Skip to content

19. बस्ति विधि – सूत्र – अ.हृ.”

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) बस्तिविधिः

एकोनविंशोऽध्यायः।

अथातो बस्तिविधिमध्यायं व्याख्यास्यामः ।

इति ह स्माहुरात्रेयादयो महर्षयः।

वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते।

उपक्रमाणां सर्वेषां सोऽग्रणीस्त्रिविधस्तु सः॥१॥

निरूहोऽन्वासनं बस्तिरुत्तरः तेन साधयेत्‌।

गुल्मानाहखुडप्लीहशुद्धातीसारशूलिनः॥२॥

जीर्णज्वरप्रतिश्यायशुक्रानिलमलग्रहान्‌।

वर्ध्माश्मरीरजोनाशान्‌ दारुणांश्चानिलामयान्‌॥३॥

अनास्थाप्यास्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः।

आमातिसारी वमिमान्‌ संशुद्धो दत्तनावनः॥४॥

श्वासकासप्रसेकार्शोहिध्मानाल्पवह्नयः।

शूनपायुः कृताहारो बद्धच्छिद्रोदकोदरी॥५॥

कुष्ठी च मधुमेही च मासान्‌ सप्त च गर्भिणी।

आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः॥६॥

रूक्षाः केवलवातार्ताः नानुवास्यास्त एव च।

येऽनास्थाप्यास्तथा पाण्डुकामलामेहपीनसाः॥७॥

निरन्नप्लीहविड्‌भेदिगुरुकोष्ठकफोदराः।

अभिष्यन्दिभृशस्थूलकृमिकोष्ठाढ्यमारुताः॥८॥

पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान्‌।

तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम्‌॥९॥

गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जु गुलिकामुखम्‌।

ऊनेऽब्दे पञ्च, पूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट्‌॥१०॥

सप्तमे सप्त, तान्यष्टौ द्वादशे, षोडशे नव।

द्वादशैव परं विंशाद्‌वीक्ष्य वर्षान्तरेषु च॥११॥

वयोबलशरीराणि प्रमाणमभिवर्द्धयेत्‌।

स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया॥१२॥

पूर्णेऽब्देऽङ्गुलमादाय तदर्द्धार्द्धप्रवर्द्धितम्‌।

त्र्यङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत्‌॥१३॥

मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्‌।

मूलच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम्‌॥१४॥

वर्त्याऽग्रे पिहितं, मूले यथास्वं द्व्यङ्गुलान्तरम्‌।

कर्णिकाद्वितयं नेत्रे कुर्यात्‌ तत्र च योजयेत्‌॥१५॥

अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्‌।

कषायरक्तं निश्छिद्रग्रन्थिगन्धशिरं तनुम्‌॥१६॥

ग्रन्थितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्‌।

बस्त्यभावेऽङ्कपादं वा न्यसेद्वासोऽथवा घनम्‌॥१७॥

निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परम्‌।

प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्‌प्रसृतास्ततः॥१८॥

प्रसृतं वर्द्धयेदूर्ध्वं द्वादशाष्टादशस्य तु।

आसप्ततेरिदं मानं, दशैव प्रसृताः परम्‌॥१९॥

यथायथं निरूहस्य पादो मात्राऽनुवासने।

आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः॥२०॥

अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत्‌।

शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा॥२१॥

अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु।

अस्निग्धरूक्षमशितं सानुपानं द्रवादि च॥२२॥

कृतचङ्‌क्रमणं मुक्तविण्मूत्रं शयने सुखे।

नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः॥२३॥

सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम्‌।

अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे॥२४॥

उच्छ्वास्य बस्तेर्वदने बद्धे हस्तमकम्पयन्‌।

पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम्‌॥२५॥

नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्‌।

सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति॥२६॥

दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ।

तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत्‌॥२७॥

ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके।

आहन्यान्मुष्टिनाऽङ्गं च स्नेहेनाभ्यज्य मर्दयेत्‌॥२८॥

वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते।

योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्नकार्यकृत्‌॥२९॥

दीप्ताग्निं त्वागतस्नेहं सायाह्ने भोजयेल्लघु।

निवृत्तिकालः परमस्त्रयो यामास्ततः परम्‌॥३०॥

अहोरात्रमुपेक्षेत, परतः फलवर्तिभिः।

तीक्ष्णैर्वा बस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये॥३१॥

अतिरौक्ष्यादनागच्छन्न चेज्जाड्यादिदोषकृत्‌।

उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत्‌॥३२॥

प्रातर्नागरधान्याम्भः कोष्णं, केवलमेव वा।

अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम्‌॥३३॥

यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्‌।

व्यायामनित्यान्‌ दीप्ताग्नीन्‌ रूक्षांश्च प्रतिवासरम्‌॥३४॥

इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये।

निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः॥३५॥

पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे।

मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते बलिमङ्गले॥३६॥

अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्‌।

अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात्‌॥३७॥

बस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सह।

क्वाथयेद्विंशतिपलं द्रव्यस्याष्टौ फलानि च॥३८॥

ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्‌।

पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके॥३९॥

सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा।

नात्यच्छसान्द्रता बस्तेः पलमात्रं गुडस्य च॥४०॥

मधुपट्वादिशेषं च युक्त्या सर्वं तदेकतः।

उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम्‌॥४१॥

प्रक्षिप्य बस्तौ प्रणयेत्पायौ नात्युष्णशीतलम्‌।

नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु॥४२॥

नात्यच्छसान्द्रं नोनातिमात्रं नापटु नाति च।

लवणं तद्वदम्लं च पठन्त्यन्ये तु तद्विदः॥४३॥

मात्रां त्रिपलिकां कृर्यात्स्नेहमाक्षिकयोः पृथक्‌।

कर्षार्द्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्‌॥४४॥

सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्‌।

माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्‌॥४५॥

आवपेत निरूहाणामेष संयोजने विधिः।

उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत्‌॥४६॥

कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत्‌॥

आगतौ परमः कालो मुहूर्तो मृत्यवे परम्‌॥४७॥

तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्‌।

त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिमन्यं प्रपीडयेत्‌॥४८॥

विदद्यात्फलवर्तिं वा स्वेदनोत्रासनादि च।

स्वयमेव निवृत्ते तु द्वितीयो बस्तिरिष्यते॥४९॥

तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता।

विरिक्तवच्च योगादीन्विद्यात्‌ योगे तु भोजयेत्‌॥५०॥

कोष्णेन वारिणा स्नातं तनुधन्वरसौदनम्‌।

विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः॥५१॥

ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्‌।

अथ वातार्दितं भूयः सद्य एवानुवासयेत्‌॥५२॥

सम्यग्घीनातियोगाश्च तस्य स्युः स्नेहपीतवत्‌।

किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते॥५३॥

सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम्‌।

एकं त्रीन्‌ वा बलासे तु स्नेहबस्तीन्‌ प्रकल्पयेत्‌॥५४॥

पञ्च वा सप्त वा पित्ते, नवैकादश वाऽनिले।

पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः॥५५॥

कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्‌।

वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः॥५६॥

बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः।

न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ॥५७॥

पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ।

आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः॥५८॥

रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे।

त्रयस्ते सन्निपातेऽपि दोषान्‌ घ्नन्ति यतः क्रमात्‌॥५९॥

त्रिभ्यः परं बस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः।

न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति॥६०॥

उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्‌।

त्रिधैव कल्पयेद्बस्तिमित्यन्येऽपि प्रचक्षते॥६१॥

दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्‌।

सम्यङ्निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्‌॥६२॥

प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च।

सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः॥६३॥

कालः पञ्चदशैकोऽत्र प्राक्‌ स्नेहोऽन्ते त्रयस्तथा।

षट्‌ पञ्चबस्त्यन्तरिताः योगोऽष्टौ बस्तयोऽत्र तु॥६४॥

त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ।

स्नेहबस्तिं निरूहं वा नैकमेवाति शीलयेत्‌॥६५॥

उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्‌।

तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः॥६६॥

स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्‌।

ह्रस्वया स्नेहपानस्य मात्रया योजितः समः॥६७॥

मात्राबस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः।

बालवृद्धाध्वभारस्त्रीव्यायामासक्तचिन्तकैः॥६८॥

वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः।

दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः॥६९॥

बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च।

द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्‌॥७०॥

आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्‌।

वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्‌॥७१॥

सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्‌।

कुन्दाश्वमारसुमनः पुष्पवृन्तोपमं दृढम्‌॥७२॥

तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा।

अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः॥७३॥

ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ।

हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये॥७४॥

सूक्ष्मां शलाकां प्रणयेत्तया शुद्धेऽनुसेवनि।

आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः॥७५॥

पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः।

बस्तीननेन विधिना दद्यात्‌त्रींश्चतुरोऽपि वा॥७६॥

अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्‌।

स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृत्तेः॥७७॥

विदधीत तदा तस्मादनृतावपि चात्यये।

योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे॥७८॥

नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्‌।

अपत्यमार्गे योज्यं स्याद् द्व्यङ्गुलं मूत्रवर्त्मनि॥७९॥

मूत्रकृच्छ्रविकारेषु, बालानां त्वेकमङ्गुलम्‌।

प्रकुञ्चो मध्यमा मात्रा, बालानां शुक्तिरेव तु॥८०॥

उत्तानायाः शयानायाः सम्यक्‌ सङ्कोच्य सक्थिनी।

ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्‌॥८१॥

बस्तींस्त्रिरात्रमेवं च स्नेहमात्रां विवर्द्धयन्‌।

त्र्यहमेव च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम्‌॥८२॥

पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्‌।

सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः॥८३॥

यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः।

तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्‌॥८४॥

शाखागताः कोष्ठगताश्च रोगा

मर्मोर्ध्वसर्वावयवाङ्गजाश्च ।

ये सन्ति तेषां न तु कश्चिदन्यो

वायोः परं जन्मनि हेतुरस्ति॥८५॥

विट्‌श्लेष्मपित्तादिमलोच्चयानां

विक्षेपसंहारकरः स यस्मात्‌।

तस्यातिवृद्धस्य शमाय नान्य-

द्बस्तेर्विना भेषजमस्ति किञ्चित्‌॥८६॥

तस्माच्चिकित्सार्द्ध इति प्रदिष्टः।

कृत्स्ना चिकित्साऽपि च बस्तिरेकैः।

तथा निजागन्तुविकारकारि-

रक्तौषधत्वेन शिराव्यधोऽपि॥८७॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने

बस्तिविधिर्नामैकोनविंशतितमोऽध्यायः॥१९॥

Last updated on August 10th, 2021 at 07:15 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English