चरकसंहिता
चिकित्सास्थानम् ।
त्रयोदशोऽध्याय: ।
अथात उदरचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे ।
तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम् ॥३॥
आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम् ।
पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वच: ॥४॥
भगवन्नुदरैर्दु:खैर्दृश्यन्ते ह्यर्दिता नरा: ।
शुष्कवक्त्रा: कृशैर्गात्रैराध्मातोदरकुक्षय: ॥५॥
प्रनष्टाग्निबलाहारा: सर्वचेष्टास्वनीश्वरा: ।
दीना: प्रतिक्रियाभावाज्जहतोऽसूननाथवत् ॥६॥
तेषामायतनं संख्यां प्राग्रूपाकृतिभेषजम् ।
यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम् ॥७॥
सर्वभूतहितायर्षि: शिष्येणैवं प्रचोदित: ।
सर्वभूतहितं वाक्यं व्याहर्तुमुपचक्रमे ॥८॥
अग्निदोषान्मनुष्याणां रोगसङ्घा: पृथग्विधा: ।
मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु ॥९॥
मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसंचय: ।
प्राणाग्न्यपानान् संदूष्य मार्गान्रुद्ध्वाऽधरोत्तरान् ॥१०॥
त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम् ।
जनयत्युदरं तस्य हेतुं शृणु सलक्षणम् ॥११॥
अत्युष्णलवणक्षारविदाह्यम्लगराशनात् ।
मिथ्यासंसर्जनाद्रूक्षविरुद्धाशुचिभोजनात् ॥१२॥
प्लीहार्शोग्रहणीदोषकर्शनात् कर्मविभ्रमात् ।
क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात् ॥१३॥
स्रोतसां दूषणादामात् संक्षोभादतिपूरणात् ।
अर्शोबालशकृद्रोधादन्त्रस्फुटनभेदनात् ॥१४॥
अतिसंचितदोषाणां पापं कर्म च कुर्वताम् ।
उदराण्युपजायन्ते मन्दाग्नीनां विशेषत: ॥१५॥
क्षुन्नाश: स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात् ।
भुक्तं विदह्यते सर्वं जीर्णाजीर्णं न वेत्ति च ॥१६॥
सहते नातिसौहित्यमीषच्छोफश्च पादयो: ।
शश्वद्बलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति ॥१७॥
वृद्धि: पुरीषनिचयो रूक्षोदावर्तहेतुका।
बस्तिसन्धौ रुगाध्मानं वर्धते पाट्यतेऽपि च ॥१८॥
आतन्यते च जठरमपि लघ्वल्पभोजनात् ।
राजीजन्म वलीनाश इति लिङ्गं भविष्यताम् ॥१९॥
रुद्ध्वा स्वेदाम्बुवाहीनि दोषा: स्रोतांसि संचिता: ।
प्राणाग्न्यपानान् संदूष्य जनयन्त्युदरं नृणाम् ॥२०॥
कुक्षेराध्मानमाटोप: शोफ: पादकरस्य च ।
मन्दोऽग्नि: श्लक्ष्णगण्डत्वं कार्श्यं चोदरलक्षणम् ॥२१॥
पृथग्दोषै: समस्तैश्च प्लीहबद्धक्षतोदकै: ।
संभवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ॥२२॥
रूक्षाल्पभोजनायासवेगोदावर्तकर्शनै: ।
वायु: प्रकुपित: कुक्षिहृद्बस्तिगुदमार्गग: ॥२३॥
हत्वाऽग्निं कफमुद्धूय तेन रुद्धगतिस्तत: ।
आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रित: ॥२४॥
तस्य रूपाणि-कुक्षिपाणिपादवृषणश्वयथु:, उदरविपाटनम्, अनियतौ च वृद्धिह्रासौ, कुक्षिपार्श्वशूलोदावर्ताङ्गमर्दपर्वभेद- शुष्ककासकार्श्यदौर्बल्यारोचकाविपाका:, अधोगुरुत्वं, वातवर्चोमूत्रसङ्ग:, श्यावारुणत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं तन्वसितराजीसिरासंततम्, आहतमाध्मातदृतिशब्दवद्भवति, वायुश्चोर्ध्वमधस्तिर्यक् च सशूलशब्दश्चरति, एतद्वातोदरमिति विद्यात् ॥२५॥
कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनै: ।
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम् ॥२६॥
प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम् ।
निहन्त्यामाशये वह्निं जनयत्युदरं तत: ॥२७॥
तस्य रूपाणि– दाहज्वरतृष्णामूर्च्छातीसारभ्रमा:, कटुकास्यत्वं, हरितहारिद्रत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं नीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते, दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्यते, मृदुस्पर्शं क्षिप्रपाकं च भवति, एतत् पित्तोदरमिति विद्यात् ॥२८॥
अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलै: ।
दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितै: ॥९॥
क्रुद्धेन श्लेष्मणा स्रोत:स्वावृतेष्वावृतोऽनिल: ।
तमेव पीडयन् कुर्यादुदरं बहिरन्त्रग: ॥३०॥
तस्य रूपाणि–गौरवारोचकाविपाकाङ्गमर्दा:, सुप्ति:, पाणिपादमुष्कोरुशोफ:, उत्क्लेशनिद्राकासश्वासा:, शुक्लत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं शुक्लराजीसिरासंततं, गुरु, स्तिमितं, स्थिरं, कठिनं च भवति, एतच्छ्लेष्मोदरमिति विद्यात् ॥३१॥
दुर्बलाग्नेरपथ्यामविरोधिगुरुभोजनै: ।
स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिभि: ॥३२॥
विषैश्च मन्दैर्वाताद्या: कुपिता: संचयं त्रय: ।
शनै: कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम् ॥३३॥
तस्य रूपाणि–सर्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते, वर्णाश्च सर्वे नखादिषु, उदरमपि नानावर्ण- राजीसिरासंततं भवति, एतत् सन्निपातोदरमिति विद्यात् ॥३४॥
अशितस्यातिसंक्षोभाद्यानयानातिचेष्टितै: ।
अतिव्यवायभाराध्ववमनव्याधिकर्शनै: ॥३५॥
वामपार्श्वाश्रित: प्लीहा च्युत: स्थानात् प्रवर्धते ।
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ॥३६॥
तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमान: कच्छपसंस्थान उपलभ्यते; स चोपेक्षित: क्रमेण कुक्षिंजठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति ॥३७॥
तस्य रूपाणि– दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतम:प्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसादकासश्वासमृदुज्वरानाहाग्नि- नाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वा नीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोध इति, एतत् प्लीहोदरमिति विद्यात् ॥३८॥
पक्ष्मबालै: सहान्नेन भुक्तैर्बद्धायने गुदे ।
उदावर्तैस्तथाऽर्शोभिरन्त्रसंमूर्च्छनेन वा ॥३९॥
अपानो मार्गसंरोधाद्धत्वाऽग्निं कुपितोऽनिल: ।
वर्च:पित्तकफान् रुद्ध्वा जनयन्त्युदरं तत: ॥४०॥
तस्य रूपाणि– तृष्णादाहज्वरमुखतालुशोषोरुसादकासश्वासदौर्बल्यारोचकाविपाकवर्चोमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरो- हृन्नाभिगुदशूलानि, अपि चोदरं मूढवातं स्थिरमरुणं नीलराजि सिरावनद्धराजिकं वा प्रायो नाभ्युपरि गोपुच्छवदभिनिर्वर्तत इति, एतद्बद्धगुदोदरमिति विद्यात् ॥४१॥
शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतै: ।
भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा ॥४२॥
पाकं गच्छेद्रसस्तेभ्यश्छिद्रेभ्य: प्रस्रवद्बहि:।
पूरयन् गुदमन्त्रं च जनयत्युदरं तत: ॥४३॥
तस्य रूपाणि-तदधो नाभ्या: प्रायोऽभिवर्धमानमुदकोदरं भवति, यथाबलं च दोषाणां रूपाणि दर्शयति, अपि चातुर: सलोहितनीलपीतपिच्छिलकुणपगन्धामवर्च उपवेशते, हिक्काश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च भवति, एतच्छिद्रोदरमिति विद्यात् ॥४४॥
स्नेहपीतस्य मन्दाग्ने: क्षीणस्यातिकृशस्य वा ।
अत्यम्बुपानान्नष्टेऽग्नौ मारुत: क्लोम्नि संस्थित: ॥४५॥
स्रोत:सु रुद्धमार्गेषु कफश्चोदकमूर्च्छित: ।
वर्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ ॥४६॥
तस्य रूपाणि–अनन्नकाङ्क्षापिपासागुदस्रावशूलश्वासकासदौर्बल्यानि, अपि चोदरं नानावर्णराजिसिरासंततमुदकपूर्णदृतिक्षोभ- संस्पर्शं भवति, एतदुदकोदरमिति विद्यात् ॥४७॥
तत्र अचिरोत्पन्नमनुपद्रवमनुदकमप्राप्तमुदरंत्वरमाणश्चिकित्सेत्; उपेक्षितानां ह्येषां दोषा: स्वस्थानादपवृत्ता परिपाकाद्द्रवीभूता: सन्धीन् स्रोतांसि चोपक्लेदयन्ति, स्वेदश्च बाह्येषु स्रोत:सु प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति; तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दं मृदुस्पर्शमपगतराजीकमाक्रान्तं नाभ्यामेवोपसर्पति । ततोऽनन्तरमुदकप्रादुर्भाव: । तस्य रूपाणि–कुक्षेरतिमात्रवृद्धि:, सिरान्तर्धानगमनम् उदकपूर्णदृतिसंक्षोभसंस्पर्शत्वं च ॥४८॥
तदाऽऽतुरमुपद्रवा: स्पृशन्ति–छर्द्यतीसारतमकतृष्णाश्वासकासहिक्कादौर्बल्यपार्श्वशूलारुचिस्वरभेदमूत्रसङ्गादय:; तथाविधमचिकित्स्यं विद्यादिति ॥४९॥
भवन्ति चात्र–
वातात्पित्तात्कफात् प्लीह्न: सन्निपातात्तथोदकात् ।
परं परं कृच्छ्रतरमुदरं भिषगादिशेत् ॥५०॥
पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा ।
प्रायो भवत्यभावाय च्छिद्रान्त्रं चोदरं नृणाम् ॥५१॥
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् ।
बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् ॥५२॥
श्वयथु: सर्वमर्मोत्थ: श्वासो हिक्काऽरुचि: सतृट् ।
मूर्च्छा च्छर्दिरतीसारो निहन्त्युदरिणं नरम् ॥५३॥
जन्मनैवोदरं सर्वं प्राय: कृच्छ्रतमं मतम् ।
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥५४॥
अजातशोथमरुणं सशब्दं नातिभारिकम् ।
सदा गुडगुडायच्च सिराजालगवाक्षितम् ॥५५॥
नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति ।
हृन्नाभिवङ्क्षणकटीगुदप्रत्येकशूलिन: ॥५६॥
कर्कशं सृजतो वातं नातिमन्दे च पावके ।
लोलस्याविरसे चास्ये मूत्रेऽल्पे संहते विषि ॥५७॥
अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वत: ।
उपाक्रमेद्भिषग्दोषबलकालविशेषवित् ॥५८॥
वातोदरं बलमत: पूर्वं स्नेहैरुपाचरेत् ।
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम् ॥५९॥
हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम् ।
तथाऽस्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुन: ॥६०॥
दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात् ।
संभवत्युदरं तस्मान्नित्यमेव विरेचयेत् ॥६१॥
शुद्धं संसृज्य च क्षीरं बलार्थं पाययेत्तु तम् ।
प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात् पय: ॥६२॥
यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम् ।
सोदावर्तं पुन: स्निग्धं स्विन्नमास्थापयेन्नरम् ॥६३॥
स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु ।
दीप्ताग्निं बद्धविड्वातं रूक्षमप्यनुवासयेत् ॥६४॥
तीक्ष्णाधोभागयुक्तोऽस्य निरूहो दाशमूलिक: ।
वातघ्नाम्लशृतैरण्डतिलतैलानुवासनम् ॥६५॥
अविरेच्यं तु यं विद्याद्दुर्बलं स्थविरं शिशुम् ।
सुकुमारं प्रकृत्याऽल्पदोषं वाऽथोल्बणानिलम् ॥६६॥
तं भिषक् शमनै: सर्पिर्यूषमांसरसौदनै: ।
बस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुध: ॥६७॥
पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत् ।
दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरबस्तिना ॥६८॥
संजातबलकायाग्निं पुन: स्निग्धं विरचयेत् ।
पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा ॥६९॥
सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा ।
सकफे वा समूत्रेण सवाते तिक्तसर्पिषा ॥७०॥
पुन: क्षीरप्रयोगं च बस्तिकर्म विरेचनम् ।
क्रमेण ध्रुवमातिष्ठन् युक्त: पित्तोदरं जयेत् ॥७१॥
स्निग्धं स्विन्नं विशुद्धं तु कफोदरिणमातुरम् ।
संसर्जयेत् कटुक्षारयुक्तैरन्नै: कफापहै: ॥७२॥
गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा ।
सक्षारैस्तैलपानैश्च शमयेत्तु कफोदरम् ॥७३॥
सन्निपातोदरे सर्वा यथोक्ता: कारयेत् क्रिया: ।
सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता ॥७४॥
उदावर्तरुजानाहैर्दाहमोहतृषाज्वरै: ।
गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम् ॥७५॥
लिङ्गै प्लीह्न्यधिकान् दृष्ट्वा रक्तं चापि स्वलक्षणै: ।
चिकित्सां संप्रकुर्वीत यथादोषं यथाबलम् ॥७६॥
स्नेहं स्वेदं विरेकं च निरूहमनुवासनम् ।
समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत् सिराम् ॥७७॥
षट्पलं पाययेत् सर्पि: पिप्पलीर्वा प्रयोजयेत् ।
सगुडामभयां वाऽपि क्षारारिष्टगणांस्तथा ॥७८॥
एष क्रियाक्रम: प्रोक्तो योगान् संशमनाञ्छृणु ।
पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम् ॥७९॥
विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिबेत् ।
विडङ्गं चित्रकं शुण्ठीं सघृतां सैन्धवं वचाम् ॥८०॥
दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्।
रोहीतकलतानां तु काण्डकानभयाजले ॥८१॥
मूत्रे वा सुनुयात्तच्च सप्तरात्रस्थितं पिबेत् ।
कामलागुल्ममेहार्श:प्लीहसर्वोदरक्रिमीन् ॥८२॥
स हन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम् ।
रोहीतकत्वच: कृत्वा पलानां पञ्चविंशतिम् ॥८३॥
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ।
पलिकै: पञ्चकोलैस्तु तै: सर्वैश्चापि तुल्यया ॥८४॥
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ।
प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम् ॥८५॥
तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामला: ।
अग्निकर्म च कुर्वीत भिषग्वातकफोल्बणे ॥८६॥
पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तय: ।
रक्तावसेक: संशुद्धि: क्षीरपानं च शस्यते ॥८७॥
यूषैर्मांसरसैश्चापि दीपनीयसमायुतै: ।
यकृति प्लीहवत् सर्वं तुल्यत्वाद्भेषजं मतम् ॥८८॥
लघून्यन्नानि संसृज्य दद्यात् प्लीहोदरे भिषक् ।
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम् ॥८९॥
सतैललवणं दद्यान्निरूहं सानुवासनम् ।
परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम् ॥९०॥
उदावर्तहरं कर्म कार्यं वातघ्नमेव च ।
छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत् ॥९१॥
जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक् ।
तृष्णाकासज्वरार्तं तु क्षीणमांसाग्निभोजनम् ॥९२॥
वर्जयेच्छ्वासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम् ।
अपां दोषहराण्यादौ प्रदद्यादुदकोदरे ॥९३॥
मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च ।
दीपनीयै: कफघ्नैश्च तमाहारैरुपाचरेत् ॥९४॥ द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वश: ।
सर्वमेवोदरं प्रायो दोषसङ्घातजं मतम् ॥९५॥
तस्मात् त्रिदोषशमनीं क्रियां सर्वत्र कारयेत् ।
दोषै: कुक्षौ हि संपूर्णे वह्निर्मन्दत्वमृच्छति ॥९६॥
तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च ।
रक्तशालीन् यवान्मुद्गञ्जाङ्गलांश्च मृगद्विजान् ॥९७॥
पयोमूत्रासवारिष्टान्मधुसीधुं तथा सुराम् ।
यवागूमोदनं वाऽपि यूषैरद्याद्रसैरपि ॥९८॥
मन्दाम्लस्नेहकटुभि: पञ्चमूलोपसाधितै: ।
औदकानूपजं मांसं शाकं पिष्टकृतं तिलान् ॥९९॥
व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत् ।
तथोष्णलवणाम्लानि विदाहीनि गुरूणि च ॥१००॥
नाद्यादन्नानि जठरी तोयपानं च वर्जयेत् ।
नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम् ॥१०१॥
त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी ।
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ॥१०२॥
शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत् ।
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी ॥१०३॥
पिबेन्मधुयुतं तक्रं कवोष्णं नातिपेलवम् ।
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवै: ॥१०४॥
युक्तं प्लीहोदरी जातं सव्योषं तूदकोदरी ।
बद्धोदरी तु हपुषायवान्यजाजिसैन्धवै: ॥१०५॥
पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम् ।
गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम् ॥१०६॥
तक्रं वातकफार्तानाममृतत्वाय कल्पते ।
शोफानाहार्तितृण्मूर्च्छापीडिते कारभं पय: ॥१०७॥
शुद्धानां क्षामदेहानां गव्यं छागं समाहिषम् ।
देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकै: ॥१०८॥
साश्वगन्धै: सगोमूत्रै: प्रदिह्यादुदरं समै: ।
वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम् ॥१०९॥
भूतीकं नागरं धान्यं जले पक्त्वाऽवसेचयेत् ।
पलाशं कत्तृणं रास्नां तद्वत् पक्त्वाऽवसेचयेत् ॥११०॥
मूत्राण्यष्टावुदरिणां सेके पाने च योजयेत् ।
रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम् ॥१११॥
दीपनीयानि सर्पींषि जठरघ्नानि चक्ष्महे ।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरै: ॥११२॥
सक्षारैरर्धपलिकैर्द्विप्रस्थं सर्पिष: पचेत् ।
कल्कैर्द्विपञ्चमूलस्य तुलार्धस्वरसेन च ॥११३॥
दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम् ।
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत् ॥११४॥
नागरत्रिफलाप्रस्थं घृततैलात्तथाऽऽढकम् ।
मस्तुन: साधयित्वैतत् पिबेत् सर्वोदरापहम् ॥११५॥
कफमारुतसंभूते गुल्मे चैतत् प्रशस्यते ।
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले ॥११६॥
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ।
यवकोलकुलत्थानां पञ्चमूलरसेन च ॥११७॥
सुरासौवीरकाभ्यां च सिद्धं वाऽपि पिबेद्घृतम् ।
एभि: स्निग्धाय संजाते बले शान्ते च मारुते ॥११८॥
स्रस्ते दोषाशये दद्यात् कल्पदिष्टं विरेचनम् ।
पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम् ॥११९॥
कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत् ।
षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान् ॥१२०॥
कृत्वा चूर्णमतो मुष्टिं गवां मूत्रेण ना पिबेत् ।
विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलै रसै: ॥१२१॥
मण्डं पेयां च पीत्वा ना सव्योषं षडहं पय: ।
शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुन: पुन: ॥१२२॥
हन्ति सर्वोदाराण्येतच्चूर्णं जातोदकान्यपि ।
कामलां पाण्डुरोगं च श्वयथुं चापकर्षति ॥१२३॥
पटोलाद्यमिदं चूर्णमुदरेषु प्रपूजितम् ।
गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् ॥१२४॥
पिबेद्द्राक्षाम्बुगोमूत्रकोलकर्कन्धुसीधुभि: ।
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका ॥१२५॥
कारवी पिप्पलीमूलमजगन्धा शटी वचा ।
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका ॥१२६॥
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ।
विडङ्गं च समांशानि दन्त्या भागत्रयं तथा ॥१२७॥
त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा ।
एतन्नारायणं नाम चूर्णं रोगगणापहम् ॥१२८॥
नैनत् प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुरा: ।
तक्रेणोदरिभि: पेयं गुल्मिभिर्बदराम्बुना ॥१२९॥
आनद्धवाते सुरया वातरोगे प्रसन्नया ।
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसै: ॥१३०॥
परिकर्ते सवृक्षाम्लमुष्णाम्बुभिरजीर्णके ।
भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे ॥१३१॥
हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे ।
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ॥१३२॥
यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ।
इति नारायणचूर्णम् ।
हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम् ॥१३३॥
नीलिनीं त्रायमाणां च सातलां त्रिवृतां वचाम् ।
सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत् ॥१३४॥
दाडिमत्रिफलामांसरसमूत्रसुखोदकै: ।
पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च ॥१३५॥
श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु ।
शोथार्श:पाण्डुरोगेषु कामलायां हलीमके ॥१३६॥
वातं पित्तं कफं चाशु विरेकात् संप्रसाधयेत् ।
इति हपुषाद्यं चूर्णम् ।
नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि च ॥१३७॥
चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत् ।
इति नीलिन्याद्यं चूर्णम् ।
क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि ॥१३८॥
जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद्घृतम् ।
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् ॥१३९॥
स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च ।
गुल्मानां गरदोषाणामुदराणां च शान्तये ॥१४०॥
इति स्नुहीक्षीरघृतम् ।
दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात् ।
घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये ॥१४१॥
एषां चानु पिबेत् पेयां पयो वा स्वादु वा रसम् ।
घृते जीर्णे विरिक्तस्तु कोष्णं नागरकै: शृतम् ॥१४२॥
पिबेदम्बु तत: पेयां यूषं कौलत्थकं तत: ।
पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजित: ॥१४३॥
पुन: पुन: पिबेत् सर्पिरानुपूर्व्या तयैव च ।
घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक् ॥।१४४॥
गुल्मानां गरदोषाणामुदराणां च शान्तये ।
पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम् ॥१४५॥
गुल्मघ्नं नीलिनीसर्पि: स्नेहं वा मिश्रकं पिबेत् ।
क्रमान्निर्हृतदोषाणां जाङ्गलप्रतिभोजिनाम् ॥१४६॥
दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यत: परम् ।
चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत् ॥१४७॥
मासं युक्तस्तथा हस्तिपिप्पली विश्वभेषजम् ।
विडङ्गं चित्रकं दन्ती चव्यं व्योषं च तै: पय: ॥१४८॥
कल्कै: कोलसमै: पीत्वा प्रवृद्धमुदरं जयेत् ।
पिबेत् कषायं त्रिफलादन्तीरोहितकै: शृतम् ॥१४९॥
व्योषक्षारयुतं जीर्णे रसैरद्यात्तु जाङ्गलै: ।
मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम् ॥१५०॥
क्षीरानुपानां गोमूत्रेणाभयां वा प्रयोजयेत् ।
सप्ताहं माहिषं मूत्रं क्षीरं चानन्नभुक् पिबेत् ॥१५१॥
मासमौष्ट्रं पयश्छागं त्रीन्मासान् व्योषसंयुतम् ।
हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु ॥१५२॥
शिलाजतुविधानेन गुग्गुलुं वा प्रयोजयेत् ।
शृङ्गवेरार्द्रकरस: पाने क्षीरसमो हित: ॥१५३॥
तैलं रसेन तेनैव सिद्धं दशगुणेन वा ।
दन्तीद्रवन्तीफलजं तैलं दूष्योदरे हितम् ॥१५४॥
शूलानाहविबन्धेषु मस्तुयूषरसादिभि: ।
सरलामधुशिग्रूणां बीजेभ्यो मूलकस्य च ॥१५५॥
तैलान्यभ्यङ्गपानार्थं शूलघ्नान्यनिलोदरे ।
स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च ॥१५६॥
अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे ।
श्लेष्मणो विलयार्थं तु दोषं वीक्ष्य भिषग्वर: ॥१५७॥
पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्पलीम् ।
भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम् ॥१५८॥
देवदारु हरिद्रे द्वे सरलातिविषे वचाम् ।
कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च ॥१५९॥
दधिसर्पिर्वसामज्जतैलयुक्तानि दाहयेत् ।
अन्नादूर्ध्वमत: क्षाराद्बिडालकपदं पिबेत् ॥१६०॥
मदिरादधिमण्डोष्णजलारिष्टसुरासवै: ।
हृद्रोगं श्वयथुं गुल्मं प्लीहार्शोजठराणि च ॥१६१॥
विसूचिकामुदावर्तं वाताष्ठीलां च नाशयेत् ।
क्षारं चाजकरीषाणां स्रुतं मूत्रैर्विपाचयेत् ॥१६२॥
कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च ।
पिप्पलीं चित्रकं शुण्ठीं त्रिफलां त्रिवृतां वचाम् ॥१६३॥
द्वौ क्षारौ सातलां दन्तीं स्वर्णक्षीरीं विषाणिकाम् ।
कोलप्रमाणां वटिकां पिबेत् सौवीरसंयुताम् ॥१६४॥
श्वयथावविपाके च प्रवृद्धे च दकोदरे ।
भावितानां गवां मूत्रे षष्टिकानां तु तण्डुलै: ॥१६५॥
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम् ।
पिबेदिक्षुरसं चानु जठराणां निवृत्तये ॥१६६॥
स्वं स्वं स्थानं व्रजन्त्येवं तथा पित्तकफानिला: ।
शङ्खिनीस्नुक्त्रिवृद्दन्तीचिरबिल्वादिपल्लवै: ॥१६७॥
शाकं गाढपूरीषाय प्राग्भक्तं दापयेद्भिषक् ।
ततोऽस्मै शिथिलीभूतवर्चोदोषाय शास्त्रवित् ॥१६८॥
दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं शिवम् ।
पार्श्वशूलमुपस्तम्भं हृद्ग्रहं चापि मारुत: ॥१६९॥
जनयेद्यस्य तं तैलं बिल्वक्षारेण पाययेत् ।
तथाऽग्निमन्थस्योनाकपलाशतिलनालजै: ॥१७०॥
बलाकदल्यपामार्गक्षारै: प्रत्येकश: स्रुतै: ।
तैलं पक्त्वा भिषग्दद्यादुदराणां प्रशान्तये ॥१७१॥
निवर्तते चोदरिणां हृद्ग्रहश्चानिलोद्भव: ।
कफे वातेन पित्तेन ताभ्यां वाऽप्यावृतेऽनिले ॥१७२॥
बलिन: स्वौषधयुतं तैलमेरण्डजं हितम् ।
सुविरिक्तो नरो यस्तु पुनराध्मापितो भवेत् ॥१७३॥
सुस्निग्धैरम्ललवणैर्निरूहैस्तमुपाचरेत् ।
सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम् ॥१७४॥
तीक्ष्णै: सक्षारगोमूत्रैर्बस्तिभिस्तमुपाचरेत् ।
क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति ॥१७५॥
ज्ञातीन् ससुहृदो दारान् ब्राह्मणान्नृपतीन् गुरून् ।
अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रुवन् ॥१७६॥
अक्रियायां ध्रुवो मृत्यु: क्रियायां संशयो भवेत् ।
एवमाख्याय तस्येदमनुज्ञात: सुहृद्गणै: ॥१७७॥
पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत् ।
यस्मिन् वा कुपित: सर्पो विसृजेद्धि फले विषम् ॥१७८॥
भोजयेत्तदुदरिणं प्रविचार्य भिषग्वर: ।
तेनास्य दोषसङ्घात: स्थिरो लीनो विमार्गग: ॥१७९॥
विषेणाशुप्रमाथित्वादाशु भिन्न: प्रवर्तते ।
विषेण हृतदोषं तं शीताम्बुपरिषेचितम् ॥१८०॥
पाययेत भिषग्दुग्धं यवागूं वा यथाबलम् ।
त्रिवृन्मण्डूकपर्ण्योश्च शाकं सयववास्तुकम् ॥१८१॥
भक्षयेत् कालशाकं वा स्वरसोदकसाधितम् ।
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक् ॥१८२॥
मासमेकं ततश्चैव तृषित: स्वरसं पिबेत् ।
एवं विनिर्हृते दोषे शाकैर्मासात् परं तत: ॥१८३॥
दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पय: ।
इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम् ॥१८४॥
वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम् ।
मात्रायुक्तेन शस्त्रेण पश्चटयेन्मतिमान् भिषक् ॥१८५॥
विपाट्यान्त्रं तत: पश्चाद्वीक्ष्य बद्धक्षतान्त्रयो: ।
सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत् ॥१८६॥
मूर्च्छानाद्यच्च संमूढमन्त्रं तच्च विमोक्षयेत् ।
छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकै: ॥१८७॥
बहुश: संगृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान् ।
प्रतियोगै: प्रवेश्यान्त्रं प्रेयै: सीव्येद्व्रणं तत: ॥१८८॥
तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक् ।
वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा च गालयेत् ॥१८९॥
विस्राव्य च विमृद्यैतद्वेष्टयेद्वाससोदरम् ।
तथा बस्तिविरेकाद्यैर्म्लानं सर्वं च वेष्टयेत् ॥१९०॥
नि:स्रुते लङ्घित: पेयामस्नेहलवणां पिबेत् ।
अत: परं तु षण्मासान् क्षीरवृत्तिर्भवेन्नर: ॥१९१॥
त्रीन् मासान् पयसा पेयां पिबेत् त्रींश्चापि भोजयेत् ।
श्यामाकं कोरदूषं वा क्षीरेणालवणं लघु ॥१९२॥
नर: संवत्सरेणैवं जयेत् प्राप्तं जलोदरम् ।
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत् ॥१९३॥
दोषानुबन्धरक्षार्थं बलस्थैर्यार्थमेव च ।
प्रयोगापचिताङ्गानां हितं ह्युदरिणां पय: ।
सर्वधातुक्षयार्तानां देवानाममृतं यथा ॥१९४॥
तत्र श्लोकौ–
हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासत: ।
उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च ॥१९५॥
जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषि: ।
समासव्यासनिर्देशैरुदराणां चिकित्सिते ॥१९६॥
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने उदरचिकित्सितं नाम त्रयोदशोऽध्याय: ॥१३॥
Last updated on June 22nd, 2021 at 09:10 am