Skip to content

02. Jvara Nidaana – Nidaana – AH”

अष्टाङ्गहृदयस्य (निदानस्थानम्‌) ज्वरनिदानं

द्वितीयोऽध्यायः।

अथातो ज्वरनिदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः।

क्रोधो दक्षाध्वरध्वंसी रुद्रोर्ध्वनयनोद्भवः॥१॥

जन्मान्तयोर्मोहमयः सन्तापात्माऽपचारजः।

विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते॥२॥

स जायतेऽष्टधा दोषैः पृथङ्मिश्रैः समागतैः।

आगन्तुश्च मलास्तत्र स्वैः स्वैर्दुष्टाः प्रदूषणैः॥३॥

आमाशयं प्रविश्याममनुगम्य पिधाय च।

स्रोतांसि पक्तिस्थानाच्च निरस्य ज्वलनं बहिः॥४॥

सह तेनाभिसर्पन्तस्तपन्तः सकलं वपुः।

कुर्वन्तो गात्रमत्युष्णं ज्वरं निर्वर्तयन्ति ते॥५॥

स्रोतोविबन्धात्प्रायेण ततः स्वेदो न जायते।

तस्य प्राग्रूपमालस्यमरतिर्गात्रगौरवम्‌॥६॥

आस्यवैरस्यमरुचिजृम्भा सास्राकुलाक्षिता।

अङ्गमर्दोऽविपाकोऽल्पप्राणता बहुनिद्रता॥७॥

रोमहर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः।

हितोपदेशेष्वक्षान्तिः प्रीतिरम्लपटूषणे॥८॥

द्वेषः स्वादुषु भक्ष्येषु तथा बालेषु तृड्‌ भृशम्‌।

शब्दाग्निशीतवाताम्बुच्छायोष्णेष्वनिमित्ततः॥९॥

इच्छा द्वेषश्च तदनु ज्वरस्य व्यक्तता भवेत्‌।

आगमापगमक्षोभमृदुतावेदनोष्मणाम्‌॥१०॥

वैषम्यं तत्रतत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः।

पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं श्रमः॥११॥

विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः।

पृष्ठं क्षोदमिवाप्नाेति निष्पीड्यत इवोदरम्‌॥१२॥

छिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः।

हृदयस्य ग्रहस्तोदः प्रजनेनेव वक्षसः॥१७॥

स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः।

अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः॥१४॥

निस्तोदः शङ्खयोर्मूर्ध्नि वेदना विरसास्यता।

कषायास्यत्वमथवा मलानामप्रवर्तनम्‌॥१५॥

रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता।

प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः॥१६॥

कण्ठौष्ठशोषस्तृट्‌ शुष्कौ छर्दिकासौ विषादिता।

हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः॥१७॥

भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे।

युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्रता॥१८॥

नासास्यपाकः शीतेच्छा भ्रमो मूर्च्छा मदोऽरतिः।

विट्‌स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः॥१९॥

रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु।

स्वेदो निःश्वासवैगन्ध्यमतितृष्णा च पित्तजे॥२०॥

विशेषादरुचिर्जाड्यं स्रोतोरोधोऽल्पवेगता।

प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः॥२१॥

हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु।

अङ्गेषु शीतपिटिकास्तन्द्रोदर्दः कफोद्भवे॥२२॥

काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा।

निदानोक्तानुपशयो विपरीतोपशायिता।

यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजः अपि च॥२३॥

शिरोर्तिमूर्च्छावमिदाहमोह-

कण्ठास्यशोषारतिपर्वभेदाः।

उन्निद्रतातृड्‌भ्रमरोमहर्षा

जृम्भातिवाक्त्वं च चलात्सपित्तात्‌॥२४॥

तापहान्यरुचिपर्वशिरोरुक्‌

पीनसश्वसनकासविबन्धाः।

शीतजाड्यतिमिरभ्रमतन्द्राः

श्लेष्मवातजनितज्वरलिङ्गम्‌॥२५॥

शीतस्तम्भस्वेददाहाव्यवस्था

तृष्णाकासश्लेष्मपित्तप्रवृत्तिः।

मोहस्तन्द्रालिप्ततिक्तास्यता च

ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य॥२६॥

सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः।

तद्वच्छीतं महानिद्रा दिवा जागरणं निशि॥२७॥

सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा।

गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम्‌॥२८॥

साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी।

अक्षिणी पिण्डिकापार्श्वमूर्द्धपर्वास्थिरुग्भ्रमः॥२९॥

सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवाचितः।

परिदग्धा खरा जिह्वा गुरुः स्रस्ताङ्गसन्धिता॥३०॥

रक्तपित्तकफष्ठीवो लोलनं शिरसोऽतिरुक्‌।

कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्‌॥३१॥

हृद्व्यथा मलसंसङ्गः प्रवृत्तिर्वाऽल्पशोऽति वा।

स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता॥३२॥

दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्‌।

सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्‌॥३३॥

दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः।

असाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा॥३४॥

अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक्‌ स्थितम्‌।

त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा॥३५॥

तद्वद्वातकफौ शीतं, दाहादिर्दुस्तरस्तयोः।

शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते॥३६॥

शीते शान्तेऽम्लको मूर्च्छा मदस्तृष्णा च जायते।

दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः॥३७॥

आगन्तुरभिघाताभिषङ्गशापाभिचारतः।

चतुर्धा अत्र क्षतच्छेददाहाद्यैरभिघातजः॥३८॥

श्रमाच्च तस्मिन्पवनः प्रायो रक्तं प्रदूषयन्‌।

सव्यथाशोफवैवर्ण्यं, सरुजं कुरुते ज्वरम्‌॥३९॥

ग्रहावेशौषधिविषक्रोधभीशोककामजः।

अभिषङ्गात्‌ ग्रहेणास्मिन्नकस्माद्धासरोदने॥४०॥

ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः।

विषान्मूर्च्छातिसारास्यश्यावतादाहहृद्गदाः॥४१॥

क्रोधात्कम्पः शिरोरुक्‌ च प्रलापो भयशोकजे।

कामाद्‌भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयः॥४१॥

ग्रहादौ सन्निपातस्य भयादौ मरुतस्त्रये।

कोपः कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ॥४३॥

सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ।

तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते॥४४॥

पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्‌भ्रमैः।

सदाहमूर्च्छैर्ग्रस्तस्य प्रत्यहं वर्द्धते ज्वरः॥४५॥

इति ज्वरोऽष्टधा दृष्टः समासाद्द्विविधस्तु सः।

शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्बहिराश्रयः॥४६॥

प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः।

पूर्वं शरीरे शारीरे तापो, मनसि मानसे॥४७॥

पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्‌।

दाहः पित्तयुते, मिश्रं मिश्रे अन्तःसंश्रये पुनः॥४८॥

ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः।

बहिरेव बहिर्वेगे तापोऽपि च सुसाध्यता॥४९॥

वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्‌।

वैकृतोऽन्यः स दुःसाध्यः प्रायश्च प्राकृतोऽनिलात्‌॥५०॥

वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्‌।

कुर्यात्‌ पित्तं च शरदि तस्य चानुबलं कफः॥५१॥

तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्‌।

कफो वसन्ते तमपि वातपित्तं भवेदनु॥५२॥

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः।

सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः॥५३॥

ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता।

न प्रवृत्तिर्न विड्‌ जीर्णा न क्षुत्सामज्वराकृतिः॥५४॥

ज्वरवेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः।

मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्‌॥५५॥

जीर्णताऽऽमविपर्यासात्सप्तरात्रं च लङ्घनात्‌।

ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्‌॥५६॥

प्रायशः सन्निपातेन भूयसा तूपदिश्यते।

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ॥५७॥

धातुमूत्रशकृद्वाहिस्रोतसां व्यपिनो मलाः।

तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्द्धिताः॥५८॥

बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः।

सन्ततं निष्प्रतिद्वन्द्वा ज्वरं कुर्युः सुदुःसहम्‌॥५९॥

मलं ज्वरोष्मा धातून्वा स शीघ्रं क्षपयेत्ततः।

सर्वाकारं रसादीनां शुद्ध्याऽशुद्ध्याऽपि वा क्रमात्‌॥६०॥

वातपित्तकफैः सप्त दश द्वादश वासरान्‌।

प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च॥६१॥

इत्यग्निवेशस्य मतं, हारीतस्य पुनः स्मृतिः।

द्विगुणा सप्तमी यावन्नवम्येकादशी तथा॥६२॥

एषा त्रिदोषमर्यादा मोक्षाय च वधाय च।

शुद्ध्यशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते॥६३॥

कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम्‌।

अल्पोऽपि दोषो दूष्यादेर्लब्ध्वाऽन्यतमतो बलम्‌॥६४॥

सविपक्षो ज्वरं कुर्याद्विषमं क्षयवृद्धिभाक्‌।

दोषः प्रवर्तते तेषां स्वे काले ज्वरयन्‌ बली॥६५॥

निवर्तते पुनश्चैष प्रत्यनीकबलाबलः।

क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते॥६६॥

लीनत्वात्कार्श्यवैवर्ण्य जाड्यादीनादधाति सः।

आसन्नविवृतास्यत्वात्स्रोतसां रसवाहिनाम्‌॥६७॥

आशु सर्वस्य वपुषो व्याप्तिर्दोषेण जायते।

सन्ततः सततस्तेन, विपरीतो विपर्ययात्‌॥६८॥

विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान्‌।

दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम्‌॥६९॥

अहोरात्रस्य स द्विः स्यात्‌ सकृदन्येद्युराश्रितः।

तस्मिन्मांसवहा नाडीः मेदोनाडीस्तृतीयके॥७०॥

ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः।

सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः॥७१॥

चतुर्थको मले मेदोमज्जास्थ्यन्यतमस्थिते।

मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत्‌॥७२॥

द्विधा कफेन जंघाभ्यां स पूर्वं शिरसोऽनिलात्‌।

अस्थिमज्जोभयगते चतुर्थकविपर्ययः॥७३॥

त्रिधा, द्व्यहं ज्वरयति दिनमेकं तु मुञ्चति।

बलाबलेन दोषाणामन्नचेष्टादिजन्मना॥७४॥

ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा।

दोषदूष्यर्त्वहोरात्रप्रभृतीनां बलाज्ज्वरः॥७५॥

मनसो विषयाणां च कालं तं तं प्रपद्यते।

धातून्‌ प्रक्षोभयन्‌ दोषो मोक्षकाले विलीयते॥७६॥

ततो नरः श्वसन्‌ स्विद्यन्‌ कूजन्‌ वमति चेष्टते।

वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः॥७७॥

विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते।

सदोषशब्दं च शकृद्‌द्रवं सृजति वेगवत्‌॥७८॥

देहो लघुर्व्यपगतक्लममोहतापः

पाको मुखे करणसौष्ठवमव्यथत्वम्‌।

स्वेदः क्षवः प्रकृतियोगि मनोऽन्नलिप्सा

कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि॥७९॥

इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने ज्वरनिदानं नाम द्वितीयोऽध्यायः॥२॥

Last updated on August 13th, 2021 at 09:29 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English