सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
षोडशोऽध्यायः ।
अथातो विद्रधीनां चिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
उक्ता विद्रधयः षड्ये तेष्वसाध्यस्तु सर्वजः |
शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया ||३||
वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः |
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्रधौ ||४||
सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः |
स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने ||५||
वेशवारैः सकृशरैः पयोभिः पायसैस्तथा |
स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् ||६||
स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि |
तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत् ||७||
पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः |
तैलैर्भद्रादिमधुकसंयुक्तैः प्रतिपूरयेत् ||८||
वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च |
पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत् ||९||
पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः |
प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ||१०||
पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा |
जीवनीयघृतैर्वाऽपि सेचयेर्च्छ्करायुतैः ||११||
त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम् |
जलौकोभिर्हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् ||१२||
क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा |
तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः ||१३||
उपदिह्य प्रतनुना वाससा वेष्टयेद्व्रणम् |
प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः ||१४||
सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् |
क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः ||१५||
न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम् |
नक्तमालस्य पत्राणि तरुणानि फलानि च ||१६||
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा |
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी ||१७||
प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च |
मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत् ||१८||
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् |
दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम् ||१९||
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम् |
दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः ||२०||
नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च |
अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि ||२१||
करञ्जाद्येन हविषा प्रशाम्यन्ति न संशयः |
इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः ||२२||
मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम् |
कषायपानैर्वमनैरालेपैरुपनाहनैः ||२३||
हरेद्दोषानभीक्ष्णं चाप्यलाब्वाऽसृक् तथैव च |
आरग्वधकषायेण पक्वं चापाट्य धावयेत् ||२४||
हरिद्रात्रिवृताशक्तुतिलैर्मधुसमायुतैः |
पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा ||२५||
ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः |
कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम् ||२६||
पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः |
विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः ||२७||
वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते |
ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः ||२८||
अनयोर्वर्गयोः सिद्धं सर्पिर्वैरेचनेन च |
अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम् ||२९||
एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम् |
कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ||३०||
पानालेपनभोज्येषु मधुशिग्रुद्रुमोऽपि वा |
दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम् ||३१||
तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः |
यथादोषगणक्वाथैः पिबेद्वाऽपि शिलाजतु ||३२||
प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च |
स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम् ||३३||
यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक् |
रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु ||३४||
पक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत् |
स्रुतेषूर्ध्वमधो वाऽपि मैरेयाम्लसुरासवैः ||३५||
पेयो वरुणकादिस्तु मधुशिग्रुद्रुमोऽपि वा |
शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम् ||३६||
यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः |
प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम् ||३७||
त्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये |
नोपगच्छेद्यथापाकं प्रयतेत तथा भिषक् ||३८||
पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता |
प्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्रधौ ||३९||
स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचनम् |
विद्रध्युक्तां क्रियां कुर्यात् पक्वे वाऽस्थि तु भेदयेत् ||४०||
निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम् |
धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ||४१||
यदि मज्जपरिस्रावो न निवर्तेत देहिनः |
कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ||४२||
प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम् |
एतैस्तैलं विपक्तव्यं विद्रधिव्रणरोपणम् ||४३||
इति सुश्रुतसंहितायां चिकित्सास्थाने विद्रधिचिकित्सितं नाम षोडशोऽध्यायः ||१६||
Last updated on July 8th, 2021 at 09:24 am