सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
षष्ठोऽध्यायः ।
अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः |
शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश सम्प्रदिष्टाः ||३||
हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः |
दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ||४||
प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः |
तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ||५||
निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः |
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ||६||
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च |
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ||७||
उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम् |
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ||८||
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च |
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ||९||
वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् |
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ||१०||
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा |
शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः ||११||
नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत् |
सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् ||१२||
कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम् |
शिरसोऽर्धं च येन स्यादधिमन्थः स मारुतात् ||१३||
रक्तराजिचितं स्रावि वह्निनेवावदह्यते |
यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् ||१४||
प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम् |
मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् ||१५||
शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम् |
शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् ||१६||
रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् |
नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् ||१७||
बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम् |
रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः ||१८||
रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते |
यद्दीप्तं रक्तपर्यन्तं तद्रक्तेनाधिमन्थितम् ||१९||
हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्सम्भवः पञ्चरात्रात् |
षड्रात्राद्वै मारुतोत्थो निहान्यान्मिथ्याचारात् पैत्तिकः सद्य एव ||२०||
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः |
दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः ||२१||
जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम् |
संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः ||२२||
शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे |
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य |
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ||२३||
अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् |
हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः ||२४||
पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरति प्रदुष्टः |
पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति ||२५||
यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत् |
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ||२६||
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा |
कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति ||२७||
अम्लेन भुक्तेन विदाहिना च सञ्छाद्यते सर्वत एव नेत्रम् |
शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति ||२८||
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः |
मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः ||२९||
मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः |
ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ||३०||
इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयो नाम षष्ठोऽध्यायः ||६||
Last updated on July 8th, 2021 at 11:27 am