अष्टाङ्गहृदये (उत्तरस्थानम्)
कर्णरोगप्रतिषेधं अष्टादशोऽध्यायः।
अथातः कर्णरोगप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
कर्णशूले पवनजे पिबेद्रात्रौ रसाशितः।
वातघ्नसाधितं सर्पिः, कर्णं स्विन्नं च पूरयेत्॥१॥
पत्राणां पृथगश्वत्थबिल्वार्कैरण्डजन्मनाम्।
तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः॥२॥
रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि।
गणे वातहरेऽम्लेषु मूत्रेषु च विपाचितः॥३॥
महास्नेहो द्रुतं हन्ति सुतीव्रामपि वेदनाम्।
महतः पञ्चमूलस्य काष्ठात्क्षौमेण वेष्टितात्॥४॥
तैलसिक्तात्प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः।
योज्यश्चैवं भद्रकाष्ठात्कुष्ठात्काष्ठाच्च सारलात्॥५॥
वातव्याधिप्रतिश्यायविहितं हितमत्र च।
वर्जयेच्छिरसा स्नानं शीताम्भः पानमह्न्यपि॥६॥
पित्तशूले सितायुक्तघृतस्निग्धं विरेचयेत्।
द्राक्षायष्टिशृतं स्तन्यं शस्यते कर्णपूरणम्॥७॥
यष्ट्यनन्ताहिमोशीरकाकोलीरोध्रजीवकैः।
मृणालबिसमञ्जिष्ठासारिवाभिश्च साधयेत्॥८॥
यष्टीमधुरसप्रस्थक्षीरद्विप्रस्थसंयुतम्।
तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम्॥९॥
निहन्ति शूलदाहोषाः केवलं क्षौद्रमेव वा।
यष्ट्यादिभिश्च सघृतैः कर्णौ दिह्यात्समन्ततः॥१०॥
वामयेत् पिप्पलीसिद्धसर्पिःस्निग्धं कफोद्भवे।
धूमनावनगण्डूषस्वेदान् कुर्यात्कफापहान्॥११॥
लशुनार्द्रकशिग्रूणां मुरुङ्ग्या मूलकस्य च।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे॥१२॥
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तांल्लवणान्वितान्।
सन्निधाय स्नुहीकाण्डे कोरिते तच्छदावृतान्॥१३॥
स्वेदयेत्पुटपाकेन स रसः शूलजित्परम्।
रसेन बीजपूरस्य कपित्थस्य च पूरयेत्॥१४॥
सुक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत्।
अजाविमूत्रवंशत्वक्सिद्धं तैलं च पूरणम्॥१५॥
सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बुरुनागरैः।
रक्तजे पित्तवत्कार्यं सिरां चाशु विमोक्षयेत्॥१६॥
पक्वे पूयवहे कर्णे धूमगण्डूषनावनम्।
युञ्ज्यान्नाडीविधानं च दुष्टव्रणहरं च यत्॥१७।
स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचुवर्तिभिः।
पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत्॥१८॥
सुरसादिगणक्वाथफाणिताक्तां च योजयेत्।
पिचुवर्तिं सुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत्॥१९॥
शूलक्लेदगुरुत्वानां विधिरेष निवर्तकः।
प्रियङ्गुमधुकाम्बष्ठाधातक्युत्पलपर्णिभिः॥२०॥
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च।
पचेत्तैलं तदास्रावं निगृह्णात्याशु पूरणात्॥२१॥
नादबाधिर्ययोः कुर्याद् वातशूलोक्तमौषधम्।
श्लेष्मानुबन्धे श्लेष्माणं प्राग्जयेद्वमनादिभिः॥२२॥
एरण्डशिग्रुवरुणमूलकात्पत्रजे रसे।
चतुर्गुणे पचेत्तैलं क्षीरे चाष्टगुणोन्मिते॥२३॥
यष्ट्याह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत्।
नादबाधिर्यशूलानि नावनाभ्यङ्गपूरणैः॥२४॥
पक्वं प्रतिविषाहिङ्गुमिशित्वक्स्वर्जिकोषणैः।
ससुक्तैः पूरणात्तैलं रुक्स्रावाश्रुतिनादनुत्॥२५॥
कर्णनादे हितं तैलं सर्षपोत्थं च पूरणे।
शुष्कमूलकखण्डानां क्षारो हिङ्गु महौषधम्॥२६॥
शतपुष्पावचाकुष्ठदारुशिग्रुरसाञ्जनम्।
सौवर्चलयवक्षारस्वर्जिकौद्भिदसैन्धवम्॥२७॥
भूर्जग्रन्थिबिडं मुस्ता मधुसुक्तं चतुर्गुणम्।
मातुलुङ्गरसस्तद्वत् कदलीस्वरसश्च तैः॥२८॥
पक्वं तैलं जयत्याशु सुकृच्छ्रानपि पूरणात्।
कण्डूं क्लेदं च बाधिर्यपूतिकर्णत्वरुक्कृमीन्॥२९॥
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयेषु च।
अथ सुप्ताविव स्यातां कर्णौ रक्तं हरेत्ततः॥३०॥
सशोफक्लेदयोर्मन्दश्रुतेर्वमनमाचरेत्।
बाधिर्यं वर्जयेाद्बालवृद्धयोश्चिरजं च यत्॥३१॥
प्रतीनाहे परिक्लेद्य स्नेहस्वेदैर्विशोधयेत्।
कर्णशोधनकेनानु कर्णं तैलस्य पूरयेत्॥३२॥
ससुक्तसैन्धवमधोर्मातुलुङ्गरसस्य वा।
शोधनाद्रूक्षतोत्पत्तौ घृतमण्डस्य पूरणम्॥३३॥
क्रमोऽयं मलपूर्णेऽपि कर्णे कण्ड्वां कफापहम्।
नस्यादि, तद्वच्छोफेऽपि कटूष्णैश्चात्र लेपनम्॥३४॥
कर्णस्रावोदितं कुर्यात्पूतिकृमिणकर्णयोः।
पूरणं कटुतैलेन विशेषात् कृमिकर्णके॥३५॥
वमिपूर्वा हिता कर्णविद्रधौ विद्रधिक्रिया।
पित्तोत्थकर्णशूलोक्तं कर्तव्यं क्षतविद्रधौ॥३६॥
अर्शोर्बुदेषु नासावद् आमा कर्णविदारिका।
कर्णविद्रधिवत्साध्या यथादोषोदयेन च॥३७॥
पालीशोषेऽनिलश्रोत्रशूलवन्नस्यलेपनम्।
स्वेदं च कुर्यात् स्विन्नां च पालीमुद्वर्तयेत्तिलैः॥३८॥
प्रियालबीजयष्ट्याह्वहयगन्धायवान्वितैः।
ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यमाचरेत्॥३९॥
शतावरीवाजिगन्धापयस्यैरण्डजीवकैः।
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम्॥४०॥
कल्केन जीवनीयेन तैलं पयसि पाचितम्।
आनूपमांसक्वाथे च पालीपोषणवर्धनम्॥४१॥
पालीं छित्त्वाऽतिसङ्क्षीणां शेषां सन्धाय पोषयेत्।
याप्यैव तन्त्रिकाख्याऽपि परिपोटेऽप्ययं विधिः॥४२॥
उत्पाते शीतलैर्लेपो जलौकोहृतशोणिते।
जम्ब्वाम्रपल्लवबलायष्टीरोध्रतिलोत्पलैः॥४३॥
सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः ससारिवैः।
सिद्धमभ्यञ्जने तैलं विसर्पोक्तघृतानि च॥४४॥
उन्मन्थेऽभ्यञ्जनं तैलं गोधाकर्कवसान्वितम्।
तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः॥४५॥
सुरसालाङ्गलीभ्यां च सिद्धं, तीक्ष्णं च नावनम्।
दुर्विद्धेऽश्मन्तजम्ब्वाम्रपत्रक्वाथेन सेचिताम्॥४६॥
तैलेन पालीं स्वभ्यक्तां सुश्लक्ष्णैरवचूर्णयेत्।
चूर्णैर्मधुकमञ्जिष्ठाप्रपुण्ड्राह्वनिशोद्भवैः॥४७॥
लाक्षाविडङ्गसिद्धं च तैलमभ्यञ्जने हितम्।
स्विन्नां गोमयजैः पिण्डैर्बहुशः परिलेहिकाम्॥४८॥
विडङ्गसारैरालिम्पेदुरभ्रीमूत्रकल्कितैः।
कौटजेङ्गुदकारञ्जबीजशम्याकवल्कलैः॥४९॥
अथवाऽभ्यञ्जनं तैर्वा कटुतैलं विपाचयेत्।
सनिम्बपत्रमरिचमदनैर्लेहिकाव्रणे॥५०॥
छिन्नं तु कर्णं शुद्धस्य बन्धमालोच्य यौगिकम्।
शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम्॥५१॥
अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम्।
निवेश्य सन्धिं सुषमं न निम्नं समून्नतम्॥५२॥
अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम्।
सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरेत्॥५३॥
शोणितस्थापनैर्व्रण्यमाचारं चादिशेत्ततः।
सप्ताहादामतैलाक्तं शनैरपनयेत् पिचुम्॥५४॥
सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्।
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्धयेत्॥५५॥
जलशूकः स्वयङ्गुप्ता रजन्यौ बृहतीफलम्।
अश्वगन्धाबलाहस्तिपिप्पलीगौरसर्षपाः॥५६॥
मूलं कोशातकाश्वघ्नरूपिकासप्तपर्णजम्।
छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम्॥५७॥
जतूका जलजन्मा च तता शबरकन्दकम्।
एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम्॥५८॥
हस्त्यश्वमूत्रेण परमभ्यङ्गात्कर्णवर्धनम्।
अथ कुर्याद्वयस्थस्य छिन्नां शुद्धस्य नासिकाम्॥५९॥
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः।
त्वङ्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत्॥६०॥
सीव्येद् गण्डं ततः सूच्या सेविन्या पिचुयुक्तया।
नासाच्छेदेऽथ लिखिते परीवर्त्योपरि त्वचम्॥६१॥
कपोलवध्रं सन्दध्यात्सीव्येन्नासां च यत्नतः।
नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये॥६२॥
आमतैलेन सिक्त्वाऽनु पत्तङ्गमधुकाञ्जनैः।
शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्॥६३॥
ततो मधुघृताभ्यक्तं बध्वाऽऽचारिकमादिशेत्।
ज्ञात्वाऽवस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः॥६४॥
छिन्द्याद्रूढेऽधिकं मांसं नासोपान्ताच्च चर्म तत्।
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत्पुनः॥६५॥
निवेशिते यथान्यासं सद्यछिन्नेऽप्ययं विधिः।
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः॥६६॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कर्णरोगप्रतिषेधो नाम अष्टादशोऽध्यायः॥१८॥
Last updated on September 6th, 2021 at 09:29 am