अष्टाङ्गहृदये कल्पसिद्धस्थानम्
वमनकल्पं प्रथमोऽध्यायः।
अथातो वमनकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
अथ मदनकल्पः।
वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरेचने ।
नित्यमनयस्य तु व्याधिविशेषेण विशिष्टता ॥ १ ॥
फलानि नातिपाण्डूनि न चातिहरितान्यपि ।
आदायाह्नि प्रशतर्क्षे मध्ये ग्रीष्म-वसन्तयोः ॥ २ ॥
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा बद्ध्वा प्रलेपयेत् ।
गोमयेनानु मुत्तोलीं धान्यमध्ये निधापयेत् ॥ ३ ॥
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात् ।
निष्कृष्टानि गतेऽष्टाहे शोषयेत्तान्यथातपे ॥ ४ ॥
तेषां ततः सुशुष्काणामृद्धृत्य फलपिप्पलीः ।
दधिमध्वाज्यपललैर्मृदित्वा शोषयेत्पुनः ॥ ५ ॥
ततः सुगुप्तं संस्थाप्य कार्यकाले प्रयोजयेत् ।
अथादाय ततो मात्रां जर्जरीकृत्य वासयेत् ॥ ६ ॥
शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले ।
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा ॥ ७ ॥
शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्युदकेऽथवा ।
ततः पिबेत्कषायं तं प्रातर्मृदितगालितम् ॥ ८ ॥
सूत्रोदितेन विधिना साधुतेन तथा वमेत् ।
श्लेष्मज्वरप्रतिश्यायगुल्मान्तर्विद्रधीषु च ॥ ९ ॥
प्रच्छर्दयेद्विशेषेण यावत्पित्तस्य दर्शनम् ।
फलपिप्पलीचूर्णं वा क्वाथेन स्वेन भावितम् ॥ १० ॥
त्रिभागत्रिफलाचूर्णं कोविदारादिवारिणा ।
पिबेज्ज्वरारुचिष्ठेवग्रन्थ्य्पच्यर्बुदोदरी ॥ ११ ॥
पित्ते कफस्थानगते जीमूतादिजलेन तत् ।
हृद्दाहेऽधोस्रपित्ते च क्षीरं तत्पिप्पलीशृतम् ॥ १२ ॥
क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु तु ।
दध्युत्तरं वा दधि वा तच्छृतक्षीरसंभवम् ॥ १३ ॥
फलादिक्वाथकल्काभ्यां सिद्धं तत्सिद्धदुग्धजम् ।
सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वामनम् ॥ १४ ॥
स्वरसं फलमज्ज्ञो वा भल्लातकविधिशृतम् ।
आदर्वीलेपनात्सिद्धं लीढ्वा प्रच्छर्दयेत्सुखम् ॥ १५ ॥
तं लेहं भक्ष्यभोज्येषु तत्कषायांश्च च योजयेत् ।
वत्सकादिप्रतीवापः कषायः फलमज्जजः ॥ १६ ॥
निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति ।
बद्धमूलानपि व्याधीन् सर्वान् संतर्पणोद्भवान् ॥ १७ ॥
राठपुष्पफलश्लक्ष्णचूर्णैर्माल्यं सुरूक्षितम् ।
वमेन्मण्डरसादीनां तृप्तो जिघ्रन् सुखं सुखी ॥ १८ ॥
एवम् एव फलाभावे कल्प्यं पुष्पं शलाटु वा ।
इति मदनकल्पः।
अथ जीमूतकल्पः।
जीमूताद्याश्च फलवत् जीमूतं तु विशेषतः ॥ १९ ॥
प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम् ।
पयः पुष्पेऽस्य निर्वृत्ते फले पेया पयस्कृता ॥ २० ॥
लोमशे क्षीरसंतानं, दध्युत्तरमलोमशे ।
शृते पयसि दध्य्म्लं जातं हरितपाण्डुके ॥ २१ ॥
आसुत्य वारुणीमण्डं पिबेन्मृदितगालितम् ।
कफादरोचके कासे पाण्डुत्वे राजयक्ष्मणि ॥ २२ ॥
इयं च कल्पना कार्या तुम्बीकोशातकीष्वपि ।
पर्यागतानां शुष्काणां फलानां वेणिजन्मनाम् ॥ २३ ॥
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत् ।
द्वे वा त्रीण्यपि वाऽऽपोथ्य क्वाथे तिक्तोत्तमस्य वा ॥ २४ ॥
आरग्वधादिनवकादासुत्यान्यतमस्य वा।
विमृद्य पुतं तं क्वाथं पित्तश्लेष्मज्वरी पिबेत्॥२५॥
जीमूतकल्कं चूर्णं वा पिबेच्छीतेन वारिणा।
ज्वरे पैत्ते, कवोष्णेन कफवातात्कफादपि॥२६॥
इति जीमूतकल्पः।
अथेक्ष्वाकुकल्पः।
कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते।
इक्ष्वाकुर्वमने शस्तः प्रताम्यति च मानवे॥२७॥
फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम्।
पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत्॥२८॥
हृतमध्ये फले जीर्णे स्थितं क्षीरं यदा दधि।
स्यात्तदा कफजे कासे श्वासे वम्यं च पाययेत्॥२९॥
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः।
तेन तक्रं विपक्वं वा पिबेत्समधुसैन्धवम्॥३०॥
भावयित्वाऽऽजदुग्धेन बीजं तेनैव वा पिबेत्।
विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च॥३१॥
सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः।
कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके॥३२॥
गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत्।
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते ॥३३॥
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्।
छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः॥३४॥
इतीक्ष्वाकुकल्पः।
अथ धामार्गवकल्पः।
कासगुल्मोदरगरे वाते श्लेष्माशयस्थिते ।
कफे च कण्ठवक्त्रस्थे कफसञ्चयजेषु च॥३५॥
धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च।
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी॥३६॥
काकोली श्रावणी मेदा महामेदा मधूलिका।
तद्रजोभिः पृथग्लेहा धामार्गवरजोन्विताः॥३७॥
कासे हृदयदाहे च शस्ता मधुसिताद्रुताः।
ते सुखाम्भोनुपानाः स्युः पित्तोष्मसहिते कफे॥३८॥
धान्यतुम्बरुयूषेण कल्कस्तस्य विषापहः।
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा रसे॥३९॥
एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत्।
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः॥४०॥
इति धामार्गवकल्पः।
अथ क्ष्वेडकल्पः।
क्ष्वेडोऽतिकटुतीक्ष्णोष्णः प्रगाढेषु प्रशस्यते।
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु॥४१॥
पृथक् फलादिषट्कस्य क्वाथे मांसमनूपजम्।
कोशातक्या समं सिद्धं तद्रसं लवणं पिबेत्॥४२॥
फलादिपिप्पलीतुल्यं सिद्धं क्ष्वेडरसेऽथवा।
क्ष्वेडक्वाथं पिबेत्सिद्धं मिश्रमिक्षुरसेन वा॥४३॥
इति क्ष्वेडकल्पः।
अथ कुटजफलकल्पः।
कौटजं सुकुमारेषु पित्तरक्तकफोदये।
ज्वरे विसर्पे हृद्रोगे खुडे कुष्ठे च पूजितम्॥४४॥
सर्षपाणां मधूकानां तोयेन लवणस्य वा।
पाययेत्कौटजं बीजं युक्तं कृशरयाऽथवा॥४५॥
सप्ताहं वाऽर्कदुग्धाक्तं तच्चूर्णं पाययेत्पृथक्।
फलजीमूतकेक्ष्वाकुजीवन्तीजीवकोदकैः॥४६॥
इति कुटजफलकल्पः।
वमनौषधमुख्यानामिति कल्पदिगीरिता।
बीजेनानेन मतिमानन्यान्यपि च कल्पयेत्॥४७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने वमनकल्पो नाम प्रथमोऽध्यायः॥१॥
Last updated on August 26th, 2021 at 10:29 am