चरकसंहिता
इन्द्रियस्थानम् ।
सप्तमोऽध्याय: ।
अथात: पन्नरूपीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम् ।
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेचिकित्सितुम् ॥३॥
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि ।
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव स: ॥४॥
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा ।
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या ॥५॥
एताश्चान्याश्च या: काश्चित् प्रतिच्छाया विगर्हिता: ।
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजा: ॥६॥
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा ।
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव स: ॥७॥
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा ।
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ॥८॥
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु ।
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया ॥९॥
खादीनां पञ्च पञ्चानां छाया विविधलक्षणा: ।
नाभसी निर्मला नीला सस्नेहा सप्रभेव च ॥१०॥
रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा ।
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥११॥
शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता ।
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी ॥१२॥
वायवी गर्हिता त्वासां चतस्र: स्यु: सुखोदया: ।
वायवी तु विनाशाय क्लेशाय महतेऽपि वा ॥१३॥
स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता ।
रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता ॥१४॥
तासां या: स्युर्विकासिन्य: स्निग्धाश्च विपुलाश्च या: ।
ता: शुभा रूक्षमलिना: संक्षिप्ताश्चाशुभोदय: ॥१५॥
वर्णमाक्रमति च्छाया भास्तु वर्णप्रकाशिनी ।
आसन्ना लक्ष्यते च्छाया भा: प्रकृष्टा प्रकाशते ॥१६॥
नाच्छायो नाप्रभ: कश्चिद्विशेषाश्चिह्नयन्ति तु ।
नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रया: ॥१७॥
कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता ।
संत्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत् ॥१८॥
उत्थाप्यमान: शयनात् प्रमोहं याति यो नर: ।
मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थन: ॥१९॥
संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगा: ।
व्यापन्ना ग्रहणी प्राय: सोऽर्धमासं न जीवति ॥२०॥
उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नत: ।
बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत् ॥२१॥
दुर्बलो बहु भुङ्क्ते य: प्राग्भुक्तादन्नमातुर: ।
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव स: ॥२२॥
इष्टं च गुणसंपन्नमन्नमश्नाति यो नर: ।
शश्वच्च बलवर्णाभ्यां हीयते न स जीवति ॥२३॥
प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते ।
बलहीन: पिपासार्त: शुष्कास्यो न स जीवति ॥२४॥
ह्रस्वं च य: प्रश्वसिति व्याविद्धं स्पन्दते च य: ।
मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसु: ॥२५॥
ऊर्ध्वं च य: प्रश्वसिति श्लेष्मणा चाभिभूयते ।
हीनवर्णबलाहारो यो नरो न स जीवति ॥२६॥
ऊर्ध्वाग्रे नयने यस्य मन्ये चारतकम्पने ।
बलहीन: पिपासार्त: शुष्कास्यो न स जीवति ॥२७॥
यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ ।
शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति ॥२८॥
व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते ।
कण्टकैश्चचिता जिह्वा यथा प्रेतस्तथैव स: ॥२९॥
शेफश्चात्यर्थमुत्सिक्तं नि:सृतौ वृषणौ भृशम् ।
अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम् ॥३०॥
निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव दृश्यते ।
क्षीणस्यानश्नतस्तस्य मासमायु: परं भवेत् ॥३१॥
तत्र श्लोक:–
इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान् ।
आयुर्वेदविदित्याख्यां लभते कुशलो जन: ॥३२॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्याय: ॥७॥
Last updated on June 11th, 2021 at 10:54 am