चरकसंहिता
इन्द्रियस्थानम् ।
नवमोऽध्याय: ।
अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने ।
आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता ॥३॥
नि:संज्ञ: परिशुष्कास्य: समृद्धो व्याधिभिश्च य: ।
उपरुद्धायुषं ज्ञात्वा तं धीर: परिवर्जयेत् ॥४॥
हरिताश्च सिरा यस्य लोमकूपाश्च संवृता: ।
सोऽम्लाभिलाषी पुरुष: पित्तान्मरणमश्नुते ॥५॥
शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति ।
बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम् ॥६॥
अंसाभितापो हिक्का च च्छर्दनं शोणितस्य च ।
आनाह: पार्श्वशूलं च भवत्यन्ताय शोषिण: ॥७॥
वातव्याधिरपस्मारी कुष्ठी शोफी तथोदरी ।
गुल्मी च मधुमेही च राजयक्ष्मी च यो नर: ॥८॥
अचिकित्स्या भवन्त्येते बलमांसक्षये सति ।
अन्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत् ॥९॥
विरेचनहृतानाहो यस्तृष्णानुगतो नर: ।
विरिक्त: पुनराध्माति यथा प्रेतस्तथैव स: ॥१०॥
पेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च ।
उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ॥११॥
स्वरस्य दुर्बलीभावं हानिं च बलवर्णयो: ।
रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत् ॥१२॥
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम् ।
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् ॥१३॥
अपस्वरं भाषमाणं प्राप्तं मरणमात्मन: ।
श्रोतारं चाप्यशब्दस्य दूरत: परिवर्जयेत् ॥१४॥
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति ।
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥१५॥
अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपातत: ।
रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम् ॥१६॥
मासेन चेन्न दृशेत विशेषस्तस्य शोभन: ।
रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम् ॥१७॥
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति ।
यस्य तस्यायुष: प्राप्तमन्तमाहुर्मनीषिण: ॥१८॥
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधा: पृथक् ।
तच्च सीदत्यप: प्राप्य न स जीवितुमर्हति ॥१९॥
पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति ।
स रोग: शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम् ॥२०॥
सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते ।
शूलैश्च तुद्यते कुक्षि: प्रत्याख्येयस्तथाविध: ॥२१॥
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचक: ।
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति ॥२२॥
तत्र श्लोकौ–
विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते ।
भवन्त्येतानि संपश्येदन्यान्येवंविधानि च ॥२३॥
तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम् ।
विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वत: ॥२४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्यश्यावनिमित्तीयमिन्द्रियं
नाम नवमोऽध्याय: ॥९॥
Last updated on June 11th, 2021 at 11:16 am