सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
अष्टमोऽध्याय: ।
अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पञ्च भगन्दरा व्याख्याताः, तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च; शेषाः कृच्छ्रसाध्याः ||३||
तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनोपक्रमेणोपक्रमेतापक्वपिडकं, पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पराचीनमवाचीनं वा, ततः प्रणिधायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण; अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत्; आसाद्य वाऽग्निं क्षारं चेति; एतत् सामान्यं सर्वेषु ||४||
विशेषतस्तु-
नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके |
ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत् ||५||
गतयोऽन्योन्यसम्बद्धा बाह्याश्छेद्यास्त्वनेकधा |
नाडीरनभिसम्बद्धा यश्छिनत्त्येकधा भिषक् ||६||
स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम् |
तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ||७||
आटोपं गुदशूलं च करोति पवनो भृशम् |
तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ||८||
तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके |
व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ||९||
अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलकोऽपि वा |
सर्वतोभद्रको वाऽपि कार्यो गोतीर्थकोऽपि वा ||१०||
सर्वतः स्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना |
सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ||११||
रुजास्रावापहं तत्र स्वेदमाशु प्रयोजयेत् |
स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः ||१२||
ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वाऽपि विष्किरैः |
वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा ||१३||
कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत् |
नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक् ||१४||
तिलैरण्डातसीमाषयवगोधूमसर्षपान् |
लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत् ||१५||
आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः |
स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च ||१६||
वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा |
मार्द्वीकेनाथवाऽम्लेन सुरासौवीरकेण वा ||१७||
ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्व्रणम् |
परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः ||१८||
विधिनाऽनेन विण्मूत्रं स्वमार्गमधिगच्छति |
अन्ये चोपद्रवास्तीव्राः सिध्यन्त्यत्र न संशयः ||१९||
शतपोनक आख्यातउष्ट्रग्रीवे क्रियां शृणु |
अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् ||२०||
पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः |
अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् ||२१||
बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा |
तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ||२२||
ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम् |
उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान् ||२३||
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा |
सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् ||२४||
उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः |
वामनीयौषधैः कार्याः परिषेकाश्च मात्रया ||२५||
मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम् |
गतिमन्विष्य शस्त्रेण छिन्द्यात् खर्जूरपत्रकम् ||२६||
चन्द्रार्धं चन्द्रचक्रं च सूचीमुखमवाङ्मुखम् |
छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः ||२७||
ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत् |
बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः ||२८||
तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम् |
यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत् ||२९||
आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम् |
अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम् ||३०||
योगोऽयं नाशयत्याशु गतिं मेघमिवानिलः |
आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः ||३१||
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया |
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ||३२||
कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च |
प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः ||३३||
एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः |
एषां तु शस्त्रपतनाद्वेदना यत्र जायते ||३४||
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते |
वातघ्नौषधसम्पूर्णां स्थालीं छिद्रशराविकाम् ||३५||
स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम् |
नाड्या वाऽस्याहरेत् स्वेदं शयानस्य रुजापहम् |
उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना ||३६||
कदलीमृगलोपाकप्रियकाजिनसम्भृतान् |
कारयेदुपनाहांश्च साल्वणादीन् विचक्षणः ||३७||
कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम् |
पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः ||३८||
ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः |
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका ||३९||
कासीसं काञ्चनक्षीर्यौ वर्गः शोधन इष्यते |
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयसा सह ||४०||
उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम् |
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ||४१||
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः |
कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु ||४२||
रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम् |
मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः ||४३||
समङ्गा धातकी चैव सारिवा रजनीद्वयम् |
प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ||४४||
सुधा [१०] वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम् |
एतत् सम्भृत्य सम्भारं तैलं धीरो विपाचयेत् ||४५||
एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु |
रोपणार्थं हितं तैलं भगन्दरविनाशनम् ||४६||
न्यग्रोधादिगणश्चैव हितः शोधनरोपणे |
तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ||४७||
त्रिवृद्दन्तीहरिद्रार्कमूलं लोहाश्वमारकौ |
विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु ||४८||
मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत् |
भगन्दरविनाशार्थमेतद्योज्यं विशेषतः ||४९||
चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम् |
सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम् ||५०||
ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत् |
एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे ||५१||
शोधनं रोपणं चैव सवर्णकरणं तथा |
द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान् ||५२||
छिद्रादूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित् |
ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम् ||५३||
व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च |
संवत्सरं परिहरेदुपरूढव्रणो नरः ||५४||
इति सुश्रुतसंहितायां चिकित्सास्थाने
भगन्दरचिकित्सितं नामाष्टमोऽध्यायः ||८||
Last updated on July 8th, 2021 at 09:12 am