Skip to content

02. Trividhakuksheeya Vimaana – Vimaana – C”

चरकसंहिता

विमानस्थानम्‌ ।

द्वितीयोऽध्याय: ।

       अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जान:; तद्यथा-एकमवकाशांशं मूर्तानामाहारविकाराणाम्‌, एकं द्रवाणाम्‌, एकं पुनर्वातपित्तश्लेष्मणाम्‌; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किंचिदशुभं प्राप्नोति ॥३॥

       न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात्‌ ॥४॥

       तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थ: प्रकृत: । एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च ॥५॥

       तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्याम: । तद्यथा–कुक्षेरप्रपीडनमाहारेण, हृदयस्यानवरोध:, पार्श्वयोरविपाटनम्‌, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरम:, स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसंकथासु सुखानुवृत्ति:, सायं प्रातश्च सुखेन परिणमनं, बलवर्णोपचयकरत्वं च, इति मात्रावतो लक्षणमाहारस्य भवति ॥६॥

       अमात्रावत्त्वं पुनर्द्विविधमाचक्षते–हीनम्‌, अधिकं च । तत्र हीनमात्रमाहारराशिं बलवर्णोपचयक्षयकरमतृप्तिकर- मुदावर्तकरमनायुष्यवृष्यमनौजस्यं शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते, अतिमात्रं पुन: सर्वदोषप्रकोपणमिच्छन्ति कुशला:। यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमाना: सर्वे युगपत्‌ प्रकोपमापद्यन्ते, ते प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता विष्टम्भयन्त: सहसा वाऽप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्त: पृथक्‌ पृथगिमान्‌ विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तु: । तत्र वात: शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्यपार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति, पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि, श्लेष्मा तु च्छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि ॥७

       न च खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति, अपि तु खलु गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचि- विरुद्धानामकाले चान्नपानानामुपसेवनं, कामक्रोधलोभमोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति ॥८॥

       भवति चात्र–

       मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति ।

       चिन्ताशोकभयक्रोधदु:खशय्याप्रजागरै: ॥९॥

       तं द्विविधमामप्रदोषमाचक्षते भिषज:–विसूचिकाम्‌, अलसकं च ॥१०॥

       तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्‌ ॥११॥

       अलसकमुपदेक्ष्याम:–दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिण: स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविन- स्तदन्नपानमनिलप्रपीडितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्नबहिर्मुखीभवति, ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोष- लिङ्गान्यभिदर्शयत्यतिमात्राणि । अतिमात्रप्रदुष्टाश्च दोषा: प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्त: कदाचिदेव केवलमस्य शरीरं दण्डवत्‌ स्तम्भयन्ति, ततस्तं दण्डालसकमसाध्यं ब्रुवते । विरुद्धाध्यशनाजीर्णाशनशीलिन: पुनरामदोषमामविषमित्याचक्षते भिषज:, विषसदृशलिङ्गत्वात्‌; तत्‌ परमसाध्यम्‌, आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति ॥१२॥

       तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, तत: स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्‌ । विसूचिकायां तु लङ्घनमेवाग्रे, विरिक्तवच्चानुपूर्वी । आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधमग्निसंधुक्षणार्थं च, नत्वेवाजीर्णाशनम्‌; आमप्रदोषदुर्बलो ह्यग्निर्न युगपद्दोषमौषधमाहारजातं च शक्त: पक्तुम्‌ । अपि चामप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं सहसैवातुरम- बलमतिपातयेत्‌ । आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोपरमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम्‌ । सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कुशला:, तदर्थकारि वा । विमुक्तामप्रदोषस्य पुन: परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत्‌ स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालगलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति ॥१३॥

       भवति चात्र–

       आहारविध्यायतनानि चाष्ट सम्यक्‌ परीक्ष्यात्महितं विदध्यात्‌ ।    

       अन्यश्च य: कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च ॥१४॥

       अशितं खादितं पीतं लीढं च क्व विपच्यते ।

       एतत्त्वां धीर! पृच्छामस्तन्न आचक्ष्व बुद्धिमन्‌ ॥१५॥

       इत्याग्निवेशप्रमुखै: शिष्यै: पृष्ट: पुनर्वसु: ।

       आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते ॥१६॥

       नाभिस्तनान्तरं जन्तोरामाशय इति स्मृत: ।

       अशितं खादितं पीतं लीढं चात्र विपच्यते ॥१७॥

       आमाशयगत: पाकमाहार: प्राप्य केवलम्‌ ।

       पक्व: सर्वाशयं पश्चाद्धमनीभि: प्रपद्यते ॥१८॥

      तत्र श्लोक:–

       तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्‌ ।

       अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागश: ॥१९॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्याय: ॥२॥

Last updated on June 7th, 2021 at 08:22 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English