चरकसंहिता
कल्पस्थानम् ।
एकादशोऽध्याय: ।
अथात: सप्तलाशङ्खिनीकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
सप्तला चर्मसाह्वा च बहुफेनरसा च सा ।
शङ्खिनी तिक्तला चैव यवतिक्ताऽक्षि(क्ष)पीडक: ॥३॥
ते गुल्मगरहृद्रोगकुष्ठशोफोदरादिषु ।
विकासितीक्ष्णरूक्षत्वाद्योज्ये श्लेष्माधिकेषु तु ॥४॥
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम् ।
सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत् ॥५॥
अक्षमात्रं तयो: पिण्डं प्रसन्नालवणायुतम् ।
हृद्रोगे कफवातोत्थे गुल्मे चैव प्रयोजयेत् ॥६॥
प्रियालपीलुकर्कन्धुकोलाम्रातकदाडिमै: ।
द्राक्षापनसखर्जूरबदराम्लपरूषकै: ॥७॥
मैरेये दधिमण्डेऽम्ले सौवीरकतुषोदके ।
सीधौ चाप्येष कल्प: स्यात् सुखं शीघ्रविरेचन: ॥८॥
तैलं विदारिगन्धाद्यै: पयसि क्वथिते पचेत् ।
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धभागिके ॥९॥
दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च ।
शङ्खिनीचूर्णभागौ द्वौ तिलचूर्णस्य चापर: ॥१०॥
हरीतकीकषायेण तैलं तत्पीडितं पिबेत् ।
अतसीसर्षपैरण्डकरञ्जेष्वेष संविधि: ॥११॥
शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदियाद्घृतम् ।
कल्कभागे तयोरेव त्रिवृच्छ्यामार्धसंयुते ॥१२॥
क्षीरेणालोड्य संपक्वं पिबेत्तच्च विरेचनम् ।
दन्तीद्रवन्त्यो: कल्पोऽयमजशृङ्ग्यजगन्धयो: ॥१३॥
क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयो: ।
मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च ॥१४॥
द्विवर्गार्धांशकल्केन तद्वत् साध्यं घृतं पुन: ।
शङ्खिनीसप्तलाधात्रीकषाये साधयेद्घृतम् ॥१५॥
त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च लोध्रवत् ।
सुराकम्पिल्लयोर्योग: कार्यो लोध्रवदेव च ॥१६॥
दन्तीद्रवन्त्यो: कल्पेन सौवीरकतुषोदके ।
अजगन्धाजशृङ्ग्योश्च तद्वत् स्यातां विरेचने ॥१७॥
तत्र श्लोकौ–
कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि ।
पञ्च मद्ये त्रयो लेहा योग: कम्पिल्लके तथा ॥१८॥
सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिका: ।
योगा: सिद्धा: समस्ताभ्यामेकशोऽपि च ते हिता: ॥१९॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते कल्पस्थाने सप्तलाशङ्खिनीकल्पो
नामैकादशोध्याय: ॥२०॥
Last updated on July 2nd, 2021 at 10:26 am