पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबोध ॥५॥
दोषै: पृथक्त्रिप्रभवाश्चतस्रो
द्विष्टार्थयोगादपि पञ्चमी स्यात् ।
तासां हृदुत्क्लेशकफप्रसेकौ
द्वेषोऽशने चैव हि पूर्वरूपम् ॥६॥
व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य ।
वायुर्महास्रोतसि संप्रवृद्ध
उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन् ॥७॥
आमाशयोत्क्लेशकृतां च मर्म
प्रपीडयंश्छर्दिमुदीरयेत्तु ।
हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदै: ॥८॥
उद्गारशब्दप्रबलं सफेनं
विच्छिन्नकृष्णं तनुकं कषायम् ।
कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दु:खम् ॥९॥
अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम् ।
रसायनीभिर्विसृतं प्रपीड्य
मर्मोर्ध्वमागम्य वमिं करोति ॥१०॥
मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसंतापतमोभ्रमार्त: ।
पीतं भृशोष्णं हरितं सतिक्तं
धूम्रं च पित्तेन वमेत् सदाहम् ॥११॥
स्निग्धातिगुर्वामविदाहिभोज्यै:
स्वप्नादिभिश्चैव कफोऽतिवृद्ध: ।
उर: शिरो मर्म रसायनीश्च
सर्वा: समावृत्य वमिं करोति ॥१२॥
तन्द्रास्यमाधुर्यकफप्रसेकसंतोषनिद्रारुचिगौरवार्त: ।
स्निग्धं घनं स्वादु कफाद्विशुद्धं
सलोमहर्षोऽल्परुजं वमेत्तु ॥१३॥
समश्नत: सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च ।
सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषा: ॥१४॥
शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम् ।
छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥१५॥
विट्स्वेदमूत्राम्बुवहानि वायु:
स्रोतांसि संरुध्य यदोर्ध्वमेति ।
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात् ॥१६॥
विण्मूत्रयोस्तत् समवर्णगन्धं
तृट्श्वासहिक्कार्तियुतं प्रसक्तम् ।
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति ॥१७॥
द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च ।
यच्छर्दयेत्तप्तमना मनोघ्नैर्द्विष्टार्थसंयोगभवा मता सा ॥१८॥
क्षीणस्य या छर्दिरतिप्रवृद्धा
सोपद्रवा शोणितपूययुक्ता ।
सचन्द्रिकां तां प्रवदन्त्यसाध्यां
साध्यां चिकित्सेदनुपद्रवां च ॥१९॥
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात् ।
प्राक्कारयेन्मारुतजां विमुच्य
संशोधनं वा कफपित्तहारि ॥२०॥
चूर्णानि लिह्यान्मधुनाऽभयानां
हृद्यानि वा यानि विरेचनानि ।
मद्यै: पयोभिश्च युतानि युक्त्या
नयन्त्यधो दोषमुदीर्णमूर्ध्वम् ॥२१॥
वल्लीफलाद्यैर्वमनं पिबेद्वा
यो दुर्बलस्तं शमनैश्चिकित्सेत् ।
रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यै: सभोज्यैर्विविधैश्च पानै: ॥२२॥
सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम् ।
छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूष: ॥२३॥
वातात्मिकायां हृदयद्रवार्तो
नर: पिबेत् सैन्धववद्धृतं तु ।
सिद्धं तथा धान्यकनागराभ्यां
दध्ना च तोयेन च दाडिमस्य ॥२४॥
व्योषेण युक्तां लवणैस्त्रिभिश्च
घृतस्य मात्रामथवा विदध्यात् ।
स्निग्धानि हृद्यानि च भोजनानि
रसै: सयूषैर्दधिदाडिमाम्लै: ॥२५॥
पित्तात्मिकायामनुलोमनार्थं
द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात् ।
कफाशयस्थं त्वतिमात्रवृद्धं
पित्तं हरेत् स्वादुभिरूर्ध्वमेव ॥२६॥
शुद्धाय काले मधुशर्कराभ्यां
लाजैश्च मन्थं यदि वाऽपि पेयाम् ।
प्रदापयेन्मुद्गरसेन वाऽपि
शाल्योदनं जाङ्गलजै रसैर्वा ॥२७॥
सितोपलामाक्षिकपिप्पलीभि:
कुल्माषलाजायवसक्तुगृञ्जान् ।
खर्जूरमांसान्यथ नारिकेलं
द्राक्षामथो वा बदराणि लिह्यात् ॥२८॥
स्रोतोजलाजोत्पकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां च ।
कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा ॥२९॥
द्राक्षारसं वाऽपि पिबेत् सुशीतं
मृद्भृष्टलोष्टप्रभवं जलं वा ।
जम्ब्वाम्रयो: पल्लवजं कषायं
पिबेत् सुशीतं मधुसंयुतं वा ॥३०॥
निशि स्थितं वारि समुद्गकृष्णं
सोशीरधान्यं चणकोदकं वा ।
गवेधुकामूलजलं गुडूच्या
जलं पिबेदिक्षुरसं पयो वा ॥३१॥
सेव्यं पिबेत् काञ्चनगैरिकं वा
सबालकं तण्डुलधावनेन ।
धात्रीरसेनोत्तमचन्दनं वा
तृष्णावमिघ्नानि समाक्षिकाणि ॥३२॥
कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम् ।
शीताम्बुना गैरिकशालिचूर्णं
मूर्वां तथा तण्डुलधावनेन ॥३३॥
कफात्मिकायां वमनं प्रशस्तं
सपिप्पलीसर्षपनिम्बतोयै: ।
पिण्डीतकै: सैन्धवसंप्रयुक्तैर्वम्यां कफामाशयशोधनार्थम् ॥३४॥
गोधूमशालीन् सयवान् पुराणान्
यूषै: पटोलामृतचित्रकाणाम् ।
व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषै: फलाम्लै: कटुभिस्तथाऽद्यात् ॥३५॥
रसांश्च शूल्यानि च जाङ्गलानां
मांसानि जीर्णान्मधुसीध्वरिष्टान् ।
रागांस्तथा षाडवपानकानि
द्राक्षाकपित्थै: फलपूरकैश्च ॥३६॥
मुद्गान्मसूराश्चणकान् कलायान्
भृष्टान् युतान्नागरमाक्षिकाभ्याम् ।
लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो वा ॥३७॥
सजाम्बवं वा बदराम्लचूर्णं
मुस्तायुतां कर्कटकस्य शृङ्गीम् ।
दुरालभां वा मधुसंप्रयुक्तां
लिह्यात् कफच्छर्दिविनिग्रहार्थम् ॥३८॥
मन:शिलाया: फलपूरकस्य
रसै: कपित्थस्य च पिप्पलीनाम् ।
क्षौद्रेण चूर्णं मरिचैश्च युक्तं
लिहञ्जयेच्छर्दिमुदीर्णवेगाम् ॥३९॥
यैषा पृथक्त्वेन मया क्रियोक्ता
तां सन्निपातेऽपि समस्य बुद्ध्या ।
दोषर्तुरोगाग्निबलान्यवेक्ष्य
प्रयोजयेच्छास्त्रविदप्रमत्त: ॥४०॥
मनोभिघाते तु मनोनुकुला
वाच: समाश्वासनहर्षणानि ।
लोकप्रसिद्धा: श्रुतयो वयस्या:
शृङ्गारिकाश्चैव हिता विहारा: ॥४१॥
गन्धा विचित्रा मनसोऽनुकूला
मृत्पुष्पशुक्ताम्लफलादिकानाम् ।
शाकानि भोज्यान्यथ पानकानि
सुसंस्कृता: षाडवरागलेहा: ॥४२॥
यूषा रसा: काम्बलिका खडाश्च
मांसानि धाना विविधाश्च भक्ष्या: ।
फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति ॥४३॥
गन्धं रसं स्पर्शमथापि शब्दं
रूपं च यद्यत् प्रियमप्यसात्म्यम् ।
तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोग: सुख एव जेतुम् ॥४४॥
छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम् ।
अतिप्रवृत्तासु विरेचनस्य
कर्मातियोगे विहितं विधेयम् ॥४५॥
वमिप्रसङ्गात् पवनोऽप्यवश्यं
धातुक्षयाद्वृद्धिमुपैति तस्मात् ।
चिरप्रवृत्तास्वनिलापहानि
कार्याण्युपस्तम्भनबृंहणानि ॥४६॥
सर्पिर्गुडा: क्षीरविधिर्घृतानि
कल्याणकत्र्यूषणजीवनानि ।
वृष्यास्तथा मांसरसा: सलेहाश्चिरप्रसक्तां च वमिं जयन्ति ॥४७॥
तत्र श्लोक:–
हेतुं संख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च ।
छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्य: ॥४८॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने छर्दिचिकित्सितं
नाम विंशोऽध्याय: ॥२०॥
Last updated on June 24th, 2021 at 10:52 am