चरकसंहिता
इन्द्रियस्थानम् ।
एकादशोऽध्याय: ।
अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मना: सदा ।
रतिं न लभते याति परलोकं समान्तरम् ॥३॥
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते ।
लोकान्तरगत: पिण्डं भुङ्क्ते संवत्सरेण स: ॥४॥
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् ।
संवत्सरान्ते जन्तु: स संपश्यति महत्तम: ॥५॥
विकृत्या विनिमित्तं य: शोभामुपचयं धनम् ।
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम् ॥६॥
भक्ति: शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम् ।
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यत: ॥७॥
धमनीनामपूर्वाणां जालमत्यर्थशोभनम् ।
ललाटे दृश्यते यस्य षण्मासान्न स जीवति ॥८॥
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते ।
यस्य तस्यायुष: षड्भिर्मासैरन्तं समादिशेत् ॥९॥
शरीरकम्प: संमोहो गतिर्वचनमेव च ।
मत्तस्येवोपलभ्यन्ते यस्य मांस न जीवति ॥१०॥
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि ।
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति ॥११॥
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यत: ।
शूयेते वा विना देहात् स च मासं न जीवति ॥१२॥
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते ।
राजी बालेन्दुकुटिला न स जीवितुमर्हति ॥१३॥
प्रवालगुटिकाभासा यस्य गात्रे मसूरिका: ।
उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति ॥१४॥
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च ।
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत् ॥१५॥
संभ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुण: ।
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते ॥१६॥
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव च ।
नर: स्वस्थवदाहारमबल: कालचोदित: ॥१७॥
समीपे चक्षुषो: कृत्वा मृगयेताङ्गुलीकरम् ।
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षण: ॥१८॥
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा ।
असन्मृगयते किञ्चित् स मुह्यन् कालचोदित: ॥१९॥
अहास्यहासी संमुह्यन् प्रलेढि दशनच्छदौ ।
शीतपादकरोच्छ्वासो यो नरो न स जीवति ॥२०॥
आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा ।
महामोहावृतमना: पश्यन्नपि न पश्यति ॥२१॥
अयोगमतियोगं वा शरीरे मतिमान् भिषक् ।
खादीनां युगपद् दृष्ट्वा भेषजं नावचारयेत् ॥२२॥
अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात् ।
वासमुत्सृजति क्षिप्रं शरीरी देहसंज्ञकम् ॥२३॥
वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम् ।
हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा ॥२४॥
भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये ।
वशगा: सर्व एवैते बोद्धव्या: समवर्तिन: ॥२५॥
एतेषु रोग: क्रमते भेषजं प्रतिहन्यते ।
नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत् ॥२६॥
पादा: समेताश्चत्वार: संपन्ना: साधकैर्गुणै: ।
व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदय: ॥२७॥
परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च ।
आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते ॥२८॥
तत्र श्लोक:–
क्रियापथमतिक्रान्ता: केवलं देहमाप्लुता: ।
चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते ॥२९॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं नामैकादशोऽध्याय: ॥११॥
Last updated on June 11th, 2021 at 11:33 am